द्वितीयः पटलः
देव्युवाच
देवदेव महादेव जगदीश नमोऽस्तु ते ।
एतदाकर्णनादस्मि कृतकृत्या महेश्वर ॥ १ ॥
अत्र मे जायते कश्चित् संशयः शशिशेखर ।
तदपाकुरु कारुण्यात् प्राणेश शृणु मद्वचः ॥ २ ॥
ज्ञानादेव तु कैवल्यमिति प्रोक्तं त्वया पुरा ।
एतद्व्रतेनैव भवेन्मुक्तिरित्युच्यते कथम् ॥ ३ ॥
ज्ञानेन न विना मुक्तिर्यदि स्याद् देहधारिणाम् ।
व्रतेनानुष्ठितेन स्यात् किं फलं ब्रूहि तत्त्वतः ॥ ४ ॥
महादेव उवाच
ज्ञानादेव कैवल्यम्
साधु पृष्टं देवि वक्ष्याम्यवहिता शृणु ।
ज्ञानादेव तु कैवल्यमिति सत्यं वचो मम ॥ ५ ॥
[[२६]]
तथाऽपि ज्ञानसम्प्राप्तिर्व्रतेन न विना भवेत् ।
ज्ञानोपदेशः कार्त्स्न्येन व्रतेऽस्मिन्नुच्यते किल ।
व्रतेनानेन न विना ज्ञानायाधिकृतो भवेत् ॥ ६ ॥
अदीक्षासंस्कृते जन्तावपवित्रहृदाकुले ।
उपदिष्टमपि ज्ञानं मरुवन्न प्ररोहति ॥ ७ ॥
लब्धं कथमपि ज्ञानं लिङ्गनिष्ठाविवर्जिते ।
न फलाय भवत्येव यथा सस्यमरक्षितम् ॥ ८ ॥
दीक्षासंस्कृतिसंशुद्धे चित्ते जन्तोः समर्पितम् ।
लिङ्गाङ्गसामरस्याख्यं मन्निष्ठागोपितं परम् ।
भक्तिसिक्तं मम ज्ञानं मोक्षाय भवति ध्रुवम् ॥ ९ ॥
मत्प्रसादेन न विना मुक्तिः संसृतिबन्धनात् ।
मम ज्ञानेन न विना मत्प्रसादो भविष्यति ॥ १० ॥
दीक्षाया ज्ञानसाधनत्वम्
मज्ज्ञानं न भवत्येव ह्यनया दीक्षया विना ।
तस्मादीयं महादीक्षा मोक्षदा निश्चिता खलु ॥ ११ ॥
[[२७]]
तस्माद् दीक्षामिमां मुक्त्वा मोक्षकामः पथान्तरैः ।
गच्छन्न मुञ्चते जन्तुः कल्पकोटिशतैरपि ।
तस्मादसंशयं देवि व्रमेतद् विमुक्तिदम् ॥ १२ ॥
देव्युवाच
देवात्र मम भूयोऽपि जायते संशयो महान् ।
उक्तं हि भवता दीक्षा ज्ञानद्वारा विमोक्षदा ।
तस्मात् सिद्धा हि दीक्षाया ज्ञानसाधनता परम् ॥ १३ ॥
विद्येत दीक्षितः कश्चित् सम्यग्ज्ञानविवर्जितः ।
रागद्वेषानुबद्धश्च तस्य मुक्तिः कथं भवेत् ॥ १४ ॥
यदि तस्यापि मुक्तिः स्याद् ज्ञानापेक्षा निरर्थका ।
चोद्विमुक्तिर्न तस्य स्याद् व्रतमेतन्न मोक्षदम् ।
तमेतं संशयं छिन्धि करुणावरुणालय ॥ १५ ॥
महादेव उवाच
युक्तं पृष्टवती देवि तुष्टोऽस्मि तव भाषणात् ।
