दशमः पटलः
देव्युवाच
शाम्भवानां हि शुद्धानां सततं लिङ्गधारिणाम् ।
सम्प्राप्तेऽशुचिसंसर्गे लोकसंसर्गसम्भवे ॥
नानाविधे कथं नु स्यात् प्रायश्चित्तं वदस्व मे ॥ १ ॥
महादेव उवाच
साधु पृष्टं महादेवि त्वया लोकहितेच्छया ।
प्रायश्चित्तविधिं वक्ष्ये सदा लिङ्गाङ्गसङ्गिनाम् ॥ २ ॥
लिङ्गं हि सर्वदा शुद्धमशुद्धं सर्वदा वपुः ।
अतः षडध्वसंशुद्धियोगाच्छुद्धं विधाय तत् ॥ ३ ॥
प्रतिष्ठितं लिङ्गमत्र ततः शारीरदोषतः ।
न लिङ्गमपवित्रं स्यात् सर्वावस्थासु भामिनि ॥ ४ ॥
दीक्षासंस्काररहितैरपवित्रशरीरकैः ।
न संस्पृश्यं हि मल्लिङ्गमिति निर्णीतमद्रिजे ॥ ५ ॥
[[११९]]
प्रतिष्ठायां दीक्षितस्यैवाधिकारः
अदीक्षितो नाधिकारी प्रतिष्ठायां मम प्रिये ।
दीक्षितैरेव कर्तव्यं प्रतिष्ठेति प्रतिश्रुतम् ॥
अन्यथा राष्ट्रनाशः स्यात् तस्मादन्यैर्न कारयेत् ॥ ६ ॥
परार्थपूजाधिकृतो यद्यपि स्याच्छिवद्विजः ।
तथापि तस्य कानीनतया ब्ब्राह्मण्यलोपतः ॥ ७ ॥
आचार्यत्वानधिकृतेः प्रतिष्ठायां स नार्हति ।
दीक्षासंस्कारयुक्तश्चेत् पूजायां स्थावरेषु सः ॥
स्वपरार्थोपयुक्तायामधिकुर्यान्न संशयः ॥ ८ ॥
दीक्षासंस्कारसम्पन्नस्तस्माल्लिङ्गाङ्गसङ्गवान् ।
लोकाराध्यत्वयोगेन प्रतिष्ठाधिकृतो भवेत् ॥ ९ ॥
शैवदीक्षापवित्राङ्गाः सर्वावस्थास्वपि प्रिये ।
स्पृशन्तो नैव दुष्यन्ति मम लिङ्गं सुशोभनम् ॥ १० ॥
अदीक्षितः स्पृशन् लिङ्गं दोषी भवति निश्चितम् ।
अदीक्षितैस्तु स्पृष्टं चेल्लिङ्गं संस्कार्यमेव हि ॥ ११ ॥
[[१२०]]
देव्युवाच
निशि निद्राविनिघ्नस्य लुठतः परिपार्श्वयोः ।
लिङ्गस्याधस्थितिर्भाव्या कथं दोषः प्रशाम्यति ॥ १२ ॥
महादेव उवाच
करपादादिसंस्पर्शह्तोर्दोषस्य सुभ्रुवः ।
नान्या विनिष्कृतिः शस्ता प्रातः पत्युः पदानतेः ॥ १३ ॥
तथोषसि प्रबोधाप्तौ मल्लिङ्गप्रणतिः परा ।
सर्वदोषप्रशमनी नेत्रसंस्पर्शरूपिणी ॥ १४ ॥
देव्युवाच
लिङ्गस्य धर्तुः शारीरदोषास्पर्शेऽपि नित्यशः ।
अदीक्षितैश्च संस्पर्शो लोके सम्भाव्यते खलु ॥ १५ ॥
वपनादिष्ववशतो नापितस्पर्श इष्यते ।
हीनवर्णैरपि तथा चण्डालैः श्वपचैरपि ॥ १६ ॥
लिङ्गिनः स्पर्शसम्प्राप्तौ कीदृशी निष्कृतिर्भवेत् ।
एतत्सर्वं समाचक्ष्व लोकानुग्रहतत्पर ॥ १७ ॥
[[१२१]]
महादेव उवाच
वपनादौ न लिङ्गस्य मुण्डिस्पर्शो यथा भवेत् ।
तथा प्रयतितव्यं खल्वन्यथा निष्कृतिः परा ॥ १८ ॥
लिङ्गिनो नापितस्पर्शे शिवसूत्रं विसृज्य च ।
पुनर्नवं धार्यमेव ब्रह्मसूत्रं तथैव च ॥
पञ्चाक्षरीं च गायत्रीमष्टोत्तरशतं जपेत् ॥ १९ ॥
लिङ्गस्य नापितस्पर्शे पवमानादिसूक्तकैः ।
श्रीरुद्रेण च कर्तव्यं प्रोक्षणं सुविशेषतः ॥ २० ॥
चण्डालादिजनस्पर्शे सूत्रयुग्ममपास्य च ।
पवमानादिभिः प्रोक्ष्य चाष्टोत्तरसहस्रकम् ॥
गायत्रीं मूलमन्त्रं च जप्त्वा नक्ताशनो भवेत् ॥ २१ ॥
अदीक्षितैः सवर्णैश्चासवर्णैश्चापि सङ्गतौ ।
मूलमष्टोत्तरशतं जपेत् तद्दोषशान्तये ॥ २२ ॥
देव्युवाच
निष्कृतिः कीदृशी प्रोक्ता कालभङ्गेऽर्चनस्य तु ।
