०८

अष्टमः पटलः

देव्युवाच

देवदेव जगन्नाथ सर्वानुग्रहतत्पर ।
विधानमिदमुत्कृष्टं वेदमन्त्रसमन्वितम् ॥ १ ॥

वेदाधिकारिणां सम्यगनुष्ठेयं प्रकाशितम् ।
स्त्रीमुख्याः केन विधिना कृतार्थाः स्युर्निबोध मे ॥ २ ॥

महादेव उवाच

महादेवि प्रवक्ष्यामि तान्त्रिकं पूजनक्रमम् ।
अनुष्ठितेन येन स्युः सर्वे सर्वार्थभाजनाः ॥ ३ ॥

तान्त्रिकपूजनक्रमः

विद्यासु श्रुतिरुत्कृष्टा रुद्रैकादशिनी श्रुतौ ।
तत्र पञ्चाक्षरस्तत्र शिव इत्यक्षरद्वयम् ॥ ४ ॥

तस्मादधिकृतां वेदे तत्राऽनधिकृतामपि ।
मदीयमूलमन्त्रेण पूजनं सर्वतो वरम् ॥ ५ ॥

अथवा तान्त्रिकैर्मन्त्रैरपि पूजा विशिष्यते ।
एषु भात्युपचारार्थः स्पष्टः सर्वोऽपि भामिनि ॥ ६ ॥

[[९६]]

वैदिकेषु तु मन्त्रेषु लिङ्गादेवौपचारिकात् ।
तेषु तेषूपचारेषु वेदमन्त्रा नियोजिताः ॥ ७ ॥

समनुष्ठीयमानोऽर्थो येषु स्पष्टं प्रकाशते ।
तेष्वेव पठ्यमानेषु चित्तं कृत्येऽनुरज्यते ॥ ८ ॥

भक्तिलभ्योऽस्म्यहं यस्मादभक्त्या पूजनं वृथा ।
तन्मन्त्रास्तान्त्रिका देवि पूजायामुत्तमोत्तमाः ॥ ९ ॥

तान्त्रिकपूजायां सर्वेषामधिकारः

सर्वेषामधिकारोऽस्ति तान्त्रिकेषु वरानने ।
वैदिकानां तथान्येषां स्त्रीणां पुंसां च सुव्रते ॥ १० ॥

शिवकुम्भपूजनम्

वैदिकोऽपि च संयुक्तैस्तान्त्रिकैरपि पूजयेत् ।
ईशान इति मन्त्रेण शिवकुम्भं प्रपूजयेत् ॥ ११ ॥

ईशानः कलशस्याग्रे पूर्वे तत्पुरुषस्तथा ।
अघोरो दक्षिणे चैव सद्योजातस्तु पश्चिमे ॥ १२ ॥

उत्तरे वामदेवश्च मध्ये च परमः शिवः ।
अधोभागे परा शक्तिर्विश्वोद्भासनकारिणी ॥ १३ ॥

सद्रूपं कलशाकारं चिद्रूपं कलशद्युतिः ।
मध्यस्थं जलमुत्कृष्टं सर्वतीर्थोत्तमोत्तमम् ॥ १४ ॥

[[९७]]

चिदानन्दरसं साक्षाच्छिवरूपमिति स्मृतम् ।
इति मन्त्रैश्च गन्धाद्यैः शिवकुम्भं प्रपूजयेत् ॥ १५ ॥

इष्टलिङ्गपूजा

हृदयाद्रिगुहावास करुणावास शाश्वत ।
पूजापरिग्रहायाद्य करपीठे निषीद मे ॥
इति मन्त्रेणेष्टलिङ्गं विन्यसेत् करपङ्कजे ॥ १६ ॥

पञ्चपञ्चात्मलीलाढ्य पञ्चकृत्यपरायण ।
आवाहितः सुप्रसन्नः सान्निध्यं कुरु सर्वदा ॥ १७ ॥

इत्यावाह्य गुरुन्नत्वा नुत्वा सम्पूज्य च क्रमात् ।
ध्यात्वा मां वै सुप्रसन्नं मूलमन्त्रं जपेदपि ॥
दशावधानविधिना चिरं लिङ्गं समीक्ष्य च ॥ १८ ॥