रहस्यं कथयाम्यद्य त्वत्संशयनिवारकम् ॥ १६ ॥
[[२८]]
शाम्भवव्रतस्य ज्ञानसाधनत्वम्
अज्ञस्य कुटिलस्यापि शाम्भवव्रतसेविनः ।
प्राणोत्क्रमणवेलायां वाराणस्यामिव ध्रुवम् ॥ १७ ॥
ज्ञानमावेदयिष्यामि मत्स्वरूपनिबोधकम् ।
तेन वै मुच्यते जन्तुर्मत्प्रसादान्न संशयः ॥ १८ ॥
गृह्णन् दीक्षामिमां वाथ वसन् वाऽनन्दकाननम् ।
नरो यथेच्छाचारोऽपि न भीयान्मृत्युबन्धनात् ॥ १९ ॥
न जन्मयातना जन्तोर्न च संयमयातना ।
मज्ज्ञानविमुखस्यापि शाम्भवव्रतसेविनः ॥ २० ॥
महापातकयुक्तोऽपि दीक्षितः शुचितामियात् ।
दीक्षितः पातकी चैत स्याद् गच्छेद्भैरवयातनाम् ॥ २१ ॥
स तथा भैरवीमुग्रां यातनामनुभूय च ।
मदनुग्रहपात्रः स्यान्नपुनर्जन्मभाग्भवेत् ॥ २२ ॥
[[२९]]
दीक्षितोऽदीक्षितो वाऽपि शैवाचारविदूषकः ।
भक्तादिनिन्दकश्चेत् स्यान्नरकी कालमक्षयम् ॥ २३ ॥
तदुक्तं हि मया देवि दीक्षयं मोक्षदेत्यहो ।
नह्यत्र संशयः कार्यो मदुक्तौ गिरिकन्यके ॥ २४ ॥
देव्युवाच
ममापराधः क्षन्तव्यो मीढुष्टम नमोऽस्तु ते ।
त्वयि प्रसन्ने जगति दुर्लभं किमु विद्यते ॥ २५ ॥
न कोऽपि विशयो मेऽस्ति भवदुक्तौ भवोद्भव ।
श्रुतौ किमस्ति विशयः सा भवत्सूक्तिरेव हि ॥ २६ ॥
तथाऽप्यपृच्छं लोकानां संशयापजिहीर्षया ।
संवृत्ता गतसन्देहा वृषवाह क्षमस्व माम् ॥ २७ ॥
महादेव उवाच
भवत्याः परिपृच्छन्त्या जनतानुजिघृक्षया ।
नेह दोषोऽणुरप्यस्ति गुण एव महान् भवेत् ।
परिपृच्छस्व किमपि वक्ष्यामि गिरिनन्दिनि ॥ २८ ॥
[[३०]]
देव्युवाच
सेयं हि शाम्भवी दीक्षा ज्ञानिष्ठाविधायिनी ।
दृश्यते ज्ञाननिष्ठा हि यतेरेवोचिता भवेत् ॥ २९ ॥
नित्यनैमित्तिकमुखकर्मतत्परचेतसः ।
कुटुम्बभरणव्यग्रमनसो गृहमेधिनः ।
ज्ञाननिष्ठा कथं सध्या ब्रूहि मे करुणानिधे ॥ ३० ॥
महादेव उवाच
ज्ञाननिष्ठायां सर्वेषामधिकारः
मोक्षायाधिकृतो लोके यतिरेव कथं भवेत् ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तु वा ॥ ३१ ॥
ब्राह्मणः क्षत्रियो वाऽथ वैष्यः शूद्रोऽन्त्यजोऽपि वा ।
पुमान् नार्यथवा क्लीबः सर्वे मोक्षाधिकारिणैः ॥ ३२ ॥
मदनुग्रहपात्रो यः सर्वो मोक्षाय कल्पते ।
मत्प्रसादविहीनाय व्रतमेतन्न रोचते ॥ ३३ ॥
