पञ्चमः पटलः
देव्युवाच
देवदेव महादेव पञ्चकृत्यपरायण ।
जगदीश्वर सर्वात्मन् भूयो भूयो नमोऽस्तु ते ॥ १ ॥
पूजोपयुक्तपात्राणां लक्षणानि विशेषतः ।
पूजाकाले साधकेन वर्तितव्यं यथा पुनः ॥ २ ॥
अभिषेकद्रव्यजातं नियमानर्चकस्य च ।
ब्रूहि सर्वमशेषेण प्राणिनिर्वाणकारणम् ॥ ३ ॥
महादेव उवाच
पूजाकाले कथं वर्तितव्यम्
पुष्कलाच्चोपकरणान्मनोनैर्मल्यसम्भवः ।
निर्मलेनैव मनसा पूजकः फलभाग् भवेत् ॥ ४ ॥
सामग्रीसन्निधानेन पूजा सा पुष्कला भवेत् ।
पुष्कले पूजने भक्तः पुष्कलां श्रियमश्नुते ॥ ५ ॥
पूजोपयुक्तसामग्रीं सन्निधाय सुखासने ।
समासीनः सनियमः पूजयेन्मामनन्यधीः ॥ ६ ॥
[[६१]]
असन्निधाय सामग्रीं सङ्कल्प्योपविशन् जनः ।
पुनर्यतेन मूढात्मा न पूजाफलभाग् भवेत् ॥ ७ ॥
अज्ञो वाऽप्यथवा प्राज्ञः सामग्रीं नाह्वयेत् स्वयम् ।
मध्ये मध्ये समाहूय चञ्चलो न फली भवेत् ॥ ८ ॥
भक्तः सङ्कल्प्य पूजायै न क्रूद्ध्येत् परिचारकान् ।
पूजकः क्रोधसङ्क्रुद्धः सन्निधिं नाभिगच्छति ॥ ९ ॥
आलस्यं जृम्भणं निद्रां पूजाकाले विवर्जयेत् ।
वर्जयेविषयासक्तिं पुनः कुर्यान्मदर्पितम् ॥ १० ॥
मदर्पितमना यद्यदलब्धं कुसुमं दलम् ।
सन्निधायाथ यत्नेन मनसैवार्पयेन्मयि ॥ ११ ॥
यस्तु सङ्कल्प्य पूजायै कार्यान्तरनियोजितः ।
तत्कार्यं मनसि स्मृत्वा न पूजाफलमश्नुते ॥ १२ ॥
पूजामध्ये यदेकेन प्रेषितो महताऽपि वा ।
त्वरयेन्मम पूजायां नैति मां तस्य पूजनम् ॥ १३ ॥
[[६२]]
गुरुणा यदि वाऽऽहूतः पूजां तस्य निवेदयेत् ।
निवेदितेऽपि चाहूतस्तदाज्ञां परिपालयेत् ॥ १४ ॥
गुरुर्यतोऽहं देवेशि नावयोर्विद्यते भिदा ।
अभेदभावनां ज्ञात्वा तदाज्ञां परिपालयेत् ॥ १५ ॥
आख्याति पूजावेलायां वैदिकं यद्विचक्षणः ।
तन्मयैवोदितमिति निर्वहेत् स्वप्रयत्नतः ॥ १६ ॥
अवैदिकस्याख्यातॄणां निकटे नोपवेशयेत् ।
प्रत्याख्यानं न कुर्वीत पिदध्याच्छ्रवणद्वयम् ।
नेक्षेत पूजावेलायां नरं देवि बहिष्कृतम् ॥ १७ ॥
पूजाकाले यदाख्यातं शैवकार्यमनुत्तमम् ।
कुर्यात् सर्वप्रयत्नेन तदशक्तौ तु कारयेत् ॥ १८ ॥
पूजकः संस्मरेत् कर्म लौकिकं त्वरयेद् यदि ।
शिवद्रोहेण निर्याति कालभैरवयातनाम् ॥ १९ ॥
संस्मरन्नपि कर्माणि यो मय्याहितमानसः ।