सर्वमङ्गलयाऽऽश्लिष्टशुभाङ्ग हृदयङ्गम् ।
नीराजनं गृहाणेश सानुरागं सदाशिव ॥ १९ ॥

नीराजनं सानुरागमिति मन्त्रेण सर्शयेत् ।
ततश्च मूलमन्त्रेण भस्म पुष्पं निधाय च ॥ २० ॥

[[९८]]

अन्तस्थित बहिर्व्याप्त ज्योतिर्लिङ्गस्वरूपक ।
नीराजनं गृहाणेश दर्शनाख्यं सदाशिव ॥
इति दर्शननीराजनं दत्वा पाद्यमर्पयेत् ॥ २१ ॥

हरिमुख्यामरशिरोरत्ननीराजिताङ्घ्रिक ।
भवत्पादाब्जयोः पाद्यं गृहाण परमेश्वर ॥
इति पाद्यं समर्प्यैव हस्तयोरर्घ्यमर्पयेत् ॥ २२ ॥

वराभयाङ्कितकरकञ्जपालितकिङ्कर ।
हस्तनीरेजयोरर्घ्यं गृहाण गिरिजावर ॥
इति चार्घ्यं समर्प्याथाचमनीयं मुखेऽर्पयेत् ॥ २३ ॥

जगदाभीलकाकोलगोलपालिलसद्गल ।
श्रीमन्मुखाम्बुजे दत्तं गृहाणाचमनीयकम् ॥
दत्त्वाऽऽचमनमित्येवं स्नापयेदिष्टलिङ्गकम् ॥ २४ ॥

गङ्गातरङ्गसङ्गाञ्चितोत्तमाङ्ग नमोऽस्तु ते ।
शुद्धोदकस्नानमिदं गृहाण परमेश्वर ॥ २५ ॥

[[९९]]

इति संस्नाप्य च ततस्तीर्थं मूर्धनि निक्षिपेत् ।
पादोदकं गृहीत्वा च नमस्कुर्यादनन्तरम् ॥ २६ ॥

सर्वमङ्गलमाङ्गल्यं सर्वपावनपावनम् ।
सर्वसिद्धिकरं पुंसां शम्भोः पादाम्बुसेवनम् ॥
इति प्राश्य ततो लिङ्गं गन्धाद्यैरभिपूजयेत् ॥ २७ ॥

चिद्रूप जगदाधार स्थूलसूक्ष्म परात्पर ।
नीराजनं गृहाणेशावसराख्यं सदाशिव ॥ २८ ॥

इत्यवसराख्यनीराजनं दत्वा फलादिकम् ।
समर्प्य चेष्टलिङ्गाग्रे भस्मभ्युक्ष्य सुमादिकम् ॥
दत्त्वा मज्जननीराजनं पश्चादभिदर्शयेत् ॥ २९ ॥

परिपूर्णचिदानन्द जलाध्यक्ष सदाशिव ।
नीराजनं गृहाणेश मज्जनाख्यं सुशोभनम् ॥ ३० ॥

इति दत्त्वा पुनः पाद्यमर्घ्यमाचमनीयकम् ।
पूर्वमन्त्रैः प्रदायाथ स्नानं च परिकल्पयेत् ॥ ३१ ॥

पञ्चब्रह्ममयतनो पञ्चकृत्यपरायण ।
पञ्चामृतस्नानमिदं गृह्यतां भक्तवत्सल ॥ ३२ ॥

[[१००]]

आकाशवाहिनीनद्धजटापटलभासुर ।
शुद्धोदकस्नानमिदं गृहाण जगदीश्वर ॥ ३३ ॥

अभिषेकं विधायैवं तीर्थं स्वशिरसि क्षिपेत् ।
पादतीर्थं गृहीत्वाऽथ नमस्कृत्याऽदरेण तु ॥ ३४ ॥

भवाम्बुनिधिनिस्तारसेतवे मोक्षहेतवे ।
पापप्रशमनार्थाय पादतीर्थाय ते नमः ॥ ३५ ॥

अशेषज्योतिरुद्भासकोत्तमज्योतिरात्मक ।
अङ्गारतापनमिदं कुरु शीतापनोदनम् ॥
इत्यग्निना विधूमेन तापनं संविधाय च ॥ ३६ ॥