ज्ञानेन न विना मोक्षः सिद्ध्येत् केनापि सुव्रते ।
ज्ञानं च न विनाऽनेन शाम्भवेन व्रतेन तु ॥ ३४ ॥
[[३१]]
व्रतमेतद् द्विविधम्
वैदिकं तान्त्रिकं चेति व्रतमेतद् द्विधा भवेत् ।
द्विजानां वैदिकं प्रोक्तमन्येषां तान्त्रिकं स्मृतम् ॥ ३५ ॥
नित्यं नैमित्तिकं वाऽपि क्रियते गृहमेधिना ।
मदाराधनबुद्ध्या यत्कर्म तद् ज्ञानसाधनम् ॥ ३६ ॥
गरुजङ्गमलिङ्गार्चासाधनं यद् भवेद् भुवि ।
कुटुम्बके विनिर्दिष्टं परमं मोक्षसाधनम् ॥ ३७ ॥
तत्कर्म च कुटुम्बं वा न मुक्तिपथरोधकम् ।
लिङ्गनिष्ठागरिष्ठस्य विदुषो गृहमेधिनः ॥ ३८ ॥
मद्भक्तगणसंसेवानिर्भरानन्दवैभवम् ।
गृहमेधीव सम्प्राप्तुं कथं पात्री भवेद्यतिः ॥ ३९ ॥
विरक्तश्चेद्यतिर्भूयादविरक्तो गृही भवेत् ।
यतिः सन्नविरक्तश्चेन्नरकी कालमक्षयम् ॥ ४० ॥
पुत्रदारानुषक्तः सन्नविरक्तश्चरन्नपि ।
मन्निष्ठायुक्तचित्तश्चेद् गृही मुक्तो भवेद् ध्रुवम् ॥ ४१ ॥
[[३२]]
ज्ञानं विमुक्तिदं प्रोक्तं नाश्रमो मोक्षसाधनम् ।
ज्ञाननिष्ठा हि यस्य स्याच्छाम्भवव्रतपूर्विका ।
कोऽपि वा भवताल्लोके स हि बन्धाद्विमुच्यते ॥ ४२ ॥
तस्मादिदं व्रतं प्रोक्तं परमं मोक्षसाधनम् ।
इतोऽपि परिपृच्छस्व किमन्यच्छ्रोतुमिच्छसि ॥ ४३ ॥
देव्युवाच
कथमत्र स्त्रीणामप्यधिकारः ?
व्रतमेतद्धि नारीणामनुष्ठेयं कथं भवेत् ।
पुरस्ताद्वा परस्ताद्वा कर्तव्यं पाणिपीडनात् ॥ ४४ ॥
कथं पुरस्ताद् युज्येत स्त्रियः कर्मणि वैदिके ।
अधिकारस्तु तद्योग्यविवाहासंस्कृतत्वतः ॥ ४५ ॥
परस्ताद् यदि गृह्येत भर्तृतस्त्वथवाऽन्यतः ।
गृह्यते शाम्भवी दीक्षा भर्तृश्चेद् गुरुः स हि ॥ ४६ ॥
गुरुः पिता भवेत्तस्य कथं पत्नी भवेदियम् ।
अन्यतश्चेद्भवेत् तस्या अन्यशेषत्वमागतम् ।
पत्युर्गुरोर्वा वचसि स्थातव्यमनया पुनः ॥ ४७ ॥
[[३३]]
सङ्कल्पाधिकृतिर्नास्ति योषितामिति कथ्यते ।
तासामस्यां हि दीक्षायामधिकारं कथं भवेत् ॥ ४८ ॥
अविश्रान्तमनीषाया गृहकृत्यैरनारतैः ।
ज्ञाने लभेतावकाशः पतिमत्याः कथं प्रभो ॥ ४९ ॥
लिङ्गनिष्ठापरायाः स्यात् कथं पुत्रादिपालनम् ।
कथं वा भर्तृशुश्रूषा कथं पुत्रादिपालनम् ॥ ५० ॥
