०३

तृतीयः पटलः

देव्युवाच

देवदेव महादेव जगदीश नमोऽस्तु ते ।
शाम्भवव्रतिनां नित्यमाह्निकं ब्रूहि मेऽधुना ॥ १ ॥

महादेव उवाच

शाम्भवव्रतिनामाह्निकम्

ब्राह्मे मुहूर्ते मद्भक्तो बुद्ध्यमानो नगात्मजे ।
नेत्रयोः स्पर्शयन्निष्टलिङ्गं मामनुसंस्मरेत् ॥ २ ॥

गुरूपदिष्टमार्गेण द्वादशान्तेऽथवा हृदि ।
दिव्यरूपमरूपं वा चिन्तयेन्मामनन्यधीः ॥ ३ ॥

धर्मानर्थांश्च तत्क्लेशान् दिनकृत्यं च चिन्तयेत् ।
तथा चत्वारि कर्माणि सन्ध्यायां न समाचरेत् ।
भुक्तिं च कामिनीसक्तिमधीतिं सुप्तिमेव च ॥ ४ ॥

उदयत्यस्तमयति रवौ सुप्यति चेन्नरः ।
प्राणानायम्य च जपेन्मूलमष्टोत्तरं शतम् ॥ ५ ॥

[[४०]]

मद्भक्तं भस्मरुद्राक्षं मां च विल्वमहीरुहम् ।
प्रातःकाले तु यः पश्येत् सोऽभीष्टं समवाप्नुयात् ॥ ६ ॥

पाषण्डं भविनं व्रात्यं याचं देवनिन्दकम् ।
प्रातःकाले तु यः पश्येत् सोऽनिष्टं समवाप्नुयात् ॥ ७ ॥

शौचविधिः

ततो ग्रामाद् बहिर्यायादाग्नेयीं विदिशं नरः ।
शरक्षेपमितां तत्र जलपात्रं निधाय वै ॥ ८ ॥

निवीतं शिवसूत्रं च मूर्ध्नि विन्यस्य वाससा ।
शिरः प्रावृत्य नोर्ध्वं च नाधश्चैव विलोकयन् ॥ ९ ॥

सोममग्निमथादित्यं कुर्वन्नाभिमुखं द्विजः ।
ततश्च विसृजेन्मूत्रं पुरीषं च समाहितः ॥ १० ॥

अतो मृदा वारिणा च भावशुद्धिसमन्वितः ।
शौचं तु यत्नतः कुर्यादन्यथा निष्फलाः क्रियाः ॥ ११ ॥

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेद्वै विरूपाक्षं स बाह्याभ्यन्तरः शुचिः ॥ १२ ॥

[[४१]]

शौचं विधाय विधिवद्धस्तपादं विशोध्य च ।
जलं मह्यं समर्प्यैव गण्डूषान् विसृजेत्तदा ॥ १३ ॥

सम्बद्धशिख आसीनो वाङ्मनःकायसंयुतः ।
कृत्वोपवीतं सव्यांसे तत आचमनं चरेत् ॥ १४ ॥

अन्तर्जानुकरो भूमिमधः कायं तथा स्पृशन् ।
उदङ्मुखस्तु तीर्थेन ब्राह्मेणोपस्पृशेज्जलम् ॥ १५ ॥

सुप्ते क्षुते च निष्ठीवे परिधानेऽश्रुनिर्गमे ।
कृत्वा मूत्रपुरीषे च शौचार्थी समुपस्पृशेत् ॥ १६ ॥

उपस्पर्शे तथा स्नाने नियतं सर्वकर्मसु ।
कुशग्रहः प्रशस्तः स्यान्न शस्तः पैतृके भवेत् ॥ १७ ॥

दन्तधावनम्

आचम्य प्राङ्मुखो नित्यमाचरेद् दन्तधावनम् ।
मधुरित्यादिमन्त्रेण शाखां समभिमन्त्र्य च ॥ १८ ॥

[[४२]]

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्मा प्रज्ञां च मेधां च त्वं नो एहि वनस्पते ।
इति सम्प्रार्थ्य मन्त्रेण धावयेच्छाखया तथा ॥ १९ ॥
सर्वे कण्टकिनः शस्ताः क्षीरिणो दन्तधावने ।
न विल्वशाखया कुर्याद् दन्तशुद्धिं कदाचन ॥ २० ॥

स्नानकर्म

दन्तशुद्धिं विधायाथ प्रातःस्नानं समाचरेत् ।
महानद्यो देवखातास्तटाकाश्च सरांसि च ।
गर्तप्रश्रवणदीनि शस्तानि स्नानकर्मणि ॥ २१ ॥