अशेषवासनोन्मूलकारणात्मीयभासन ।
धूपसंवीजनं शम्भो गृह्यतां भक्तवत्सल ॥
संवीज्य धूपमित्येवं पुनर्धूपं प्रसारयेत् ॥ ३७ ॥

अनन्ताअङ्गल्यगुणरत्नरत्नाकरायित ।
नीराजनं गृहाणेश माङ्गल्याख्यं सदाशिव ॥
इति माङ्गल्यनीराजनं दत्त्वा वस्त्रमर्पयेत् ॥ ३८ ॥

[[१०१]]

नृसिंहचर्मोत्तरीय गजाजिनपरिष्कृत ।
वस्त्रयुग्ममिदं शम्भो गृहाण जगदीश्वर ॥
वस्त्रयुगमं समर्प्यैवं भूतिं सन्धारयेत् ततः ॥ ३९ ॥

फालाग्निदग्धप्रद्युम्नवपुर्भसितभूषित ।
शिवाग्निजमिदं भस्म ध्रियतां जगतां पते ।
इति सन्धार्य सजलं भस्म गोमयसम्भवम् ॥ ४० ॥

फणामणिघृणीभ्राजिनागयज्ञोपवीतक ।
यज्ञेश्वर गृहाणेश स्वर्णयज्ञोपवीतकम् ॥
इति मन्त्रेणोपवीतं दत्वा गन्धं समर्पयेत् ॥ ४१ ॥

कामाङ्गहसितालेपसमुज्ज्वलशुभाङ्गक ।
सुगन्धी चन्द्रसम्बन्धः श्रीगन्धः प्रतिगृह्यताम् ॥
इति गन्धं साक्षतं च दत्त्वा तेन विलेपयेत् ॥ ४२ ॥

अक्षयानन्दसन्धायकाक्षयाङ्गप्रदायक ।
अक्षतान् सुगृहाणेश पक्षिवाहनपूजित ॥
इति शुभ्राक्षतान् दत्त्वा कर्पूरं दीपयेत् ततः ॥ ४३ ॥

[[१०२]]

सुरयोषामणिश्रेणीदत्तनीराजनोज्ज्वल ।
नीराजनं गृहाणेश कर्पूराख्यं सदाशिव ॥
इति कर्पूरनीराजनं दत्त्वा माल्यमर्पयेत् ॥ ४४ ॥

विधिविष्णुकपालालिमालालङ्कृतविग्रह ।
माल्यं गृहाण देवेश सुमजालमनोरमम् ॥
इति माल्यं प्रदायाथाभरणानि समर्पयेत् ॥ ४५ ॥

चन्द्रमःखण्डकोटीरफणिकुण्डलमण्डित ।
भूषणानि गृहाणेश सौवर्णानि जगन्नुत ॥
भुषणैरित्यङ्कृत्य नानारत्नसमुज्ज्वलैः ॥ ४६ ॥

भवानीभावमधुरलीलालोकावलोकित ।
नीराजनं गृहाणेश शृङ्गाराख्यं सदाशिव ॥ ४७ ॥

इति नीराजनं दत्त्वा पूजयेत् पत्रपुष्पकैः ।
अष्टाभिर्नामभिश्चैवमष्टोत्तरशतेन वा ॥ ४८ ॥

पुष्पवद्रथचक्राढ्य पुष्पायुधवधोद्यत ।
नानाविधानि पुऽपाणि गृहाणेश नमोऽस्तु ते ॥
पुऽपैरेवं सुसम्पूज्य विल्वपत्राणि चार्पयेत् ॥ ४९ ॥

[[१०३]]

त्रिसुपर्णं स्फुरद्वर्णं श्रिया चीर्णं सुशोभनम् ।
कुण्डलीकृतगोकर्ण गृहाण श्रीद्रुपर्णकम् ॥
इति विल्वदलं दत्वा भस्म सर्वोपरि क्षिपेत् ॥ ५० ॥

कपर्दवेष्टनानन्त भोगच्छत्रपरिष्कृत ।
श्वेतच्छत्रं गृहाणेश मुक्तादामाभिशोभितम् ॥
छत्रमेवं समर्प्याथ चामरद्वयमर्पयेत् ॥ ५१ ॥

