प्रथमः पटलः
देव्युवाच
देवदेव जगन्नाथ सर्वज्ञ करुणानिधे ।
प्रसन्नात् तत्रभवतो धर्मा नानाविधाः श्रुताः ।
विहिताः पूर्वशैवानां सम्मताः श्रुतिसन्ततेः ॥ १ ॥
भवता हि पुरा प्रोक्तं करुणायन्त्रितात्मना ।
वीरशैवीयधर्मास्तु सर्वधर्मोत्तमा इति ।
तानद्य श्रोतुकामाऽस्मि प्रसन्नो ब्रूह्यशेषतः ॥ २ ॥
महादेव उवाच
साधु पृष्टं त्वया देवि लोकानुग्रहचित्तया ।
हन्त ते कथयिष्यामि धर्मान् शाम्भवसम्मतान् ।
सद्योमुक्तिप्रदानद्य मदीयज्ञानसाधनान् ॥ ३ ॥
शाम्भवव्रतपरिग्रहणम्
यदेतच्छाम्भवं नाम व्रतं श्रुत्यन्तसम्मतम् ।
पुनर्भवप्रहाणाय मुमुक्षुस्तत्समाचरेत् ॥ ४ ॥
[[२]]
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तु वा ।
योषिद्वा परिगृह्णीयात् सद्योमुक्तिं यदीच्छति ॥ ५ ॥
विद्यते नास्य सदृशं वेदेष्वन्येषु वा क्वचित् ।
काङ्क्षेत मुक्तिं यः सद्यः स एतद्व्रतमाचरेत् ॥ ६ ॥
तितीर्षुर्जन्मवाराशिं गुरुपोतं समाश्रयेत् ।
सम्यक् परीक्ष्य वै शिष्यं गृह्णीयाद् देशिकोत्तमः ॥ ७ ॥
निवेदयिष्यन्मज्ज्ञानं दद्यादादौ शिरोव्रतम् ।
अन्यथा गुरुशिष्यौ तौ पततो नरकाम्बुधौ ॥ ८ ॥
अत्याश्रमं पाशुपतं शाम्भवं तच्छिरोव्रतम् ।
इत्येवं नामभिः पुण्यैर्निगमान्तेषु गीयते ॥ ९ ॥
दीक्षात्रयनिर्देशः
तनुत्रयगतानादिमलत्रयमसौ गुरुः ।
दीक्षात्रयेण सन्दह्य लिङ्गत्रयमुपादिशेत् ॥ १० ॥
[[३]]
स्वाग्रे स्थितस्य शिष्यस्य देशिकः करुणानिधिः ।
कुर्याद् दीक्षां महाशैवीमविद्यापाशकृन्तिनीम् ॥ ११ ॥
दीयते लिङ्गसम्बन्धः क्षीयते च मलत्रयम् ।
दीयते क्षीयते यस्मात् सा दीक्षेति निगद्यते ॥ १२ ॥
सा दीक्षा परमा शैवी त्रिधा भवति निर्मला ।
एका वेधात्मिका साक्षादन्या मन्त्रात्मिका मता ।
क्रियात्मिका परा काचिदेवमेव त्रिधा भवेत् ॥ १३ ॥
हस्तमस्तकसंयोगाद् दुष्टेर्वेधेति कीर्यते ।
गुरुणोदीरिता कर्णे सा हि मन्त्रात्मिका भवेत् ।
शिष्यपाणितले दत्ता या दीक्षा सा क्रिया भवेत् ॥ १४ ॥
अत्रैकैकापि विख्याता दीक्षासप्तकशोभिता ।
तत्प्रकारं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा ॥ १५ ॥
[[४]]
मण्डपनिर्माणविधिः
