०७

सप्तमः पटलः

देव्युवाच

देवदेव महादेव लोकानुग्रहतत्पर ।
त्वत्पूजाकर्णनादस्मि कृतार्था जगदीश्वर ॥ १ ॥

महापूजां च शुश्रूषुरस्मि लोकैककारण ।
तद्विधानं च सम्बोध्य कृपयाऽनुगृहाण माम् ॥ २ ॥

महादेव उवाच

महापूजाक्रमः

अथ वक्ष्ये महादेवि महापूजाविधिक्रमम् ।
स्नातः शुचिर्यतमना धृतधौताम्बरद्वयः ॥ ३ ॥

धृतत्रिपुण्ड्रो रुद्राक्षमालालङ्कृतविग्रहः ।
कृतसन्ध्यादिकः सम्पादितपुष्पादिसाधनः ॥ ४ ॥

भद्रादिमण्डलन्यस्तपूजापात्रः सुखासनः ।
चतुष्टयं दीपिकानां प्रज्वाल्य द्वयमेव वा ॥ ५ ॥

गणान् सङ्कीर्त्य चाचम्य प्राणानायम्य सक्रमम् ।
देशकालौ सुसङ्कीर्त्य चेष्टलिङ्गस्य प्रीतये ॥ ६ ॥

रङ्गवल्यां तु सामान्यमर्घ्यपात्रं निवेश्य च ।
भस्मचन्दनपुष्पाणि तत्र निक्षिप्य निर्मलम् ॥ ७ ॥

जलमापूर्य वै बिन्दुस्रवत्पीयूषधारया ।
पूरितं भावयन्नेव पञ्चब्रह्मषडङ्गकैः ।
मन्त्रैः सम्मन्त्र्य संस्कारैः संस्कुर्याद्वक्ष्यमाणकैः ॥ ८ ॥

निरीक्षणं प्रोक्षणं च ताडनं चावगुण्ठनम् ।
अभ्युक्षणमिति ख्याता वस्तुसंस्कारकारकाः ।
धेन्वाख्ययाऽमृतीकृत्य पद्मलिङ्गे प्रदर्शयेत् ॥ ९ ॥

ततः पाद्यार्घ्याचमनपात्राण्यपि च पङ्क्तिशः ।
तदुत्तरेण विन्यस्येत् पाद्यपात्रे यथाक्रमम् ॥ १० ॥

सिद्धार्थान् कुङ्कुमं दूर्वां कुष्ठं कर्पूरमेव च ।
भस्मचन्दनपुष्पाणि निक्षिपेत् साधकोत्तमः ॥ ११ ॥

षडङ्गैर्जलमापूर्य सद्यद्यैरभिमन्त्र्य च ।
तदुत्तरेप्यर्घ्यपात्रे कुशादीन् विक्षिपेत् तथा ॥ १२ ॥

[[८४]]

हृदयेन जलं क्षिप्त्वा मूलेनैवाभिमन्त्र्य च ।
तदुत्तरे त्वाचमनपात्रे भस्मादि निक्षिपेत् ।
षडङ्गैर्जलमापूर्य सद्याद्यैरभिमन्त्रयेत् ॥ १३ ॥

त्यागज्ञानानन्दपात्राण्यपि तत्पूर्वतो न्यसेत् ।
भस्मचन्दनपुष्पाणि त्यागपात्रे निधाय च ।
उष्णं वै जलमापूर्य प्रासादेनाभिमन्त्रयेत् ॥ १४ ॥

तदुत्तरे ज्ञानपात्रे भस्मादीनि निधाय वै ।
चन्दनोदकमापूर्य चाघोरेणाभिमन्त्रयेत् ॥ १५ ॥

तदुत्तरानन्दपात्रे भस्मादीनि निधाय च ।
शीतलोदकमापूर्य वामदेवेन मन्त्रयेत् ॥ १६ ॥

तत्पूर्वे स्नानपादप्रसादवारिगृहीतये ।
विन्यसेत्तत्र चाधारपात्राणि त्रीणि पङ्तिशः ॥ १७ ॥

सामान्यस्यार्घ्यपात्रस्य शिवकुम्भं पुरो न्यसेत् ।
तत्र भस्मादि निक्षिप्य तदा पानीयकं जलम् ॥ १८ ॥

[[८४]]

हृदयेनैव सम्पूर्या कलशेष्विति मन्त्रतः ।
आपो वा इदं सर्वमित्यनेनाभिमन्त्र्य च ॥ १९ ॥