विधिविष्णुकराब्जोद्यच्चामरद्वयवीजित ।
चामराभ्यां वीजयामि प्रसीद करुणालय ॥
चामराभ्यां वीजयित्वा तालवृन्तेन वीजयेत् ॥ ५२ ॥

तालसंवादनव्यग्रविधितोषितमानस ।
वीजये तालवृन्तेन करुणावर्णालय ॥
तालवृन्तेन संवीज्य दर्पणं च प्रदर्शयेत् ॥ ५३ ॥

आदर्शविमलाकारादर्शभास्वत्कपोलक ।
आदर्शं दर्शयाम्यद्य दुर्दर्शनिजरूपक ॥
दर्पणं दर्शयित्वैवं घण्टानादं समर्पयेत् ॥ ५४ ॥

[[१०४]]

नादस्वरूपविलसद्घण्टाशोभिकराम्बुज ।
घण्टानादं श्रावयामि नादरूप शृणु प्रियम् ॥
घण्ठानादं समर्प्यैवं शङ्खमापूरयेत् ततः ॥ ५५ ॥

शङ्गध्मानक्रियासक्तगणेन्द्रगणसंवृत ।
शृणु शङ्खरवं देव कम्बुग्रीवमनोरमम् ॥
शङ्खं निनाद्यैवमतो गीतमाश्रावयेदपि ॥ ५६ ॥

कम्बलाश्वतरोद्गीतसमाकर्णनतत्पर ।
गीतं संश्रावयाम्यद्य भवच्चित्रचरित्रकम् ॥
गीतमाश्राव्य च ततो वाद्यं संश्रावयेत् तदा ॥ ५७ ॥

मुरारिवादितमहामुरजध्वनितोषित ।
वाद्यं संश्रावये शम्भो डमरुध्वननप्रिय ॥
इति वाद्यं निनाद्याथ नृत्तं सम्यक् प्रदर्शयेत् ॥ ५८ ॥

निजानन्दातिरेकोत्थमहाताण्डवपण्डित ।
नृत्तं विरचयाम्यद्य महानट विलोकय ॥ ५९ ॥

इति नृत्तं समर्प्यैव करेणाभिनयात्मकम् ।
मुष्ट्यैवाङ्गुष्ठयुतया प्रदक्षिणमथार्पयेत् ॥ ६० ॥

[[१०५]]

प्रदक्षिणक्रियासक्तब्रह्मादिसुरसेवित ।
प्रदक्षिणत्रयं कुर्वे गृहाण करुणानिधे ॥
प्रदक्षिणत्रयं कृत्वा नमस्कुर्यादनेकशः ॥ ६१ ॥

नमो नमो भूभृदपत्यजानये नमो नमो भस्मितचित्तयोनये ।
नमो नमः शिक्षितभानुसूतवे नमो नमो भूषितशीतभावने ॥
नमांसि तु समर्प्यैवं स्तुतिं कुर्यादनन्तरम् ॥ ६२ ॥

ब्रह्मणां ब्रह्मणे तुभ्यं रक्षितॄणां च रक्षिणे ।
हर्तॄणामपि संहर्त्रे देवदेवाय ते नमः ॥
स्तुतिं कृत्वा ततः कुर्याद् धूपसंवीजनं बुधः ॥ ६३ ॥

महाश्मशानदहनधूमधूपावृताङ्गक ।
धूपसंवीजनं शम्भो गृह्यतां भक्तवत्सल ॥ ६४ ॥

धूपं संवीज्य च मुहुस्तथा धूपं प्रसार्य च ।
महानीराजनमपि प्रज्वाल्य च समर्पयेत् ॥ ६५ ॥

माङ्गल्यहेतवे सर्वमङ्गलालिङ्गितात्मने ।
मङ्गलार्थाभिधानाय महादेवाय मङ्गलम् ॥
इष्टलिङ्गस्वरूपायाभीष्टदायास्तु मङ्गलम् ॥ ६६ ॥

[[१०६]]

प्राणेषु च मनोमध्ये ज्योतिर्लिङ्गस्वरूपिणे ।
प्राणग्रन्थिस्वरूपाय प्राणलिङ्गाय मङ्गलम् ॥ ६७ ॥

