०६

षष्ठः पटलः

देव्युवाच

चन्द्रशेखर भूतेश पिनाकिन्नुग्र शङ्कर ।
अवसरादिपूजानां कल्पं ब्रूहि विशेषतः ॥ १ ॥

महादेव उवाच

अवसरपूजाकल्पः

अथावसरपूजायाः कल्पं वक्ष्ये शृणु प्रिये ।
मण्डलं परिकल्प्यादौ दीपं प्रज्वालयेत् ततः ॥ २ ॥

परिगृह्य गणानुज्ञां घण्टानादपुरस्सरम् ।
मन्नामभिः समाचम्य प्राणानायम्य शक्तितः ॥ ३ ॥

सङ्कीर्त्य देशकालौ च कलशं सम्यगर्चयेत् ।
अष्टोत्तरशतान्यूनां जपेन्मम षडक्षरीम् ॥ ४ ॥

सर्वलिङ्गं स्थापयतीति लिङ्गं विन्यसेत् करे ।
नीराजनं दर्शनाख्यमसौ य इति दर्शयेत् ॥ ५ ॥

[[७४]]

यो वै रुद्रः स भगवान् पृथ्वीत्यभ्युक्ष्य भस्मना ।
एतावानस्य महिमेत्यामनन् पाद्यमर्पयेत् ॥ ६ ॥

हंसः शुचिषदित्यर्घ्यं सावित्र्याऽऽचमनीयकम् ।
नमः सोमाय चेत्येवम् स्नानं च परिकल्पयेत् ॥ ७ ॥

स्नानोदकं शिरस्युक्ष्य लिङ्गतीर्थं प्रगृह्य च ।
ऋतं सत्यमिति प्राश्य वस्त्रं यस्तन्त्विति ब्रुवन् ॥ ८ ॥

अग्निरित्यादिभिर्भस्म सर्वतो लेपयेत् सुधीः ।
गन्धेति गन्धमादद्यादाकाशादिति चाक्षतान् ॥ ९ ॥

निधनपतय इति पुष्पाणि च समर्पयेत् ।
विल्वं त्रियम्बकमिति यच्च व्योमेति धूपकम् ॥ १० ॥

[[७५]]

महानीराजनं दद्यान्न तत्रेति मनुं स्मरन् ।
दद्यादवसरं नैवेद्यमाचारादिलिङ्गकैः ॥ ११ ॥

ईशान इति मन्त्रेण मन्त्रपुष्पं समर्पयेत् ।
वस्त्रप्रावरणं कुर्यात् सोऽब्रवीदिति मन्त्रतः ।
अणोरणीयानिति च लिङ्गं स्वाङ्गे निवेशयेत् ॥ १२ ॥

लघ्वर्चाविधिः

अथ वक्ष्यामि देविशि लघुमर्चाविधिं शृणु ।
स्नातः शुचिर्यतमानाः कृतभस्मावगुण्ठनः ॥ १३ ॥

धृतत्रिपुण्ड्रो रुद्राक्षमालालङ्कृतविग्रहः ।
आचम्य दीपं प्रज्वाल्य सम्प्रार्थ्य च गणान्मम ॥ १४ ॥

आचम्य प्राणानायम्य देशकालौ प्रकीर्त्य च ।
सम्भवद्भिरिह द्रव्यैरिष्टलिङ्गस्य पूजनम् ॥ १५ ॥

[[७६]]

करिष्य इति सङ्कल्प्य सम्पूज्य कलशं तथा ।
षडक्षरजपं कुर्यादष्टोत्तरशतं बुधः ॥ १६ ॥

इष्टलिङ्गं करे धृत्वा सर्वलिङ्गमनुं पठन् ।
आवाहयेच्च वेदाहं भावग्राह्यमिति ब्रुवन् ।
नीराजनं दर्शनाख्यमसौ य इति दर्शयेत् ॥ १७ ॥

यो वै रुद्रः स भगवान् पृथ्वीत्यभ्युक्ष्य भस्मना ।
एतावनस्य महिमेत्यामनन् पाद्यमर्पयेत् ॥ १८ ॥

हंसः शुचिषदित्यर्घ्यं सावित्र्याऽऽचमनीयकम् ।
यो वै रुद्रः स भगवानाप इत्यभिषिच्य च ॥ १९ ॥

लिङ्गतीर्थं च सङ्गृह्य कद्रुद्रायेति मन्त्रयन् ।
ऋतं सत्यमिति प्रश्य पुष्पं धूपं समर्प्य च ॥ २० ॥

यो वै रुद्रः स भगवान् यश्चाग्निरिति मन्त्रतः ।
दत्त्वा चावसराभिख्यं नीराजनमपि प्रिये ।
फलाद्यवसरं दद्याद् भस्म लिङ्गोपरि क्षिपेत् ॥ २१ ॥

मूलेन पुष्पं निक्षिप्य धूपमाघ्रापयेत् प्रिये ।
असौ योऽवसर्पतीति मन्त्रेमेनमनुस्मरन् ।
नीराजनं मज्जनाख्यं दर्शयेद् गिरिनन्दिननि ॥ २२ ॥