रूपं तेजो बलं शौचमायुर्धृतिररोगता ।
मेधादुःस्वप्ननाशश्च गुणाः स्नानस्य कीर्तिताः ॥ २२ ॥

मदालयसमीपे तु यत्तोयं परितिष्ठते ।
शिवगङ्गेति विज्ञेया तत्र स्नात्वा लभेत् माम् ॥ २३ ॥

मलस्नानं मन्त्रस्नानं च

नद्यादिकान् समागम्य स्नानं कुर्याद्विशेषतः ।
मलस्नानमिदं प्रोक्तं मन्त्रस्नामथ शृणु ॥ २४ ॥

सङ्कल्पः सूक्तपठन्ं मार्जनं चाघमर्षणम् ।
देवतातर्पणं चैव स्नानं पञ्चाङ्गमुच्यते ॥ २५ ॥

मत्स्यमण्डूकसर्पाद्यैरनेकैर्जलजन्तुभिः ।
सेवितं तु जलं नित्यं तस्माद् दुष्टं भवेदतः ॥ २६ ॥

हस्तमात्रप्रमाणेन् परितश्चतुरश्रकम् ।
हुम्फडन्तेन चास्त्रेण मृदं गृह्णीत साधकः ॥ २७ ॥

अघोरेण विशोद्ध्यैव पुरुषेण त्रिभागकम् ।
पूर्वस्मिन् दक्षिणे चैव तथा चैवोत्तरे क्षिपेत् ॥ २८ ॥

ईशानेन तु मन्त्रेण चेकैकमभिमन्त्रयेत् ।
अस्त्रं ब्रह्मशिवं जप्त्वा पूर्वादि क्रमशो न्यसेत् ॥ २९ ॥

अस्त्रजप्तं तु यद्भागं दशदिक्षु विनिक्षिपेत् ।
शिवजप्तं तु यद्भागं तीर्थमध्ये विनिक्षिपेत् ॥ ३० ॥

फट्कारेणास्त्रमन्त्रेण तथा नाराचमुद्रया ।
जले सूक्ष्माश्च ये दोषास्तेषामुच्चाटनं भवेत् ॥ ३१ ॥

[[४४]]

ब्रह्मजप्तस्य चार्धेन चात्मनोऽङ्गानि कुण्ठयेत् ।
शिरो वक्त्रं च हृदयं पादौ गुह्यं च भागशः ॥ ३२ ॥

शेषार्धेनोपसंस्पृश्य स्नात्वाऽद्भिस्तु पुनः पुनः ।
उपस्पृश्य तथा स्नायाच्छिवतीर्थस्य मध्यतः ॥ ३३ ॥

शिवब्रह्माङ्गविद्याङ्गैः स्नानं कृत्वा विचक्षणः ।
पञ्चब्रह्मशिवाङ्गैश्च त्रिः पठेदघमर्षणम् ॥ ३४ ॥

ततः शिवात्मकैर्मन्त्रैस्तोयं कृत्वा शिवात्मकम् ।
मार्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत् ॥ ३५ ॥

अस्त्रेण मन्त्रितं तोयं वामनासाग्रमानयन् ।
इडयान्तर्गतं तेन दग्धमेनो विचिन्तयेत् ॥ ३६ ॥

बहिर्गतं पिङ्गलया भावयन् दक्षिणे करे ।
धृत्वा जलं तत्र पापपूरुषं भावयेत्ततः ॥ ३७ ॥

[[४५]]

वामभागे वज्रशिलां ध्यात्वा तत्र क्षिपेज्जलम् ।
चूर्णितं भावयेत् पापनरमित्यघमर्षणम् ॥ ३८ ॥

देवादींस्तर्पयेद् विद्वान् मूलमन्त्रजपेन च ।
देवं मां मद्गणांश्चैव तर्पयेच्छुद्धमानसः ॥ ३९ ॥

भस्मस्नानम्

प्रातःस्नाने मृत्तिकया नानुलिम्पेच्छरीरम् ।
ततस्तु धौतवसने धृत्वा त्वक्त्वाऽऽर्द्रवाससी ॥ ४० ॥

इष्टलिङ्गं करे न्यस्य मज्जयित्वा च वारिणा ।
भस्मस्नानं ततः कुर्याच्छुद्धान्तःकरणः शुचिः ॥ ४१ ॥