स याति मामकं रूपं कैलासे मद्गणैः सह ।
मोदते तस्य नावृत्तिस्तेन सर्वं वशीकृतम् ॥ २० ॥
[[६३]]
पुष्पं पत्रं फलं तोयं श्रमसाध्यं यथा यथा ।
फलं तथा तथा तेषां दाताऽहं हि सदाशिवः ॥ २१ ॥
पुष्पलोभः पत्रलोभः पात्रलोभो भयावहः ।
तस्मात् सर्वप्रयत्नेन पात्रं पत्रं सुमं तथा ।
सम्पाद्य पूजयेल्लिङ्गं यथाविभवविस्तरम् ॥ २२ ॥
पात्रादिलक्षणम्
सुवर्णपात्रं यत्नेन कुसुमादिदलानि च ।
सौवर्णान्येव सम्पाद्य पूजनीयस्त्वहं शिवे ।
राजतं वा दरिद्रश्चेत् ताम्रपात्रं हि कल्पयेत् ॥ २३ ॥
विरक्तो नारिकेलेन पात्रेणैव यजेत् स्वयम् ।
सौवर्णपात्रपूजाऽपि न तस्याः सदृशी भवेत् ॥ २४ ॥
विल्वनिर्मितपात्रं तु सर्वेषामुत्तमोत्तमम् ।
तत्पात्रसदृशं लोके नास्ति नास्ति महीतले ॥ २५ ॥
पात्रेषु वैल्वं श्लाघ्यं स्याद् वैल्वं पत्रेषु चोत्तमम् ।
नीलोत्पलं च पुष्पेषु पूजार्थमुत्तमोत्तमम् ॥ २६ ॥
[[६४]]
सर्वमप्राकृतैर्मन्त्रैः कृत्वा मह्यं समर्पयेत् ।
शुद्धभावः समभ्यर्च्य यथोक्तफलभाग् भवेत् ॥ २७ ॥
स्वनन्दनोद्भवं पत्रं पुष्पं फलमनुत्तमम् ।
आरण्यकानि पुष्पाणि पत्राणि स्वयमर्चयेत् ।
शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः ॥ २८ ॥
अर्कद्रोणोत्पलाद्यैश्च विल्वारग्वधपत्रकैः ।
तिलाक्षतैरर्चयेन्मां भक्तियुक्तेन चेतसा ॥ २९ ॥
अर्घ्यादिपात्राणि
पूजोपयुक्तपात्राणां लक्षणं शृणु पार्वति ।
सामान्यार्घ्याभिधं चैव पादार्घ्याचमनानि च ॥ ३० ॥
त्यागज्ञानानन्दसञ्ज्ञान्यथ स्नानजलस्य च ।
पादप्रसादोदकयोस्त्रीण्याधाराभिधानि च ।
शिवकुम्भसमाख्यं च पात्राण्येकादश प्रिये ॥ ३१ ॥
तथाऽन्यानि च पात्राणि भवन्त्यावश्यकानि हि ।
गन्धादेरपि धूपस्य दीपानां च विशेषतः ॥ ३२ ॥
[[६५]]
घण्टां शङ्खं दर्पऽं च छत्रं चामरमेव च ।
ताल्वृन्तं च सम्पाद्य यजेन्मां लिङ्गरूपिणम् ॥ ३३ ॥
शिवकुम्भाभिधं पात्रं कुर्याद् विंशतिभिः पलैः ।
पात्रं दशपलैः कुर्यात् सामान्यार्घ्यसमाख्यकम् ॥ ३४ ॥
सार्धसप्तपलैः कुर्यात् पाद्यार्घ्याचमनानि च ।
त्यागज्ञानानन्दकानि कुर्यात् पञ्चपलैरपि ।
आधाराभिख्यपात्राणि सार्धद्विपलमानतः ॥ ३५ ॥
शिवकुम्भं च सामान्यमर्घ्यपात्रं तथैव च ।