दीक्षयिष्यन्निहाचार्यः शिष्यं पूर्वोक्तलक्षणम् ।
युक्तकाले तदङ्गानि द्रव्याण्याहृत्य यत्नतः ।
मण्डपं कारयेत् सम्यग्वक्ष्ये तल्लक्षणं यथा ॥ १६ ॥
दशभिः सूर्यहस्तैर्वा मनुभिर्नृपहस्तकैः ।
दीक्षार्थं मण्डपं कुर्यात् षोडशस्तम्भसंयुतम् ॥ १७ ॥
एतेषां मण्डपानां च पञ्चहस्तोन्नतिं विदुः ।
चतुरस्रं चतुर्द्वारं चतुस्तोरणभूषितम् ॥ १८ ॥
न्यग्रोधस्तस्य पूर्वस्यां दक्षिणस्यामुदुम्बरः ।
अश्वत्थ उत्तरस्यां च प्लक्षः पश्चिमतो भवेत् ॥ १९ ॥
नवभागैकभागे तु मध्ये वेदीं प्रकल्पयेत् ।
हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥ २० ॥
कुण्डानि कल्पयेत्तत्र नव पञ्चैकमेव वा ।
पूर्वस्मिंश्चतुरश्रं स्याद्वह्नौ पिप्पलपत्रवत् ॥ २१ ॥
अर्धचन्द्रं तु याम्ये स्यान्नैर्-ऋत्यां तु त्रिकोणकम् ।
वृत्तं स्याद्वारणे भागे वायव्ये तु षडश्रकम् ॥ २२ ॥
पद्मं स्यादुत्तरे भागे चैशान्यामष्टकोणकम् ।
स्यादीशानेन्द्रयोर्मध्ये वृत्तं वा चतुरश्रकम् ॥ २३ ॥
इन्द्रादिसोमकाष्ठान्तमैशान्यां च प्रकल्पयेत् ।
चतुरश्रार्धचन्द्रे च वृत्तं पद्मं च वर्तुलम् ॥ २४ ॥
एकाग्निवेदिका पूर्वे चोत्तरे पश्चिमेऽपि वा ।
ईशान्यां चतुरश्रं वा वृत्तं वाऽपि प्रकल्पयेत् ॥ २५ ॥
स्थण्डिलं वाऽथ कुर्वीत हस्तमात्रप्रमाणकम् ।
सिकताभिर्मृदा वाऽपि गुणाङ्गुलमितोन्नतिम् ।
मण्डपं रचयित्वैवं ध्वजाद्यैस्तं विभूषयेत् ॥ २६ ॥
मुक्ताजालवितानैश्च फलपल्लवपङ्कजैः ।
रम्भाभिर्दर्भमालाभिर्दर्पणैर्धूपवर्तिभिः ॥ २७ ॥
तत्र गौरीलतालिङ्गमण्डलं विलिखेद् बुधः ।
पञ्चवर्णयुतैश्चूर्णैरथवा शुभ्रवर्णकैः ॥ २८ ॥
दीक्षाविधानम्
स्नातः सभस्मरुद्राक्षः सकलीकृतविग्रहः ।
गुरुर्माहेश्वरैः सार्धं प्राप्य मण्डपमस्य तु ॥ २९ ॥
[[६]]
द्वाराण्यस्त्रेण सम्प्रोक्ष्य तानि चत्वारि चार्चयेत् ।
ॐ हां शान्तिकलाभिख्यद्वाराय नम इत्यपि ।
ॐ हां विद्याकलाभिख्यद्वाराय नम इत्यपि ॥ ३० ॥
हां निवृत्तिकलाभिख्यद्वाराय नम इत्यपि ।
हां प्रतिष्ठाकलाभिख्यद्वाराय नम इत्यपि ।
पूर्वादीनि समभ्यर्च्य ततस्तच्छाखयोर्न्यसेत् ॥ ३१ ॥
नन्दिनं च महाकालं भृङ्गिणं च विनायकम् ।