आपत्सु पूजालोपे च तथा लोपे जपस्य च ॥
अलाभे पत्रपुष्पाणां नियतानां च सङ्ख्यया ॥ २३ ॥
[[१२२]]
महादेव उवाच
मूलमष्टोत्तरशतं कालभङ्गेऽर्चनस्य तु ।
पूजायाश्च जपस्यापि लोपे मूलं सहस्रकम् ॥ २४ ॥
अलाभे पत्रपुष्पाणां नियतानां सुलोचने ।
एकैकस्य जपेदेव मूलमष्टोत्तरं शतम् ॥ २५ ॥
देव्युवाच
करात् प्रमादवशतश्च्युतं लिङ्गमधः पतेत् ।
तदा वै किं नु कर्त्तव्यं प्रायश्चित्तं वदस्व मे ॥ २६ ॥
महादेव उवाच
प्रमादेन यदा लिङ्गं निजहस्तादधः पतेत् ।
गृहीत्वा तत्तदा जप्यं मूलमष्टोत्तरं शतम् ॥ २७ ॥
अनुक्तानां च दोषाणां नित्यं सम्भावितात्मनाम् ।
प्रायश्चित्ततया जप्यं मूलमष्टोत्तरं शतम् ॥ २८ ॥
देव्युवाच
गुरुदत्तस्य लिङ्गस्य भङ्गो लोपोऽथवा भवेत् ।
किं नु कार्यं तदा देव कृपया तन्निबोध मे ॥ २९ ॥
[[१२३]]
महादेव उवाच
हन्त ते कथयामीदं रहस्यमपि सुव्रते ।
द्वित्रिखण्डतया भङ्गे बध्वा सर्जरसेन तु ॥
कृत्वा तत्त्वकलान्यासं पूजयेदविशेषतः ॥ ३० ॥
चूर्णीभावे तु लिङ्गस्य चान्यस्मिन् तद्गताः कलाः ।
आरोप्य बिभृयाल्लिङ्गं पुनर्लब्धं गुरोः करात् ॥ ३१ ॥
अथ लिङ्गस्य लोपे तु कर्तव्यं शृणु सुन्दरि ।
लिङ्गस्यादर्शने त्याज्याः प्राणाः स्युर्भक्तियोगतः ॥ ३२ ॥
प्राणत्यागो त्वशक्तश्चेदेकविंशद्दिनावधि ।
निराहारो जपन्मूलं लिङ्गमन्वेषयेज्जनैः ॥ ३३ ॥
यदा वै लभते लिङ्गं धृत्वा भक्त्या तदैव तत् ।
गुरुं माहेश्वराञ्चैव यथाशक्ति समर्चयेत् ॥ ३४ ॥
तदाप्यलाभे विसृजेदसून् सद्भक्तियोगतः ।
प्राणत्यागे त्वशक्तश्चेल्लिङ्गमन्यद् गुरोः करात् ॥ ३५ ॥
[[१२४]]
आकृष्टपूर्वलिङ्गीयकलान्यासाभिशोभितम् ।
षडध्वन्यासकलितं बिभृयादप्रमादतः ॥ ३६ ॥
देव्युवाच
देवदेव महादेव धृते लिङ्गे नवे ततः ।
लभेत् चेत् पूर्वलिङ्गम् कर्तव्यं किं वदस्व मे ॥ ३७ ॥
महादेव उवाच
पूर्वलिङ्गोपलम्भेऽपि त्यजेन्नैव धृतं नवम् ।
यत्तदीयकलाः सर्वा नवे संवेशिताः पुरा ॥
तत्पूर्वलिङ्गं गुरवे विनिवेद्य क्षिपेज्जले ॥ ३८ ॥
देव्युवाच
नष्टलिङ्गस्त्यजेत् प्राणान् यदि देहं तदीयकम् ।
तत्कथं ब्रूहि संस्कार्यमनर्हं लिङ्गवर्जितम् ॥ ३९ ॥
यदि धार्यं लिङ्गमन्यत् प्राणत्यागो निरर्थकः ।
चेदधार्यमसंस्कार्यं गात्रं तस्य भवेत् तदा ॥ ४० ॥
दोषस्तूभयथा दृष्टो नष्टलिङ्गस्य देहिनः ।
एनं मे संशयं छिन्धि करुणावरुणालय ॥ ४१ ॥
[[१२५]]
महादेव उवाच
त्यक्तासोर्नष्टलिङ्गस्य तत्क्षणे मोक्षसङ्गतिः ।
नानर्थस्तदसुत्यागः संस्कारस्तु यथा शृणु ॥ ४२ ॥
आकृष्टनष्टलिङ्गीयकलान्यासयुतं नवम् ।
लिङ्गमन्यत् सुसंयोज्य संस्कुर्याद् विधिना तनुम् ॥ ४३ ॥
संस्कारार्थं पुनर्लिङ्गे योजितेऽपि शरीरके ।
त्यक्तासोर्नैव लोपोऽस्ति यदयं मोक्षमाप्तवान् ।
तल्लिङ्गं प्राणवद् धार्यमप्रमादेन सर्वदा ॥ ४४ ॥
सर्वं ते कथितं देवि रहस्यमपि सुव्रते ।
अपुत्रायाप्यशिष्याय न प्रकाश्यमिदं त्वया ॥ ४५ ॥
इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे
प्रायश्चित्तविधिकथनं नाम दशमः पटलः ॥ १०