०९

नवमः पटलः

देव्युवाच

विद्येशान महादेव सर्वज्ञादिगुरो विभो ।
अर्चाविधानश्रवणात् कृतार्थाऽस्मि भवन्मुखात् ॥ १ ॥

श्रोतुकामाऽस्मि नियमान् दीक्षितानां विशेषतः ।
ब्रूहि तानखिलानीश पाहि मां करुणाकर ॥ २ ॥

महादेव उवाच

वक्ष्यामि शृणु कल्याणि नियमानखिलानपि ।
मत्पूजातत्परेणाशु मत्प्रसादाभिकाङ्क्षिणा ॥ ३ ॥

दीक्षितानां नियमाः

पत्राण्यपि प्रसूनानि वर्तिकाश्च जपस्तथा ।
सङ्ख्या नियमतो नित्यं ग्रहणीया न चान्यथा ॥ ४ ॥

दीक्षासंस्काररहितैर्जनैः स्पृष्टं जलादिकम् ।
नोपयोज्यं हि कृत्येषु मदर्पणमुखादिषु ॥ ५ ॥

नेक्षेत पूजावेलायां दीक्षासंस्कारवर्जितान् ।
न कुप्येच्चिन्तयेदन्यान् नान्यैः संल्लापमाचरेत् ॥ ६ ॥

[[१११]]

लिङ्गमङ्गे मुखे भस्म गले रुद्राक्षमेव च ।
मन्नाम वाचि च तथा न कदापि वियोजयेत् ॥ ७ ॥

वस्त्रमाभरणं पुष्पमन्नपानाद्यमौषधम् ।
न मेऽसमर्प्य सेवेत प्राणैः कण्ठगतैरपि ॥ ८ ॥

निवेदितमथान्यस्मै न तु मह्यं निवेदयेत् ।
समर्पितं च लिङ्गाय न चान्यस्मै समर्पयेत् ॥ ९ ॥

देव्युवाच

एवं यदि महेशान कथं स्त्रीणामिदं भवेत् ।
पत्न्या हि भर्तुरुच्छिष्टं नित्यं सेव्यं समीरितम् ॥
न भोज्यमसमर्प्येति गदितं भवतैव तु ॥ १० ॥

भर्त्रा हि स्वीयलिङ्गाय समर्पितमिदं पुरा ।
कथं पुनर्निवेद्यं स्याद् भोज्यं वाप्यसमर्प्य च ॥
एनं मे संशयं छिन्धि करुणावरुणालय ॥ ११ ॥

महादेव उवाच

साधु पृष्टं त्वया देवि शृणु गोप्यमिदं प्रिये ।
निवेदने विशेषोऽस्ति वक्ष्याम्यवहिता भव ॥ १२ ॥

[[११२]]

द्विविधं नैवेद्यम्

लिङ्गभोगस्वरूपं चानुज्ञारूपमिति द्विधा ।
भर्तृशेषादिरूपस्य प्रसादस्य गुरोर्मम ॥
तीर्थस्य चार्पणं प्रोक्तमनुज्ञारूपमेव हि ॥ १३ ॥

इष्टानिष्टप्रभेदेन देहिनां कर्मयोगतः ।
लभ्यन्ते ह्यनिशं भोगास्तेषु तेष्वपि मद्व्रती ॥ १४ ॥

इष्टे तु भोगरूपं चानुज्ञारूपमनिष्टके ।
निवेदनं प्रकुर्वीत ग्राम्यधर्मादिके तथा ॥ १५ ॥

देव्युवाच

भर्तृशेषो न योज्यः स्याद्यदि भोगार्पणात्मना ।
स्त्रीणामनुदिनं भग्नं तादृशं हि समर्पणम् ॥ १६ ॥

यतश्च प्रत्यहं सेव्यो भर्तृशेषः समीरितः ।
अथवाऽप्यर्चनं कृत्वा कथं कुर्यान्निवेदनम् ॥ १७ ॥

भर्तृशेषो न योग्यो हि चेदन्येन पतिव्रता ।
भुञ्जीतान्यतरत् तत्र सा किं ब्रूह्यथवोभयम् ॥ १८ ॥

[[११३]]

महादेव उवाच

सुवासिनी समर्च्यापि भोगरूपनिवेदनम् ।
अन्येनैव विधायानुज्ञाप्य तद् भर्तृशेषकम् ॥
उभयं चैव भुञ्जीत भक्तियुक्ता मयि प्रिये ॥ १९ ॥

अनर्पितं यथाऽभोज्यमत्याज्यं मन्निवेदितम् ।
मत्प्रसादपरित्यागी मत्प्रसादं स नार्हति ॥ २० ॥

देव्युवाच

निवेदितं चेदत्याज्यं कथमत्रोपपद्यते ।
दारेभ्यश्चैव शिष्येभ्यः कथं देयं प्रसादकम् ॥ २१ ॥