[[७७]]

एतावनस्य महिमेत्यामनन् पाद्यमर्पयेत् ।
हंसः शुचिषदित्यर्घ्यं सावित्र्याऽऽचमनीयकम् ॥ २३ ॥

रुद्राध्यायेनाभिषेकमावहन्तीति मन्त्रतः ।
वस्त्रेणोद्वर्तनं कृत्वा लिङ्गतीर्थं प्रगृह्य च ।
कद्रुद्रायेति सम्मन्त्र्य प्राश्नीत ऋतमित्यपि ॥ २४ ॥

यो वै रुद्र इति पठन् दद्यादङ्गारतापनम् ।
यो वै रुद्रः स भगवान् यश्चाग्निरिति धूपनम् ॥ २५ ॥

उद्दीप्यस्वेति च पठन् माङ्गल्याख्यं च दर्शयेत् ।
वस्त्रं समर्पयेद् देवि यस्तन्त्विति मनुं पठन् ॥ २६ ॥

अग्निरित्यादिभिर्मन्त्रैः सजलं भस्म चार्पयेत् ।
नमो हरिकेशायेति यज्ञसूत्रं समर्पयेत् ॥ २७ ॥

यो वै रुद्रो या च पृथ्वीत्युक्त्वा गन्धांश्च साक्षतान् ।
आकाशादिति मन्त्रेण दद्यात् केवलमक्षतान् ॥ २८ ॥

[[७८]]

सर्वव्यापिनमिति कर्पूरनीराजनं दिशेत् ।
तदेवर्तं भुवन्तय इति माल्यानि चार्प्यएत् ॥ २९ ॥

या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी ।
इति नीराजनं दद्याच्छृङ्गाराख्यं महेश्वरि ॥ ३० ॥

यो वै रुद्रः स भगवान् यश्च सूर्य इति क्रमात् ।
निधनपतय इति चाष्टोत्तरशतेन च ।
पुष्पाणि त्र्यम्बकमिति विल्वपत्राणि चार्पयेत् ॥ ३१ ॥

नम ईध्रियाय चेति श्वेतच्छत्रं समर्पयेत् ।
नमो वात्याय चेत्येवं चामरं परिकल्पयेत् ॥ ३२ ॥

चन्द्रमा मनसो जात इति व्यजनमर्पयेत् ।
स यश्चायं पुरुष इत्यर्पयेद् दर्पणं तथा ॥ ३३ ॥

यो वेदादाविति पठन् घण्टानादं च श्रावयेत् ।
अध्यवोचदधित्येवं शङ्खं सम्यङ् निनादयेत् ॥ ३४ ॥

[[७९]]

शिवेन वचसा त्वेति गीतमाश्रावयेद् बुधः ।
नमो दुन्दुभ्याय चेति वाद्यं कुर्याद् विचक्षणः ।
नमो रुद्रायाततायिन इति नाट्यं च दर्शयेत् ॥ ३५ ॥

उद्यन्तमिति मन्त्रेण बुधः कुर्यात् प्रदक्षिणम् ।
यो रुद्रोऽग्नाविति पठन् नमस्कारं समर्पयेत् ॥ ३६ ॥

नमो रुद्राय चेत्युक्त्वा स्तुतिपाठं पठेद् बुधः ।
अजात इत्येवमिति पठन् याञ्चां विभावयेत् ॥ ३७ ॥

यो वै रुद्रः स भगवान् यच्च व्योमेति धूपकम् ।
न तत्र सूर्यो भातीति महानीराजनं दिशेत् ॥ ३८ ॥

[[८०]]

अघोरेभ्योऽथ इति चाचारलिङ्गादिभिः क्रमात्
चतुर्विधं च नैवेद्यमर्पयेत् साधकस्ततः ॥ ३९ ॥

भस्माभ्युक्ष्य महालिङ्गे ईशान इति मन्त्रतः ।
मूलमन्त्रेण चाप्येवं मन्त्रपुष्पं समर्पयेत् ॥ ४० ॥

यतो वाचो निवर्तन्त इति मन्त्रं पठन्नपि ।
आनन्दाभिख्यकं नीराजनमप्यर्पयेत् ततः ॥ ४१ ॥

स विश्वेति च ताम्बूलं यो ब्रह्माणमिति ब्रुवन् ।
पुष्पाञ्जलिं च विकिरन्नात्मानमपि चार्पयेत् ॥ ४२ ॥

असङ्ख्या इति मन्त्रेणासङ्ख्यनीराजनं दिशेत् ।
वस्त्रप्रावरणं कुर्यात् सोऽब्रवीदिति मन्त्रतः ।
अणोरणीयानिति च कुर्यात् स्वाङ्गे निवेशनम् ॥ ४३ ॥

[[८१]]

इत्युक्तो हि महा देवि लघुराराधनाविधिः ।
मत्सायुज्यप्रदो ह्येष यथोक्तमनुतिष्ठताम् ॥ ४४ ॥

इति श्रीकरणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे
पूजाविधिकथनं नाम षष्ठः पटलः ॥ ६ ॥