०४

चतुर्थः पटलः

देव्युवाच

देवदेव महादेव सर्वेश्वर नमोऽस्तु ते ।
अश्रौषमाह्निकं देव भक्तानामिष्टदायकम् ॥ १ ॥

अर्चाविशेषान् ग्रहणविशेषनियमानपि ।
रङ्गवल्लीविधानं च वर्तिकासाधनं तथा ॥ २ ॥

योग्यानि पत्रपुष्पाणि तदीयग्रहणं तथा ।
श्रोतुमिच्छामि भगवन् वद मे करुणानिधे ॥ ३ ॥

महादेव उवाच

शृणु वक्ष्यामि नगजे न गोप्यं त्वयि विद्यते ।
मत्पूजा त्रिविधा लघ्वी गुर्वी च महती तथा ॥ ४ ॥

पूजात्रयविधानम्

उत्तमो महतीं कुर्याद् गुर्वीं मध्यम एव च ।
लघ्वीमशक्तः कुर्याच्च सायं माध्याह्निके तथा ॥ ५ ॥

[[५३]]

अवसरा भोजने प्रोक्ता प्रातरादिषु सुव्रते ।
त्रिकालमर्चनां कुर्याच्छक्तः षट्कालमेव वा ॥ ६ ॥

द्विजोऽरुणोदये स्नात्वा सवित्रेऽर्घ्यं प्रदाय च ।
मदर्चनां विधायैव सावित्रीं प्रजपेन्नरः ॥ ७ ॥

यावत् सूर्योदयः पश्चादुपतिष्ठेदहस्करम् ।
जपयज्ञं विधायैवं पूजामुदयकालिकीम् ॥ ८ ॥

कुर्यात् तथा सङ्गवे च मध्याह्ने च यथाक्रमम् ।
सायं सन्ध्यामुपास्यार्च्यां कुर्यात् सायन्तनीं तथा ॥ ९ ॥

आद्ययामे समारभ्य द्वितीये तु समापयेत् ।
गृही निश्यर्धरात्रार्चां श्रद्धाभक्तिसमन्वितः ॥ १० ॥

नक्तं द्वितीययामस्य भागावाद्यन्तगौ मतौ ।
गृहिणश्च यतेर्धरात्रपूजावसानगौ ॥ ११ ॥

ग्रहणनियमाः

उपरागो भवेद्यामे प्रथमे चेत् तदानघे ।
द्वितीययामे कर्तव्या मम पूजार्धरात्रिकी ॥ १२ ॥

उपरागो यदा यामे द्वितीये वा तृतीयके ।
अर्चामवसरां कृत्वा न भुञ्जीत द्विजस्तदा ।
नक्तव्रती यदि पुनर्विशेषस्त्वधुनोच्यते ॥ १३ ॥

उपरागो यदा यामे द्वितीये वा तृतीयके ।
यामात् पुरस्तात् कर्तव्या मम पूजा न भोजना ॥ १४ ॥

सोमोपरागे पौरस्त्यस्त्याज्यो यामस्तु भोजने ।
तत्पूर्वः शस्यते कालो नित्यनक्तोपजीविनाम् ॥ १५ ॥

ग्रस्तेऽप्यस्तमिते भानौ नोपवासो नियुज्यते ।
यतः प्रसादः संसेव्यो नियतं नक्तभोजिनाम् ॥ १६ ॥

पद्मभद्रतत्त्वमण्डलानि

पद्मं भद्रं तथा तत्त्वमण्डलं हि क्रमोत्तमम् ।
अर्चनोचितपात्राणां विन्यासाय प्रकीर्तितम् ।
सिततण्डुलचूर्णेन पद्मष्टदलं भवेत् ॥ १७ ॥

अष्टौ पूर्वाग्रगा रेखा लिखेत् तिर्यक् तथा पुनः ।
एकोनपञ्चाशत्कोष्ठचक्रमेवं भवेत् ततः ॥ १८ ॥