पूजाद्रव्याणि सम्प्रोक्ष्य तस्मादुद्धृतवारिणा ।
सामान्यार्घ्यादिपात्राणि मूलेनाभ्यर्च्य वै ततः ।
सामान्यार्घ्यगतं तोयं पाद्यादित्रिषु निक्षिपेत् ॥ २० ॥

गुरुमभ्यर्च्य नियतं यस्य देवेति मन्त्रतः ।
तीर्थप्रसादौ गृह्णीयान्मत्पूजायोग्यताप्तये ॥ २१ ॥

इति भक्तस्थलं प्रोक्तमथ माहेश्वरस्थले ।
अयं मे हस्त इति तु हस्तशुद्धिं विधाय वै ॥ २२ ॥

माहेश्वरस्थलपूजाविधानम्

सर्वभूतस्थमिति च कृत्वा भस्मासनं करे ।
वेदाहमेतमिति च लिङ्गमादाय तद्गृहात् ।
सर्वलिङ्गं स्थापयतीति लिङ्गं निक्षिपेत् करे ॥ २३ ॥

रुद्र यत्ते दक्षिणं मुखमित्यावाहयेत् तदा ।
गुरुं ध्यात्वा षडङ्गं च न्यासं सम्यग्विधाय च ।
सहस्रं षट्छतं वाऽपि जपेदेव षडक्षरीम् ॥ २४ ॥

प्रसादिसञ्ज्ञके पश्चात् स्थले लिङ्गे च भस्म वै ।
अभ्युक्ष्य नानुध्यायेच्च तमेवैकमिति स्मरन् ॥ २५ ॥

दशावधानविधिना निरीक्ष्य ष्वेष्टलिङ्गकम् ।
नीराजनं सानुरागं या ते रुद्रेति निर्दिशेत् ॥ २६ ॥

प्राणलिङ्गस्थले भस्म लिङ्गोपरि निधाय च ।
मूलेनैव हि लिङ्गाग्रे पुष्पं निक्षिप्य मन्त्रितम् ॥ २७ ॥

पाद्यार्घ्याचमनं दद्यात् तत्तत्पात्रोदकेन हि ।
त्यागपात्रस्थितेनैव लिङ्गं संस्नाप्य वारिणा ॥ २८ ॥

आधारपात्रेणादाय सम्प्रोक्ष्य निजमूर्धनि ।
आवहन्तीति मन्त्रेण वस्त्रेणोद्वर्त्य सादरम् ॥ २९ ॥

[[८७]]

भस्मासने निधायैव पादौ लिङ्गस्य भावयन् ।
प्रणम्याभ्यर्च्य पाद्यं च ज्ञानपात्रजलेन वै ॥ ३० ॥

दत्त्वैतज्जलमाधारपात्रेणादाय सन्नमन् ।
कद्रुद्रायेति सम्मन्त्र्य पिबेदृतमितीरयन् ॥ ३१ ॥

लिङ्गमूलेन गन्धाद्यैरलङ्कृत्य ततः परम् ।
यो वै रुद्रः स भगवान् यश्चाग्निरिति मन्त्रतः ।
नीराजनं त्ववसराभिख्यं दत्त्वा फलादिकम् ॥ ३२ ॥

समर्प्यानन्दपात्रोदं गृह्णन्नाधारपात्रतः ।
समर्प्य प्राश्य तत्पात्रं निक्षिपेदप्यधोमुखम् ॥ ३३ ॥

अथाचमनपात्रस्थतोयेनाचमनीयकम् ।
दत्त्वा तत्सवितुरिति त्यागपात्रस्थवारिणा ॥ ३४ ॥

नमकाद्यै रुद्रसूक्तैरभिषिच्याथ तज्जलम् ।
नमः शम्भव इत्यात्ममूर्धनि प्रोक्षयेत् तथा ॥ ३५ ॥

[[८८]]

आवहन्तीति वस्त्रेण समुद्वर्त्येष्टलिङ्गकम् ।
भस्मासने निधायास्य गृह्णीयात् पादतीर्थकम् ॥ ३६ ॥

ततो विधूममङ्गारमानीयानेन तापयेत् ।
योवै रुद्रः स भगवान् यश्चाग्निरिति मन्त्रतः ॥ ३७ ॥

यो वै रुद्रः स भगवान् यच्च व्योमेति मन्त्रतः ।
दशाङ्गमहितं मह्यं धूपं दद्यान्मनोहरम् ॥ ३८ ॥