स्थूलोदरं तथा कुर्यान्मुखग्रीवाविभूषितम् ॥ ३६ ॥
पाद्यार्घ्याचमनाख्यानि चतुरस्राणि कारयेत् ।
त्यागज्ञानानन्दकानि वर्तुलानीतराणि च ॥ ३७ ॥
गन्धादिपात्रं कुर्वीत वृत्तमष्टदलान्वितम् ।
दीपपात्राणि कुर्याच्च डमर्वाकारवन्ति च ॥ ३८ ॥
त्रिमुखीं षण्मुखीमेकमुखीं नीराजनाय च ।
छत्रं सम्पादयेद् धीमान् मुक्ताजालविभूषितम् ॥ ३९ ॥
सौवर्णादेरलाभे तु किंशुकैः खड्गशृङ्गतः ।
अथ यज्ञीयवृक्षेण मृदा पात्रं तु कारयेत् ॥ ४० ॥
[[६६]]
पूजनविधिः
नदीतीरे तटाके वा स्वयंव्यक्तशिवस्थले ।
विजने स्वगृहे वाऽपि यजेदेकाग्रमानसः ॥ ४१ ॥
विल्वाष्टोत्तरसाहस्रं शतमष्टोत्तरं तु वा ।
द्रोणपुष्पसहस्रैर्वा पुष्पैर्वाथार्कसम्भवैः ॥ ४२ ॥
आरग्वधसहस्रैर्वा नियमेनैव पूजयेत् ।
शतमष्टोत्तरं वाऽपि चाष्टाविंशतिसङ्ख्यया ॥ ४३ ॥
पूजाकाले बहुवचो यस्य तेन न संवसेत् ।
शिवस्यैव पुराणानि श्रावयेच्छृणुयादपि ।
लौकिकान्यकथालापं वर्जयेन्मम पूजकः ॥ ४४ ॥
स्वारामोद्भवपुष्पाणि प्रशस्तानि मदर्चने ।
देवस्वं देवतोद्यानपुष्पाणि परिवर्जयेत् ।
अन्यपूजार्हपुष्पाणि न च मह्यं समर्पयेत् ॥ ४५ ॥
समर्पणीयान्यन्येन न च पुष्पाणि याचयेत् ।
याचनालब्धपुष्पाण्यप्रशस्तानि मदर्चने ॥ ४६ ॥
असन्निधाय नैवेद्यं धूपदीपौ न चाचरेत् ।
धूपदीपौ समर्प्याथ न विलम्बेन्निवेदने ॥ ४७ ॥
[[६७]]
अभिषेकाय दिव्यानि द्रव्याणि कलशे क्षिपेत् ।
एलोशीरलवङ्गानि कस्तूरीं चन्द्रसञ्ज्ञकम् ।
पञ्चद्रव्याणि कलशे चूर्णयित्वा विनिक्षिपेत् ॥ ४८ ॥
सिद्धार्थान् कुङ्कुमं दूर्वां कुष्ठं चन्दनभस्मनी ।
चन्द्रं च कुसुमं चैव पाद्यपात्रे विनिक्षिपेत् ॥ ४९ ॥
सिद्धार्थांश्च कुशाग्राणि यवव्रीहितिलान्यपि ।
चन्दनं भस्म कुसुममर्घ्यपात्रे विनिक्षिपेत् ॥ ५० ॥
त्रिफलाजातिकर्पूरकुष्ठकोशीरमेव च ।
भस्मचन्दनपुष्पाणि पात्रे ह्याचमने क्षिपेत् ।
भस्मचन्दनपुष्पाणि पात्रेष्वन्येषु निक्षिपेत् ॥ ५१ ॥
त्यागपात्रे कुदुष्णं च ज्ञानपात्रे सचन्दनम् ।
आनन्दपात्रे शीतं च जलमापूरयेत् तथा ॥ ५२ ॥
निमीलयन्नेत्रयुग्मं ध्यानं सम्यक् समाचरेत् ।
ध्यानकाले पुराणादिश्रवणं नैव कारयेत् ।
एकान्ते मीलिताक्षेण ध्यानं कार्यं विपश्चिता ॥ ५३ ॥
अभिषेके पुराणादिश्रवणं नेतरत्र तु ।