सूक्ष्मपद्मानि विन्यस्येत् षट्त्रिंशत्कोष्टके तथा ।
त्रयोदशसु मध्येषु लिखेदष्टदलाम्बुजम् ।
दशायुधानि विन्यस्येत् परितो मण्डलं पुनः ॥ १९ ॥

[[५५]]

पूर्वे तु स्वस्तिकं शङ्खमाग्नेये कमलं तथा ।
दक्षिणे चामरं छत्रं नैरृत्यां पञ्चकोणकम् ॥ २० ॥

पश्चिमे नागबन्धं च वायौ षट्कोणमेव च ।
उत्तरे डमरुं शूलमैशाने त्वष्टकोणकम् ॥ २१ ॥

एतल्लिङ्गार्चनापात्रविन्यासार्हं मम प्रियम् ।
भद्रमण्डलमाख्यातं भद्रदं मुक्तिदं परम् ॥ २२ ॥

सप्तत्रिंशल्लिखेद् रेखा ऊर्ध्वाग्रास्तिर्यगप्यथ ।
षण्णवत्युत्तरद्वादशशतात्मककोष्ठकम् ॥ २३ ॥

चक्रं भवति तन्मध्ये षट्त्रिंशद्दलवारिजम् ।
परितः सर्वकोष्ठेषु सूक्ष्मपद्मानि संलिखेत् ।
दशायुधानि विन्यस्येत् परितो मण्डलं बुधः ॥ २४ ॥

इष्टलिङ्गार्चनापात्रविन्यासायोत्तमोत्तमम् ।
तत्त्वमण्डलमाख्यातं तत्त्वानुभवसाधनम् ॥ २५ ॥

पद्मं त्ववसराख्यायां लघ्व्यामपि समीरितम् ।
भद्रमण्डलमुख्यानि गुर्व्यादिषु च विन्यसेत् ॥ २६ ॥

[[५६]]

दीपार्पणम्

लघ्व्यामवसरायां वा ज्वालयेद् दीपमेककम् ।
गुर्व्यां महत्यामपि च द्वौ वाऽथ चतुरोऽपि वा ॥ २७ ॥

नीराजनत्रयं प्रोक्तमवसराख्यपूजने ।
आद्यं दर्शनसञ्ज्ञं स्यान्मज्जनाख्यं द्वितीयकम् ।
तृतीयमवसराख्यमेवं सम्पूजयेत् प्रिये ॥ २८ ॥

नीराजनानां नवकं लघ्व्यामुक्तं वरानने ।
प्रथमं दर्शनाख्यं स्यादवसराख्यं द्वितीयकम् ॥ २९ ॥

मज्जनाख्यं तृतीयं तु माङ्गल्याख्यं चतुर्थकम् ।
कर्पूराख्यं पञ्चमं स्यात् षष्ठं शृङ्गारसञ्ज्ञकम् ॥ ३० ॥

सप्तमं तु महासञ्ज्ञमानन्दाख्यमिहाष्टकम् ।
असङ्ख्याताभिधं चैतन्नवमं परिकीर्तितम् ॥ ३१ ॥

सानुरागाभिधं ताम्बूलाभिख्यं च महार्चने ।
गुर्वर्चनेऽपि हि भवन्त्येकादश प्रियव्रते ॥ ३२ ॥

वर्तिकाविधानम्

तिस्रस्त्ववसराख्यायां वर्तिका विहिता इह ।
नव द्वादश वा प्रोक्ता वर्तिका लघुपूजने ॥ ३३ ॥

अष्टादशाथ षट्त्रिंशद्वा प्रोक्ता गुरुपूजने ।
आनवक्रमसङ्ख्या वा तथा षण्णवतिस्तु वा ॥ ३४ ॥

[[५७]]

अष्टोत्तरशतं वाऽथ त्रिशतं वा सहस्रकम् ।
महत्यां मम पूजायां वर्तिका ज्वालयेदपि ॥ ३५ ॥