भस्मसङ्गृह्य मूलेन षड्वारमभिमन्त्र्य च ।
शिर ईशानमन्त्रेण पुरुषेण मुखं तथा ॥ ४२ ॥

हृत्प्रदेशमघोरेण वामदेवेन गुह्यकम् ।
पादौ सद्येन सर्वाङ्गं प्रणवेनैव सेचयेत् ॥ ४३ ॥

भस्मना विहितं स्नानमिदमाग्नेयमुत्तमम् ।
शुष्केण भस्मना लिम्पेत् सर्वाङ्गं मूलमुच्चरन् ।
उद्धूलनमिदं पश्चाद् सजलेनैव कुण्ठयेत् ॥ ४४ ॥

[[४६]]

वामपाणितलन्यस्ते षट्कोणं भस्मनि न्यसेत् ।
प्रणवं तन्मुखे चैव वायकारौ भुजद्वये ॥ ४५ ॥

शिकारं यन्त्रमध्ये च नमकारौ पदद्वये ।
विलिख्य मूलमन्त्रेण षड्वारमभिमन्त्रयेत् ॥ ४६ ॥

उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोर्द्वयोः ।
नासावक्त्रगलेष्वेवमंसद्वितयके तथा ॥ ४७ ॥

कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः ।
नाभौ गुह्यद्वये चैव ऊर्वोः स्फ्ग्बिम्बजानुषु ॥ ४८ ॥

उअङ्घाद्वये च पदयोर्द्वात्रिंशत्स्थानके तथा ।
भस्म त्रिपुण्ड्रं सन्धार्य रुद्राक्षान् बिभृयात्ततः ॥ ४९ ॥

रुद्राक्षधारणम्

शिखायामेकरुद्राक्षं त्रिंशत्तु शिरसा वहेत् ।
षट्त्रिंशत्तु गले दद्याद् बाह्वोः षोडश षोडश ॥ ५० ॥

[[४७]]

द्वादश मणिबन्धेऽपि स्कन्धे पञ्चशतं वहेत् ।
अष्टोत्तरशतैर्मालां जपयज्ञे प्रकल्पयेत् ॥ ५१ ॥

द्विसरं त्रिसरं वाऽपि सराणां पञ्चकं तु वा ।
सप्तकं दशकं वाऽपि बिभृयात् कण्ठदेशतः ॥ ५२ ॥

मकुटे कुण्डले चैव कर्णिकाहारकेषु च ।
केयूरकटके चैव कक्षबन्धे विशेषतः ॥ ५३ ॥

त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ।
सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् ॥ ५४ ॥

सन्ध्योपासनपूजने

ततः सन्ध्यामुपासीत प्राणायामपुरस्सरम्
मदीयसन्ध्यकोपास्तिः सन्ध्योपास्तिः प्रकीर्तिता ।
सवितुर्मण्डलस्वामी सावित्रीदेवताऽस्म्यहम् ॥ ५५ ॥

सन्ध्याकाले मदन्या तु देवता यद्युपास्यते ।
चत्वारि तस्य नश्यन्ति ह्याहुः प्रज्ञा यशो बलम् ॥ ५६ ॥

तत् त्रिसन्ध्यमुपास्योऽहमान्तरः सवितुः परः ।
भर्गमुख्याभिधानश्च प्राणधीचोदकः सदा ॥ ५७ ॥

[[४८]]

अरुणस्योदये सूर्यस्योदये सङ्गवे तथा ।
मध्याह्ने च ततः सायमर्धरात्रे च सुव्रते ।
उत्तमैरर्चनीयोऽहं षट्कालं भक्तिशालिभिः ॥ ५८ ॥

अर्घ्यान्तां समनुष्ठाय सन्ध्यां शैवीं च सादरम् ।
अरुणस्योदये कुर्यात् पूजां तात्कालिकीं ततः ॥ ५९ ॥

जपेद् भानूदयान्तं च सावित्रीं यतमानसः ।
उपतिष्ठेच्च सवितुरन्तरं मामनन्यधीः ॥ ६० ॥

ततो भानूदये कुर्यान्मदर्चां होममप्यथ ।
जपेत् षडक्षरीं साङ्गां श्रीरुद्रादीन् विशेषतः ॥ ६१ ॥

सर्वेभ्यो द्रव्ययज्ञेभ्यो जपयज्ञो विशिष्यते ।
जपयज्ञं समाप्यैवं गुर्वादीनभिवादयेत् ॥ ६२ ॥

अष्टभागमहः कृत्वा ह्याद्यमेवं समापयेत् ।
द्वितीयभागे त्वभ्यस्येद् वेदान् दिव्यागमानपि ॥ ६३ ॥