भावग्राह्याय पूर्णाय भावाभावैकहेतवे ।
कलासर्गकृते तुभ्यं भावलिङ्गाय मङ्गलम् ॥
महानीराजनं दत्त्वा याञ्चां कुर्यादनन्तरम् ॥ ६८ ॥

याचेऽहं याचेऽहं वचसि सततं नामरुचिरं
याचेऽहं याचेऽहं मनसि सततं भावरचनाम् ।
याचेऽहं याचेऽहं शिव तव पदाम्बोजभक्तिं
याचेऽहं याचेऽहं पुनरपि तामेव सततम् ॥ ६९ ॥

नाधिकं मुक्तसम्प्राप्यमशोकमचलं सुखम् ।
त्वत्पदं देहि मे शीघ्रं न जाने प्रार्थ्यमुत्तमम् ॥
इत्येवं याचनां कृत्वा ततो विज्ञप्तिमाचरेत् । ७० ॥

भृत्यापराधा नमसा शाम्यन्तीति नयेन वै ।
नमस्येऽतोऽपराधान्मे क्षमस्व करुणानिधे ॥
इति विज्ञापनां कृत्वा निवेद्यं प्रोक्षयेत् ततः ॥ ७१ ॥

[[१०७]]

देवस्य सवितुर्मध्ये यो भर्गो नो धियः क्रमात् । प्रचोदयात्
तद्वरेण्यं शरण्यं समुपास्महे ॥ ७२ ॥

इति प्रोक्ष्य निवेद्यं तु परिषिञ्चेत् समन्ततः ।
परिषेचनकं कृत्वा षड्लिङ्गार्पणमाचरेत् ॥ ७३ ॥

अवाङ्मानससंवेद्यानन्दबोधसुधाम्बुधे ।
नीराजनं गृहाणेदमानन्दाख्यं सदाशिव ॥
इति नीराजनं दत्वा ताम्बूलं च समर्पयेत् ॥ ७४ ॥

गुणत्रयक्रियादूर गुणत्रयसमन्वित ।
गृहाणेदं सकर्पूरं ताम्बूलं तापसार्चित ॥
इति दत्त्वा च ताम्बूलं नीराजनमथार्पयेत् ॥ ७५ ॥

अम्बाकराम्बुजानीतताम्बूलग्रहणोत्सुक ।
नीराजनं गृहाणेश ताम्बूलाख्यं सदाशिव ॥
इति नीराजनं दत्वा मन्त्रपुष्पमथार्पयेत् ॥ ७६ ॥

विष्ण्वादिविबुधानन्तपुष्पाञ्जलिसमर्चित ।
पुष्पाञ्जलिं गृहाणेश पुष्पायुधनिषूदन ॥
इति पुष्पाञ्जलिं दत्त्वाऽसङ्ख्यं नीराजनं दिशेत् ॥ ७७ ॥

[[१०८]]

असङ्ख्येयसहस्रश्रीरुद्ररूपावृताखिल ।
नीराजनं गृहाणेदमसङ्ख्यातं सदाशिव ॥
नीराजनमसङ्ख्यातं दत्त्वा वस्त्रेण वेष्टयेत् ॥ ७८ ॥

तन्तुना पटवन्नैजरूपेणावृतविश्वक ।
वस्त्रेण वेष्टयामीष्टलिङ्गरूप नमोऽस्तु ते ॥
इति वस्त्रेण संवेष्ट्य पेटिकायां सुविन्यसेत् ॥ ७९ ॥

सद्भक्तहृदयावास जगदावास शाश्वत ।
निवेशयामि हृदये सुखं वस सतीसख ॥
पेटिकायामिति न्यस्येदेवमुक्तं महार्चनम् ॥ ८० ॥

सुवासिनीनामयमाराधनक्रमः

पाद्यादिपात्ररहितमिदं गुर्वर्चनं भवेत् ।
अथावसरपूजोपचारयोगाल्लघुर्भवेत् ॥
सुवासिनीनां मुख्योऽयं लघ्राराधनाविधिः ॥ ८१ ॥

विधानमिदमर्चायास्तान्त्रिकं समुदाहृतम् ।
सर्वमुक्तं समासेन किमतः श्रोतुमिच्छसि ॥ ८२ ॥

इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे
तान्त्रिकपूजाविधिकथनं नाम अष्टमः पटलः ॥ ८ ॥

[[११०]]