अर्थिभ्यो रौरवीयेभ्यः प्रदेयं वा जलं कथम् ।
गण्डूषकरश्द्ध्यादि कथं समुपपद्यताम् ॥ २२ ॥

गण्डूषादौ प्रसादस्य त्यागः सम्भाव्यते खलु ।
प्रसादस्य पवित्रत्वान्मुखशुद्धिः कथं भवेत् ॥ २३ ॥

अनर्पितेन पयसा कथं गण्डूष इष्यते ।
समर्पितेन यदि तत् कथं समुपपद्यते ॥ २४ ॥

[[११४]]

निवेदनैकविषयो विशयो बाधते महान् ।
एतत्सर्वं समावेद्य भक्तानीकं समुद्धर ॥ २५ ॥

महादेव उवाच

दारादिभ्यः प्रसादस्य नारकिभ्यो जलस्य च ।
प्रदानेनार्पितत्यागदोषो नैवास्ति भामिनि ॥ २६ ॥

त्यागस्याविधिमूलस्य निषेधविषयत्वतः ।
यथाऽविधिकृतत्यागो न दोषो गुण एव हि ॥ २७ ॥

गण्डूषमुखशुद्ध्यादिक्रियार्थार्पितवारिणा ।
तास्ताः क्रिया हि कर्तव्याः कुर्वन्नेवं न दुष्यति ॥ २८ ॥

प्रसादेऽतिपवित्रेऽपि मुखशुद्धेर्विधानतः ।
तत्रावशकृतत्यागो न दोषो विधिमूलकः ॥ २९ ॥

कणत्रयात्मना योऽयं गुर्वादेरुपयुज्यते ।
लालासम्बन्धराहित्यात्तत्र शुद्धिर्न हीष्यते ॥ ३० ॥

[[११५]]

मदर्चनपरो नित्यं मद्ध्यानाधीनचेतनः ।
मन्नामचिन्तनोद्युक्तो नान्यदेवादिकं स्मरेत् ॥ ३१ ॥

देव्युवाच

वर्णाश्रमैकनिष्ठानां नित्यनैमित्तिकादिषु ।
अग्न्यादिपरिचर्याश्च प्राप्यन्तेऽहरहः किल ॥
त्वदेकनिष्ठापरमैः कर्तव्यास्ताः कथं प्रभो ॥ ३२ ॥

महादेव उवाच

राजैकसेवकस्यापि तदाज्ञावशतः प्रिये ।
तन्मन्त्र्यादेश्च कैङ्कर्यं भृत्यस्य नहि दुष्यति ॥ ३३ ॥

मन्निष्ठानामपि तथा मदाज्ञाश्रुतिचोदनात् ।
नित्यनैमित्तिके चान्यदेवसेवा न दुष्यति ॥ ३४ ॥

मदर्पणार्थरचितपाकशेषं प्रयत्नतः ।
न प्रयच्छेदभक्तेभ्यो विजातीयेभ्य एव च ॥ ३५ ॥

[[११६]]

यः स्वयं भुक्तियुक्तोऽपि शैवं वाङ्मात्रतो जनम् ।
अधमं मन्यते तस्य भक्तिर्व्यर्था महेश्वरि ॥ ३६ ॥

तस्माद् भक्तियुतो मर्त्यो न्यूनमन्यूनमेव वा ।
अधमं वाऽपि रुद्राक्षभस्मलिङ्गविभूषणम् ॥
उत्तमोत्तमरूपेण पश्येत् सर्वमसंशयम् ॥ ३७ ॥

देव्युवाच

वर्णाश्रमैकसक्तानां कथमत्रोपपद्यते ।
विप्रेण ह्यन्यजातीयो भाव्यः स्यादुत्तमत्वतः ॥
भाविते वर्णमर्यादा न कथं व्याहता भवेत् ॥ ३८ ॥

महादेव उवाच

विप्रो विजातिभक्तांस्तु मनसैव हि पूजयेत् ।
अन्यथा वर्तमानो हि लभते वर्णविच्युतिम् ॥ ३९ ॥

अधोगतिनिवृत्तिं हि वर्णधर्मो नियच्छति ।
समग्रा सुस्थिरा शुद्धा भक्तिर्मुक्तिं प्रयच्छति ॥ ४० ॥

वर्णाश्रमयुतानां हि भक्तिलोपो भवेद्यदि ।
अधः पदोपलब्धिः स्यादन्त्ये सर्वाङ्गसुन्दरि ॥ ४१ ॥

अतः सर्वाङ्गसम्पूर्णभक्तियुक्तात्मनां प्रिये ।
वर्णाश्रमीयधर्माणां निर्बन्धः सफलः स्मृतः ॥ ४२ ॥

इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे
नियमोपदेशो नाम नवमः पटलः ॥ ९ ॥

[[११८]]