मनोदार्ढ्येन सम्पन्नः पूजयेन्मां दृढव्रतः ॥ ५४ ॥
अलङ्कारप्रियो विष्णुरभिषेकप्रियोऽस्म्यहम् ।
नमस्कारप्रियो भानुर्मम स्तोत्रप्रिया गणाः ॥ ५५ ॥
[[६८]]
स्त्प्त्रपाठो विशेषेण मम तु प्रीतिवर्धनः ।
स्तोत्रमात्रेण सन्तुष्टस्त्वहमिष्टफलप्रदः ॥ ५६ ॥
ध्यानेन सकलं पापं नश्येद् भक्तार्जितं तु यत् ।
ध्यानानुगुणमेवान्यन्मुख्यं ध्यानं प्रकीर्तितम् ॥ ५७ ॥
सौवर्णौ च कटाहौ द्वौ शुद्धतोयेन पूरितौ ।
गन्धद्रव्येण मिश्रौ च कृत्वा मामभिपूजयेत् ॥ ५८ ॥
एलालवङ्गजातीयफलपुष्पाण्युशीरकम् ।
लवङ्गत्वग्जाटामांस्यौ तक्कोलं कुष्ठमेव च ॥ ५९ ॥
कदम्बकन्दं गन्धत्वङ् नागकेसरचम्पकान् ।
देवदारुं गुग्गुलुं च कौङ्कुमं पुष्पमेव च ॥ ६० ॥
गोरोचनं च कर्पूरं तथा सर्वमणिं समम् ।
चूर्णयित्वा विशेषेण कस्तूरीं च विनिक्षिपेत् ।
सर्वद्रव्याणि निक्षिप्य पूजयेल्लिङ्गरूपिणम् ॥ ६१ ॥
सर्वद्रव्येष्वलब्धेषु कस्तूरीकुङ्कुमान्वितम् ।
कर्पूरं चैव पूजार्थं सम्पाद्य परिपूजयेत् ।
एलोशीरैर्दरिद्रश्चेन्न केवलजलैर्यजेत् ॥ ६२ ॥
[[६९]]
यथा यथा च सामग्री विशिष्येत मदर्चने ।
तथा तथा फलं प्रोक्तं भक्तानां किल्बिषं नहि ॥ ६३ ॥
दीपारार्तिं प्रकुर्वीत सौवर्णै राजतैरथ ।
सपुष्पमर्पयेद् भक्तः स्वस्य विज्ञानसिद्धये ॥ ६४ ॥
ज्ञानसिद्धिर्भवेन्नॄणां मयि दीपसमर्पणात् ।
विशेषात् सोमवारे च दीपावलिसमर्पणात् ॥ ६५ ॥
कार्तिके सोमवारे तु दीपावलिसमर्पणात् ।
ना पुनर्जायते भक्तो मम सायुज्यमाप्नुयात् ॥ ६६ ॥
प्रदोषे सोमवारे लक्षदीपसमर्पणात् ।
फलं वक्तुं न शक्येत सोऽहमेवेति निश्चितम् ।
तस्मादज्ञाननाशाय दीपार्चनमथाचरेत् ॥ ६७ ॥
नमस्काराष्टकं कुर्यादष्टोत्तरशतं तु वा ।
सहस्रं वा प्रकुर्वीत नमस्कारप्रियोऽस्म्यहम् ॥ ६८ ॥
करपीठे समभ्यर्च्य साम्बं मां लिङ्गरूपिणम् ।
अथ भक्तो नमस्कारं कण्ठोर्ध्वं तु विभावयेत् ॥ ६९ ॥
मुक्ताङ्गुष्ठेन मुष्ट्या च प्रदक्षिणविधानवान् ।
प्रार्थयेन्मां महेशानि यथाकाममतन्द्रितः ॥ ७० ॥
[[७०]]
अर्घ्यं चाप्युन्मनीमुद्रासमञ्चितकराम्बुजः ।
चिन्मुद्रया च पुष्पाणि पात्राणि च समर्पयेत् ॥ ७१ ॥
छत्रेणाच्छादयेत्पश्चाच्चामरेणापि वीजयेत् ।
