कैलासशिखरासीनं सोमं सोमार्धशेखरम्
हरं दृष्ट्वाब्रवीत्तार्क्ष्यः स्तुतिपूर्वमिदं वचः १
गरुडः
जयान्धकपृथुस्कन्धबन्धभेदविचक्षण
जय प्रवरवीरेशसंरुद्धपुरदाहक २
जयाखिलसुरेशानशिरश्छेदभयानक
जय प्रथितसामर्थ्यमन्मथस्थितिनाशन ३
जयाच्युततनुध्वंसकालकूटबलापह
जयावर्तमहाटोपसरिद्वेगविधारण ४
जय दारुवनोद्यानमुनिपत्नीविमोहक
जय नृत्तमहारम्भक्रीडाविक्षोभदारुण ५
जयोग्ररूपसंरम्भत्रसितत्रिदशासुर
जय क्रूरजनेन्द्रास्यदर्शितासृक्सुनिर्झर ६
जय वीरपरिस्पन्ददक्षयज्ञविनाशन
जयाद्भुतमहालिङ्गसंस्थानबलगर्वित ७
जय श्वेतनिमित्तोग्रमृत्युदेहनिपातन
जयाशेषसुखवासकाममोहितशैलज ८
जयोपमन्युसन्तापमोहजालतमोहर
जय पातालमूलोर्ध्वलोकालोकप्रदाहक ९
भक्तस्य मम भीतस्य शिवज्ञानं परं वद
यदवाप्य नराः सर्वे मुक्तिमायान्ति केवलाम् १०
एवमुक्तो हरः प्राह प्रस्फुरच्चन्द्रशेखरः
भगवान्
भद्रमेतत्त्वया पृष्टं शृणु ज्ञानं महोदयम् ११
किरणाख्यं महातन्त्रं परामृतसुखप्रदम्
सर्वानुग्राहकं शुभ्रं पदार्थद्योतकं स्फुटम् १२
पशुपाशपतिज्ञानविचारप्रतिपादकम्
क्रियाचर्यासमोपेतं योगभूतिभरावहम् १३
गरुडः
यद्येवं स पशुस्तावत्कीदृशो बध्यते कथम्
मुच्यते कथमाख्याहि सन्देहविनिवर्तये १४
भगवान्
पशुर्नित्यो ह्यमूर्तोऽज्ञो निष्क्रियो निर्गुणोऽप्रभुः
व्यापी मायोदरान्तःस्थो भोगोपायविचिन्तकः १५
तस्याशुद्धस्य सम्बन्धं समायाति शीवात्कला
तयोद्बलितचैतन्यो विद्याख्यापितगोचरः १६
रागेन रञ्जितश्चापि प्रधानेन गुणात्मना
बुद्ध्यादिकरणानीकसम्बन्धाद्बध्यते पशुः १७
ततो नियतिसंश्लेषात्स्वर्जितेऽपि नियम्यते
कालेन कालसङ्ख्यानकार्यभोगविमोहितः १८
एवं तत्त्वकलाबद्धः किञ्चिज्ज्ञो देहसंयुतः
मायाभोगपरिष्वक्तस्तन्मयः सहजावृतः १९
ततः सुखादिकं कृत्स्नं भोगं भुङ्क्ते स्वकर्मतः
समे कर्मणि सञ्जाते कालान्तरवशात्ततः २०
तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
सर्वज्ञः स शिवो यद्वत् किञ्चिज्ज्ञत्वविवर्जितः २१
शिवत्वव्यक्तिसम्पूर्णः संसारी न पुनस्तदा
एवं क्रमाद्विबद्धः सन्मुच्यते क्रमयोगतः २२
केवलः सकलः शुद्धस्त्र्यवस्थः पुरुषः स्मृतः
मलिनत्वाच्चितेर्मोक्षः प्राप्यते निर्मलाच्छिवात् २३
पशुरेवंविधः प्रोक्तः किमन्यत्परिपृच्छसि २४
इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे पशुपटलः प्रथमः
२