उद्दीप्यस्वेति च ततो माङ्गल्याख्यं च दर्शयेत् ।
यस्तन्तुनाभ इति च वस्त्रयुग्मं प्रदाय च ।
अग्निरित्यादिभिर्मन्त्रैर्लिम्पेद् भस्म सहोदकम् ॥ ३९ ॥

नमो हरिकेशायेति प्रदद्याद् यज्ञसूत्रकम् ।
गन्धद्वारामिति पठन् दद्याद् गन्धं सहाक्षतम् ॥ ४० ॥

उमासहायमिति च कुर्याद् गन्धानुलेपनम् ।
आकाशादिति वै दद्यादक्षतारोपणं बुधः ॥ ४१ ॥

[[८९]]

अपाणिपाद इति हिरण्यपात्रमिति ब्रुवन् ।
नीराजनं दर्शयेच्च कर्पूराख्यं महेश्वरि ॥ ४२ ॥

तदेवर्तमिति पठन् पुष्पमाल्यानि चार्पयेत् ।
नमो हिरण्यबाहवे मकुटादि विभूषयेत् ॥ ४३ ॥

या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी ।
इति नीराजनं दद्याच्छृङ्गाराख्यं महेश्वरि ॥ ४४ ॥

निधनपतये इति वेदसारसहस्रतः ।
मूलेनापि च पुष्पाणि पत्राणि च समर्पयेत् ॥ ४५ ॥

वादित्य इति विल्वानि यो वै रुद्रेति भस्म च ।
नम ईध्रियाय चेति श्वेतच्छत्रं समर्पयेत् ॥ ४६ ॥

नमो वात्याय च पठन् चामरं च समर्पयेत् ।
चन्द्रमा मनस इति तालवृन्तेन वीजयेत् ॥ ४७ ॥

स यश्चायं पुरुष इति दर्पणमर्पयेत् ।
यो वेदादाविति पठन् घण्टानादं समर्पयेत् ॥ ४८ ॥

अध्यवोचदिति पठन् शङ्खस्वनमथार्पयेत् ।
शिवेन वचसा त्वेति गीतमाश्रावयेत् तथा ॥ ४९ ॥

[[९०]]

असौ योऽवसर्पतीति पठन् नृत्तं प्रदर्शयेत् ।
उद्यन्तमस्तं यन्तमिति सव्यहस्तेन कल्पयेत् ।
प्रदक्षिणानि प्रयतो मम लिङ्गस्य सर्वतः ॥ ५० ॥

नमोऽस्तु नीलग्रीवायेत्यामनन् वै नमास्यपि ।
नमो वृद्धाय च पठन् स्तोत्रं कुर्यादनन्यधीः ॥ ५१ ॥

दैवीयो मानुषो गन्ध इति धूपं समर्पयेत् ।
नन्तत्र सूर्यो भातीति महानीराजनं तथा ॥ ५२ ॥

ईरां वहत इत्येवं ज्वालयेत् करदीपिकाः ।
ज्योतिष्मतीमिति पठन् ज्योतींषि ज्वालयेदपि ॥ ५३ ॥

कृतानि शालिपिष्टेन डमरुप्रतिरूपतः ।
ज्योतींषि तानि कथ्यन्ते मम प्रीतिकराण्यपि ॥ ५४ ॥

या ते रुद्र इति पठन् याचयेन्मामनन्यधीः ।
अजात इत्येवमिति विज्ञापनमथाचरेत् ।
वेदान्तविज्ञान इति पूजापुष्पादिकं त्यजेत् ॥ ५५ ॥

[[९१]]

निवेदनार्हवेलायां पत्रपुष्पादिकं बहु ।
स्थितं चेदिष्टलिङ्गाग्रे निपतेद् भोज्यवस्तुषु ॥ ५६ ॥

निर्माल्यसुमसंसर्गानर्हं तत् स्यान्निवेदनम् ।
तदल्पशेषं विसृजेन्न लिङ्गं शून्यमस्तकम् ॥ ५७ ॥

शरणाख्यस्थले भोज्यपदार्थेष्वग्निरित्यतः ।
विकीर्य सजलं भस्म सव्याहृतिकया तथा ॥ ५८ ॥

सावित्र्या रुद्रगायत्र्या परिषिच्यैवमम्बुभिः ।
स्वाहां तेभ्यस्तथाचारलिङ्गादिभ्योऽर्पयेत् ततः ।
षड्लिङ्गार्पणसद्भावे विशेषोऽस्थि शृणु प्रिये ॥ ५९ ॥