वृषं स्कन्दं तथा देवं चण्डं द्वौ द्वौ चतुर्ष्वपि ॥ ३२ ॥
तालत्रितयमस्त्रेण कृत्वा वामाङ्घ्रिपार्ष्णितः ।
घात्रत्रयं तथा कृत्वा विघ्नानुत्सार्य यत्नतः ॥ ३३ ॥
द्वाराण्यस्त्रेण तूद्घाट्य प्रतीचीद्वारतो बुधः ।
अन्तः प्रविश्य यागोपकरणान्यवलोक्य च ॥ ३४ ॥
अस्त्रप्राकारावृतश्च कवचेनावगुण्ठितः ।
सुखासने तूपविशेत् कुशादिपरिकल्पिते ॥ ३५ ॥
ततः स शिष्यस्ताम्बूलदक्षिणाभस्मसंयुतम् ।
पात्रं गृहीत्वा प्रब्रूयादेवं सद्गुरुसन्निधौ ॥ ३६ ॥
[[७]]
संसाराम्बुधिनिर्मग्नं जन्मग्राहभयाकुलम् ।
मृत्युपाशवशं दीनं कृपयाऽनुगृहाण माम् ।
इति विज्ञाप्य तत्पात्रं संस्थाप्याग्रेऽभिवादयेत् ॥ ३७ ॥
गुरुस्तत्पात्रमानीय निक्षिप्य गणमध्यके ।
परिगृह्य गणानुज्ञामुपविश्यासने पुनः ॥ ३८ ॥
दीक्षयिष्यन्निहाचार्यो देशकालौ निगद्य च ।
गणेशपूजनं कुर्यात् स्वस्तिपुण्याहवाचनम् ॥ ३९ ॥
पुनर्गणान्नमस्कृत्य देशकालौ प्रकीर्त्य च ।
देहत्रयगतानादिमलत्रयनिवृत्तये ॥ ४० ॥
लिङ्गत्रयानुसन्धानयोग्यतावाप्तयेऽपि च ।
षडध्वशुद्धिपूर्वेण शाम्भवेन व्रतेन ॥ ४१ ॥
सप्तविधा दीक्षा
दीक्षयिष्य इमं शिष्यं शक्तिपातविधानतः ।
इति सङ्कल्प्य दद्याच्च सप्त दीक्षाः क्रियान्तराः ॥ ४२ ॥
आज्ञोपमा च कशाभिषेकाख्या ततः परम् ।
स्वस्तिकारोहणं भूतिपट्टमायत्तमेव च ।
स्वायत्तमिति सप्तैताः क्रियादीक्षान्तरा मताः ॥ ४३ ॥
[[८]]
परित्यज्य सदाचारं मा प्रवर्तस्व सर्वदा ।
इत्याज्ञादीक्षयाऽदिश्य ततस्त्वेवं वदेद् गुरुः ॥ ४४ ॥
पुरातनकृताचारसदृशं कुर्विति स्फुटम् ।
उपमादीक्षयाऽदिश्य शिष्यपापापनुत्तये ।
प्राणानायम्य विधिवत् पञ्चगव्यानि साधयेत् ॥ ४५ ॥
श्रीपञ्चकलशार्थं तु ऋत्विजि वृणुयाद् गुरुः ।
चतुर्णां चतुराचार्या मध्यस्य च स्वयं भवेत् ॥ ४६ ॥
आवाहयेच्च कलशे मध्ये त्वीशानमग्रतः ।
सद्योजातं च पूर्वस्मिन् वामदेवं तु दक्षिणे ॥ ४७ ॥
उत्तरे तत्पुरुषं च अघोरं चाथ पश्चिमे ।
तत्तन्मन्त्रैः समावाह्य पूजयेत्तदनन्तरम् ॥ ४८ ॥
[[९]]
जलाधिवासनम्
मण्डपोत्तरदिग्भागे मण्डलं परिकल्प्य तु ।
शिवलिङ्गं समुद्धृत्य पञ्चसूत्रोपलक्षितम् ॥ ४९ ॥