पतिरेव हि नारीणां परमं दैवतं भवेत् ।
तासां कथं नु युज्येत देवतोपासनं वद ॥ ५१ ॥
महादेव उवाच
स्त्रीणां दीक्षाग्रहणप्रकारः
व्रमावश्यकमिदं कथ्यते योषितामपि ।
अनुष्ठेयं परस्ताद्वै नियतं पाणिपीडनात् ॥ ५२ ॥
ब्राह्मणीनां हि दीक्षाया ग्रहणं भर्तृतो वरम् ।
भर्त्तर्यशक्ते ग्रहणमन्यतो वा विशिष्यते ॥ ५३ ॥
अब्राह्मणीनां युज्येत भर्तृतो ग्रहणं नहि ।
अब्राह्मणस्य पत्युर्वा नोपदेष्ट्टत्वमिष्यते ॥ ५४ ॥
[[३४]]
पत्न्या भर्तृगुरौ चैव भर्त्रा पत्नीगुरावपि ।
गुरुदृष्टिर्विधेयो स्यादन्यथा पततो ध्रुवम् ॥ ५५ ॥
यतः पत्नी गुरोराज्ञाविधेया भर्तुरप्यतः ।
तस्मादन्यगुरुत्वेऽपि न बाधा योषितो भवेत् ॥ ५६ ॥
गुरुणा ह्युपदिष्टाया नान्यशेषत्वमिष्यते ।
तदन्येन हि भुक्ताया एव स्यादन्यशेषता ॥ ५७ ॥
निजभर्तुर्गुरुत्वेऽपि न दोषो योषितो भवेत् ।
पितृता तस्य गौणी स्यानैव मुख्या भवेद्यतः ॥ ५८ ॥
स एव माता च पिता देव इत्युपचर्यते ।
न तावता भर्तृभार्यासम्बधो बाध्यते ध्रुवम् ॥ ५९ ॥
सङ्कल्पाधिकृतिस्तासां नास्ति स्वर्ग्येषु कर्मसु ।
सिद्धा विमोक्षाधिकृतिर्न निरोद्धुं हि शक्यते ॥ ६० ॥
यथाऽचार्ये पितरि च देवताबुद्धिरुच्यते ।
तथैव भर्तरि प्रोक्ता न सा देवनिषेधिनी ।
ततश्च देवतोपास्तिः शस्ता स्याद्योषितामपि ॥ ६१ ॥
[[३५]]
पतिपत्नीत्वसम्बन्धो न नित्यः कल्पितो हि सः ।
नारीनरत्वादिकमप्यैहजन्मिकमीरितम् ॥ ६२ ॥
नैव स्त्री न पुमानेष नैव चायं नपुंसकः ।
यद्यच्छरीमाधत्ते तेन तेन स लिप्यते ॥ ६३ ॥
नारीत्वमैहिकं वा।पि भार्यात्वं कल्पितं तथा ।
निरुन्धतः कथं तन्व्याः पन्थानं मोक्षगामिनम् ॥ ६४ ॥
देववद्भावितो वाऽपि गुरुवत्सेवितोऽपि वा ।
मदुपास्तिं विना मूर्खस्तारयेत् स कथं सतीम् ॥ ६५ ॥
व्रतमिदं नारीणामप्यनुष्ठेयम्
संसरन् भवकान्तारे निमज्जन् दुःखवारिधौ ।
अतीर्णस्तु स्वयं मूर्खस्तारयेत् स कथं सतीम् ।
तस्मादवश्यं नारीणामनुष्ठेयं व्रतं भवेत् ॥ ६६ ॥
अदीक्षासंस्कृता नारी दीक्षितस्य निजेशितुः ।
न योग्या परिचर्यायै दीक्षिणीया सती ततः ॥ ६७ ॥
अदीक्षासंस्कृता नारी यं यं पाकं करोति च ।
स स नैवार्हति किल पाको मह्यं निवेदितुम् ॥ ६८ ॥