भक्तस्थले क्रियाशक्तियुते वै नासिकाङ्गगे ।
आचारलिङ्गसञ्ज्ञेऽस्मिन् सद्योजातमुखात्मके ।
गन्धप्रसादं सद्भक्त्या चित्तहस्तेन चार्पयेत् ॥ ६० ॥

माहेश्वरस्थले ज्ञानशक्तिके रसनाङ्गके ।
गुरुलिङ्गाभिधे वामदेववक्त्रे विशेषतः ।
बुद्धिहस्तेन तु रुचिं निष्ठाभक्त्या समर्पयेत् ॥ ६१ ॥

[[९२]]

स्थले प्रसादिसञ्ज्ञेऽस्मिन्निच्छक्तिसमन्विते ।
द्।गङ्गकेऽघोरमुखे शिवलिङ्गाभिधे पुनः ।
भक्त्याऽवधानया रूपमहङ्कारेण चार्पयेत् ॥ ६२ ॥

प्राणलिङ्गिस्थले त्वादिशक्तियुक्ते त्वगङ्गके ।
चारलिङ्गाऽभिधे तत् पूरुषवक्त्रे दृढव्रतः ।
भक्त्याऽनुभवया मनोहस्तेन स्पर्शमर्पयेत् ॥ ६३ ॥

शरणस्थले तु परया शक्त्या युक्ते श्रवोङ्गगे ।
प्रसादलिङ्गे त्वीशानमुखे शब्दप्रसादकम् ।
आनन्दभक्त्या सुज्ञानहस्तेनैव समर्पयेत् ॥ ६४ ॥

ऐक्यस्थले तु चिच्छक्तियुते वै मानसाङ्गगे ।
महालिङ्गे परशिवमुखे सङ्कल्पमर्पयेत् ।
सद्भावाभिख्यहस्तेन भक्त्या समरसाख्यया ॥ ६५ ॥

एवमङ्गं च लिङ्गं च भक्तिं शक्तिं तथा स्थलम् ।
मुखं हस्तं प्रसादं च ज्ञात्वा वै सम्यगर्चयेत् ।
एवमर्पणसद्भावं सर्वदैव समभ्यसेत् ॥ ६६ ॥

[[९३]]

द्विविधं समर्पणम्

समर्पणं द्विधा प्रोक्तमर्चाङ्गं सर्वकालिकम् ।
समर्पणे समर्चाङ्गे रुचिं भावेन नान्यथा ॥ ६७ ॥

शरणाख्यस्थलेऽप्येवमर्पणं षट्स्थलात्मकम् ।
ऐक्यस्थले तु मूलेन लिङ्गे पुष्पं निधाय च ॥ ६८ ॥

धूपं समर्प्य चानन्दनीराजनमथार्पयेत् ।
यतो वाचो निवर्तन्ते इति मन्त्रं जपन् पुनः ॥ ६९ ॥

स विश्वकृदिति पठन् ताम्बूलं च समर्पयेत् ।
आरभ्येति च ताम्बूलनीराजनमथार्पयेत् ॥ ७० ॥

यो ब्रह्माणमितीशान इति मन्त्रद्वयेन च ।
मन्त्रयन् पुऽपजातं वै मन्त्रपुष्पं समर्पयेत् ॥ ७१ ॥

असङ्ख्याताः सहस्राणीत्यादिमन्त्रं समुच्चरन् ।
असङ्ख्याताभिख्यनीराजनमप्यर्पयेत् ततः ॥ ७२ ॥

सोऽब्रवीदिति मन्त्रेण वस्त्रेणावृत्य लिङ्गकम् ।
अणोरणीयानिति तु पेटिकायां सुविन्यसेत् ॥ ७३ ॥

[[९४]]

एवं महार्चनं प्रोक्तं महादेवि महाफलम् ।
विधिनाऽनेन सम्पूज्य न पुनर्जन्मभाग् भवेत् ।
देवेशि गुरुपूजायां विशेषः कथ्यते शृणु ॥ ७४ ॥

गुरुपूजायां विशेषः

पद्यार्घ्याचमनाख्यानि त्यागज्ञानादिकानि च ।
न विद्यन्तेऽत्र पात्राणि पात्रद्वितयमेव च ॥ ७५ ॥

शिवकुम्भं च सामान्यमर्घ्यपात्रं च विद्यते ।
शिष्टं सर्वं समं प्रोक्तं किमतः श्रोतुमिच्छसि ॥ ७६ ॥

इति श्रीकारणागमे उत्तरभागे श्रीपार्वतीपरमेश्वरसंवादे क्रियापादे
शिवपूजाविधानं नाम सप्तमः पटलः ॥ ७ ॥

[[९५]]