ताम्रपात्रे विनिक्षिप्य देशकालौ प्रकीर्त्य च ।
घर्षणादिक्रियाजातजातदोषोपशान्तये ॥ ५० ॥
हिरण्यशृङ्गप्रमुखैरनुवाकैरनुक्रमात् ।
शिवलिङ्गं स्नापयामीत्यभिषिञ्चेदनन्तरम् ॥ ५१ ॥
पञ्चगव्येन सिद्धेन शुद्धैः पञ्चामृतैरपि ।
अभिषिञ्चेदिष्टलिङ्गं पञ्चब्रह्ममनूत्तमैः ॥ ५२ ॥
[[१०]]
शुद्धोदकेन तल्लिङ्गं पुनः संस्नाप्य देशिकः ।
पात्रान्तरे विनिक्षिप्य नैर्-ऋते पद्ममण्डले ।
निक्षिप्य गन्धपुष्पाद्यैरर्चयेद् देशिकोत्तमः ॥ ५३ ॥
ततः शाणादिसङ्घर्षजाततापोपशान्तये ।
वारुणे मण्डले प्रस्थमितपानीयपूरिते ॥ ५४ ॥
ताम्रपात्रे तु निक्षिप्य तल्लिङ्गं वस्त्रवेष्टितम् ।
जलाधिवासनं कुर्यादब्लिङ्गैर्मनुभिस्ततः ॥ ५५ ॥
जलादुत्तार्य तल्लिङ्गं स्नानपात्रे निधाय वै ।
तत्पात्रं तु विनिक्षिप्य मण्डले वायुकोणगे ॥ ५६ ॥
पञ्चगव्येन च तथा भस्मना गन्धवारिभिः ।
तदुक्तमन्त्रैः संस्नाप्य लिङ्गमुद्वर्त्य वाससा ॥ ५७ ॥
पात्रान्तरे विनिक्षिप्य तत्पात्रं सोममण्डले ।
निधाय गन्धपुष्पाद्यैरर्चयेद् देशिकस्ततः ॥ ५८ ॥
धान्याधिवासनम्
सप्तधातुस्फूर्तये तु कुर्याद्धान्याविधिवासनम् ।
तद्विधानं प्रवक्ष्यामि शृणु देवि समासतः ॥ ५९ ॥
[[११]]
दक्षिणे मण्डले प्रस्थप्रमितैः शालिभिः क्रमात् ।
तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैस्तथा ॥ ६० ॥
उपर्युपरि विन्यस्य स्थण्डिलानि प्रयत्नतः ।
दर्भैराच्छाद्य तल्लिङ्गं प्राक्छिरस्कमधोमुखम् ॥ ६१ ॥
तत्र निक्षिप्य गन्धादीन् दर्भांस्तत्पुरुषेण तु ।
लिङ्गे निक्षिप्य तस्याष्टदिक्षुकुम्भान् विनिक्षिपेत् ॥ ६२ ॥
अष्टविद्येश्वरांस्तेषु चावाह्य परिपूज्य च ।
वस्त्रैराच्छाद्य कुर्वीत शिवाग्निमुखमप्यथ ॥ ६३ ॥
शयनाल्लिङ्गमुद्धृत्य वह्निदिग्गतमण्डले ।
संस्थाप्य रुद्रसूक्तेन संस्नाप्य तदनन्तरम् ।
मण्डले पूर्वदिक्संस्थे निक्षिप्य च समर्चयेत् ॥ ६४ ॥
पुनस्तल्लिङ्गमादाय मण्डले त्वीशकोणगे ।
पात्रान्तरे विनिक्षिप्य पञ्चरुद्रैस्तु स्नापयेत् ।
धान्याधिवासकलितमण्डलीकलशोदकैः ॥ ६५ ॥
[[१२]]
अध्वन्यासादिविधिः
ततः शिवकलावाहनार्थं कुर्याद् यथाविधि ।