[[३६]]
अदीक्षासंस्कृता नारी परिस्पृशति यज्जलम् ।
अभिषेकक्रियादीनां मम नार्हति तज्जलम् ॥ ६९ ॥
पारतन्त्र्यं हि नारीणामुक्तं स्वर्ग्येषु कर्मसु ।
ऐहिकेष्वपि मोक्षार्थे न स्वातन्त्र्यं विहन्यते ।
तस्मादवश्यं नारीणां दीक्षा देया बुधोत्तमैः ॥ ७० ॥
लिङ्गनिष्ठाऽविरोधेन स्वकृत्यान्यनुपालयेत् ।
न दुष्यते ततो नारी भर्तृशुश्रूषणादिषु ॥ ७१ ॥
पतिं परिचरन्ती च श्वश्व्रादीन् पोषयन्त्यपि ।
पालयन्त्यपि पुत्रादीन् लिङ्गनिष्ठां न विस्मरेत् ॥ ७२ ॥
यथैव बालापत्यायाः कुर्वन्त्या भवनक्रियाः ।
बालायत्तं यथा चित्तं दीक्षितायास्तहोचितम् ।
ततो न गृहकृत्यानि बाधन्ते मदुपासनाम् ॥ ७३ ॥
लिङ्गनिष्ठापरा भूत्वा मन्निष्ठायुक्तचेतसः ।
पत्युः संसेवनाद् भर्त्रा मत्सयुज्यं गमिश्यति ॥ ७४ ॥
देव्युवाच
रजःप्रभवदुष्टायाः प्रसवाशौचसङ्गतेः ।
लिङ्गस्पर्शनपूजाद्याः करणीयाः कथं प्रभो ॥ ७५ ॥
[[३७]]
महादेव उवाच
अर्चा ह्यवसराभिख्या गृहिणीनां तु सम्मता ।
न मन्त्रा वैदिका योग्या योषितां तान्त्रिकाः स्मृताः ॥ ७६ ॥
रजोदोषादीनामप्रवृत्तिः
दीक्षापवित्रिताङ्गत्वाद् लिङ्गस्पर्शो न दुष्यते ।
रजोवत्त्वादिकालेषु कार्या पूजा प्रयत्नतः ।
प्रसवप्रमुखापत्सु पूजाभङ्गो न दोषदः ॥ ७७ ॥
देव्युवाच
वैदिकी वाऽथवा दीक्षा तान्त्रिकी योषितां भवेत् ।
वैदिकी यदि पूजायां मन्त्राः स्युस्तान्त्रिकाः कथम् ॥ ७८ ॥
तान्त्रिकी यदि दम्पत्योदीक्षाभेदः परस्परम् ।
सिद्धस्तयोः कथं नु स्यात् साङ्गत्यं सर्वकर्मसु ।
तमेनं संशयं छिन्धि करुणावरुणालय ॥ ७९ ॥
महादेव उवाच
दीक्षे ह्युभे विकल्पेन युज्येते द्विजयोषिताम् ।
तान्त्रिक्यामधिकारः स्याद्भर्तुं स्त्रीणां स्वतन्त्रतः ॥ ८० ॥
[[३८]]
वैदिकतान्त्रिकदीक्षाविकल्पः
पुमांसमग्रतः कृत्वा वैदिक्यां परतन्त्रतः ।
दीक्षाभेदस्तु दम्पत्योर्न साङ्गत्यनिरोधः ॥ ८१ ॥
अथाधिकारसम्प्राप्तः स्त्रीपुंसोर्धर्मभेदवत् ।
सर्वमुक्तं समासेन किमतः श्रोतुमिच्छसि ॥ ८२ ॥
इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे
शाम्भवदीक्षामाहात्म्यकथनं नाम द्वितीयः पटलः ॥ २ ॥