शास्त्राणि आठयेच्छिष्यान्मत्तत्त्वं बोधयेदपि ।
तदा समाचरेद् भक्त्या पूजां सङ्गवकालिकीम् ॥ ६४ ॥

समित्कुशादीन् होमार्थं च प्रयत्नतः ।
पुष्पाणि विल्वपत्राणि गुग्गुल्वादीनि चाहरेत् ॥ ६५ ॥

तृतीयभागे कुर्वीत यत्नं पोष्यार्थसिद्धये ।
तथा चतुर्थभागे तु स्नानार्थं मृदमाहरेत् ॥ ६६ ॥

शिवतीर्थं तु सम्पाद्य मृदाऽङ्गान्युपलिप्य च ।
स्नानं माध्याह्निकं कृत्वा सन्ध्याद्वयमुपास्य च ।
ततः पञ्च महायज्ञाः कर्तव्या गृहिणा मुदा ॥ ६७ ॥

पञ्चयज्ञाः

देवानां च पितॄणाण्म् च भूतानां च नृणामपि ।
ब्रह्मणश्च विनिर्दिष्टाः पञ्चयज्ञा नगात्मजे ॥ ६८ ॥

जुहोति समिधाद्यग्नौ देवयज्ञः प्रकीर्तितः ।
ददात्यपः पितृभ्योऽयं पितृयज्ञ इतीरितः ॥ ६९ ॥

बलिं हरति भूतेभ्य् भूतयज्ञ उदाहृतः ।
मनुष्ययज्ञः स हि यद् विप्रेभ्योऽन्नं प्रयच्छति ।
यत् स्वाध्यायमधीयीत ब्रह्मयज्ञ इतीर्यते ॥ ७० ॥

[[५०]]

अपसव्यं विधेयं स्यादग्निष्वात्तादितर्पणे ।
पुनस्तन्न विधेयं स्यात् स्वपितॄणां तु तर्पणे ॥ ७१ ॥

ततो माध्याह्निकी पूजा कार्या गुर्वी लघुस्तु वा ।
महती वा यथाशक्ति श्रद्धाभक्तियुतात्मना ॥ ७२ ॥

पण्डितो वाऽथ मूर्खो वा प्रियो वा द्वेष्य एव वा ।
सम्प्राप्तो यस्तु पूजान्ते स एवाहं न संशयः ॥ ७३ ॥

मत्तोऽधिको जङ्गमो हि स पूज्यो गृहमागतः ।
अन्नपानादिभिश्चैव तदभीष्टप्रदानतः ॥ ७४ ॥

एवं जङ्गममाराध्य प्रसादमुपभुज्य च ।
सुखमास्हाय मच्चित्तस्तदन्नं परिणामयन् ॥ ७५ ॥

मत्स्तोत्राणि पठेद्वाऽपि पुराणान्यभ्यसेत्तु वा ।
आसायमथ कुर्वीत यत्नं पोष्यार्थसिद्धये ॥ ७६ ॥

सायङ्कृत्यानि

ततः स्नातः शुचिर्भूत्वा भ्स्मस्नानं विधाय वा ।
उपास्य पश्चिमे सन्ध्ये होमकार्यं समाप्य च ।
कृत्वा सायन्तनीं पूजां वैश्वदेवं समाचरेत् ॥ ७७ ॥

[[५१]]

विधायाऽथ यथाशक्ति मत्पूजामर्धरात्रिकीम् ।
सायमायान्तमतिथिं पूजयेदतिभक्तितः ॥ ७८ ॥

यत्पातकं भवेद् देवि विमुखे च दिवातिथौ ।
सायं हि विमुखे तस्मिंस्तदष्टगुणितं भवेत् ॥ ७९ ॥

तस्मात् स्वशक्त्या सम्पूज्य सूर्योढमतिथिं द्विजः ।
प्रसादमुपभुज्याथ मत्स्तोत्राणि पठेदपि ॥ ८० ॥

आत्माभिरुचितां शय्यामधिष्ठाय शुचिस्तु माम् ।
स्मरन् समाधिमास्थाय शयीताऽर्वाक्छिराः सुखम् ॥ ८१ ॥

इत्थमुक्तं कृत्यजातमाह्निकं यन्मया प्रिये ।
द्विजानां मम भक्तानां मत्पदप्राप्तिसाधनम् ॥ ८२ ॥

इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे
आह्निकविधिर्नाम तृतीयः पटलः ॥ ३ ॥