षट्त्रिंशत्तन्तुभिः कुर्याद्वर्तिका मम पूजने ।
फलं तिसृभिरेव स्यादष्टोत्तरशतोदितम् ॥ ३६ ॥

पूजोचितानि पुष्पपत्राणि

अथ वक्ष्यामि पुष्पाणि पूजायां मत्प्रियाणि वै ।
नन्द्यावर्तश्रियावर्तकरवीरबकानि च ॥ ३७ ॥

द्रोणपुन्नागमन्दारजलजार्कोत्पलान्यपि ।
लोध्रधुत्तूरनिर्गुण्डीविल्वाशोकमुनीन्यपि ॥ ३८ ॥

एतेषु शुभ्रवर्णानि ममात्यन्तप्रियाणि वै ।
एतानि सात्त्विकानि स्युर्मुक्तिदानि भवन्ति हि ॥ ३९ ॥

एतानि राजसानि स्युर्भोगसिद्धिकराणि च ।
मिश्राणि पीतवर्णानि भोगमोक्षप्रदानि हि ॥ ४० ॥

तामसान्यसितानि स्युर्विना नीलोत्पलं प्रिये ।
पूजायामुपयुज्येरन्न कदापि नितम्बिनि ॥ ४१ ॥

[[५८]]

कदम्बं चम्पकं चैव पुन्नागं बृहती तथा ।
अऽस्वमेधफलं दद्युर्वसन्ते मह्यमर्पणात् ॥ ४२ ॥

पाटली मल्लिका चैव शतपत्रं ममार्पितम् ।
अग्निष्टोमफलं दद्युर्ग्रीष्मतौ वरवर्णिनि ॥ ४३ ॥

अश्वमेधफले स्यातां रावृष्याम्बुजमल्लिके ।
नीलोत्पलं च कह्लारं धुत्तूरं जातिरेव च ।
सत्रयागफलं दद्युः शरद्यर्पणतो मम ॥ ४४ ॥

जातिर्नीलोत्पलं चैव करवीरमपि प्रिये ।
शतक्रतुफलं दद्याच्छिशिरे कर्णिकारकम् ॥ ४५ ॥

पुष्पेष्वारग्वधद्रोणे पत्रे वैल्वमपि ध्रुवम् ।
प्रशस्ततममाख्यातं मत्पूजायां वरानने ॥ ४६ ॥

द्रोणादिपुष्पैः सौवर्णैः कृतं यद् विल्वपत्रकैः ।
तदनन्तफलं विद्यात् पूजनं मम पार्वति ॥ ४७ ॥

पत्राणामपि पुष्पाणां सौवर्णानामिह क्वचित् ।
नहि निर्माल्यतादोषस्तस्मात् तैर्नित्यमर्चयेत् ॥ ४८ ॥

करानीतं पटानीतं धृतमेरण्डपत्रतः ।
अपवित्रजनानीतं पत्रं पुष्पं फलं त्यजेत् ॥ ४९ ॥

च्युतं भुवि तथाऽऽघ्रातमकिञ्जल्कं सकीटकम् ।
अवृन्तं सव्रणं पुष्पं पूजायां नोपयुज्यते ॥ ५० ॥

जलजं स्थलजं वाऽपि यथोत्पन्नं तथैव च ।
पत्राण्यपि तथा न्यस्येद् विल्वपत्रमधोमुखम् ॥ ५१ ॥

सर्वोपरि न्यसेद् विल्वं विल्वोपरि न किञ्चन ।
सर्वोपरि न्यसेद्भस्म भस्मोपरि न किञ्चन ॥ ५२ ॥

मत्पूजा क्रियते ह्येवं कैवल्यं लभते ध्रुवम् ।
सर्वमुक्तं समासेन किमतः श्रोतुमिच्छसि ॥ ५३ ॥

इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे
रङ्गवल्यादिकथनं नाम चतुर्थः पटलः ॥ ४ ॥