तालवृन्तेन चाप्येवं दर्पणं दर्शयेदपि ॥ ७२ ॥
घण्टारवं कारयेच्च शङ्खमाध्मापयेदपि ।
गीतानि श्रावयेदेव वाद्यं नृत्यं समर्पयेत् ॥ ७३ ॥
पूजागृहविधानम्
शिवपूजागृहं शुद्धं श्वेतचूर्णेन लेपितम् ।
गोमयेनोपलिप्तं च रङ्गवल्याद्यलङ्कृतम् ॥ ७४ ॥
पुष्पैः पर्णैरलङ्कृत्य मल्लीझिल्लीं प्रसारयेत् ।
सुगन्धद्रव्यचूर्णैश्च धूपयेद् देवतागृहम् ॥ ७५ ॥
नीडानि भित्तौ कुर्वीत नानावर्णलसन्ति च ।
विन्यसेद् विग्रहानाशु तेषु मामककिङ्करान् ॥ ७६ ॥
सायुधान वाहनैर्युक्तानलङ्कारविभूषितान् ।
भस्मत्रिपुण्ड्ररुद्राक्षभास्वद्देहान् कपर्दिनः ॥ ७७ ॥
अथवा भूतिरुद्राक्षान् तेषु नीडेषु निक्षिपेत् ।
मम पूजार्थसामग्रीमथवा विन्यसेद् बुधः ।
तेषु तेषु च नीडेषु दीपमालां च कल्पयेत् ॥ ७८ ॥
पूजनकर्मसम्पादनम्
तस्मिन् सुसदने देवि सुखासीनः शुभासने ।
भस्मत्रिपुण्ड्ररुद्राक्षमाइकासमलङ्कृतः ॥ ७९ ॥
भद्रादिमण्डलन्यस्तसर्वोपकरणाञ्चितः ।
सकलीकृतदेहश्च कृतपारिषदस्तुतिः ॥ ८० ॥
अग्रे सिंहासनवरं विभाव्य समलङ्कृतम् ।
भस्मशय्याञ्चितं तत्र करपीठं विधाय च ॥ ८१ ॥
तस्मिन्निक्षिप्य मां नित्यं षट्त्रिंशदुपचारकैः ।
ऋग्यजुःसामवेदैश्च तथाऽथर्वणमन्त्रतः ॥ ८२ ॥
पञ्चाक्षरोपनिषदा पुराणश्रवणादिना ।
शास्त्राणां पठनेनापि गद्यपद्यस्तुतिव्रजैः ॥ ८३ ॥
गायेत् स्वयं गापयेच्च मम माहात्म्यसूचकैः ।
वाद्यैश्च विविधैर्गीतैर्नृत्यैर्मां परितोषयेत् ॥ ८४ ॥
[[७२]]
एकादिक्रमशो मह्यं दद्यादारार्तिकान् नव ।
जाघण्टाशङ्खनादैश्च कोलाहलरवैरपि ॥ ८५ ॥
शब्दब्रह्मानन्दमयो मदानन्दामृतप्लुतः ।
निमज्जन्निव सन्तुष्टो निःसञ्ज्ञः इव तत्परः ॥ ८६ ॥
यः सकृद्वाऽसकृद्वाऽपि मामर्चयति यः स्वयम् ।
स धन्यः सर्वलोकानां वन्द्यो भक्तोत्तमोत्तमः ।
तं दृष्ट्वा मोदते यस्तु तमादप्यधिको भवेत् ॥ ८७ ॥
यः स्वकीयगृहे नित्यं मद्भक्तानां विशेषतः ।
पूजोपकरणं दत्त्वा कारयेत् तैर्मदर्चनम् ।
स याति मम सायुज्यं ज्ञानिनामपि दुर्लभम् ॥ ८८ ॥
इत्थमुक्तं मया तुभ्यं लोकानां मुक्तिसिद्धये ।
पात्रादिसादनं देवि किमतः श्रोतुमिच्छसि ॥ ८९ ॥
इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे
पूजापात्रादिलक्षणकथनं नाम पञ्चमः पटलः ॥ ५ ॥