अध्वन्यासान् षडप्यत्र लिङ्गे सङ्कल्प्यपूर्वकम् ॥ ६६ ॥
भुवनाभिख्यमध्वानं पट्टिकायामधो न्यसेत् ।
तत्कञ्जे तु पदाध्वानं वर्णाध्वानं च मध्यके ॥ ६७ ॥
ऊर्ध्वकञ्जे कलाध्वानं पट्टिकायां तथा पुनः ।
तत्त्वाध्वानं च विन्यस्येत्तत आज्यप्रघारिके ।
मन्त्राध्वानं च विन्यस्य गन्धाद्यैरभिपूजयेत् ॥ ६८ ॥
अग्न्यादिस्थापनम्
तत्कलास्थैर्यसिद्ध्यर्थं होमं कुर्याद् विचक्षणः ।
चतुर्विंशत्युत्तरत्रिशतसङ्ख्यायुतेन च ।
पञ्चाक्षरेण मनुना सतारेण तथा पुनः ॥ ६९ ॥
प्रधानकुण्डे जुहुयाद् व्याहृतीभिर्घृतेन तु ।
जयादिभिश्च जुहुयादग्निं रक्षेदनन्तरम् ॥ ७० ॥
शिष्यं समाह्वयन् सौम्यं सौम्यात्रोपविशेति च ।
कूर्मासनोपरिगते कुशादिपरिकल्पिते ॥ ७१ ॥
[[१३]]
आसने समुपावेश्य पञ्चब्रह्ममनूत्तमैः ।
करन्यासं विधायादौ प्राणसन्धारणादिभिः ।
विशोध्य देहं तदनु विदध्याद् भूतशोधनम् ॥ ७२ ॥
सकलीकरणं कुर्याच्छिष्यदेहस्य देशिकः ।
पञ्चगव्येन तस्याथ कुर्यादन्तर्विशोधनम् ॥ ७३ ॥
अथ शिष्यस्याभिषेकदीक्षां दद्याद् गुरूत्तमः ।
अनादिभवसम्पन्नसर्वदोषोपशान्तये ॥ ७४ ॥
पञ्चकुम्भोदकैः शुद्धैः शिष्यं संस्नापयेदपि ।
पञ्चतत्त्वविशुद्ध्यर्थं पञ्चब्रह्ममनून् जपन् ॥ ७५ ॥
पञ्चकुम्भेषु घटितं सूत्रमुद्धृत्य देशिकः ।
विश्वेत्तातेति तद्धस्ते बध्नीयात् कङ्कणं ततः ॥ ७६ ॥
षडध्वशोधनम्
षडध्वशोधनद्वारा मांसपिण्डनिवृत्तये ।
स्वस्तिकारोहणाभिख्यां दीक्षां दद्याद्यथाविधि ॥ ७७ ॥
संहारक्रमतो विद्वान् शब्दार्थात्मषडध्वनः ।
पादादिषु तु विन्यस्येच्छिष्यस्य नियतात्मनः ॥ ७८ ॥
[[१४]]
वर्णाध्वानं शब्दरूपं विन्यस्येत् पादयोर्बुधः ।
अर्थरूपं कलाध्वानं मेढ्रे न्यस्येदनन्तरम् ॥ ७९ ॥
शब्दरूपं पदाध्वानं नाभौ विन्यस्य देशिकः ।
तत्त्वाध्वानं त्वर्थरूपं हृदि न्यस्येदतन्द्रितः ॥ ८० ॥
मन्त्राध्वानं शब्दरूपं विन्यस्यैवं मुखे तथा ।
अर्थरूपं च भुवनाध्वानं न्यस्येच्छिरस्यपि ॥ ८१ ॥
पादादिषु शिखान्तेषु षट्सु स्थानेषु संयतः ।
षडक्षराणि विन्यस्य षड्वारं देशिकस्ततः ॥ ८२ ॥
भूतिरुद्राक्षधारणम्
अनादिमलसंहृत्यै भूतिपट्टाख्यदीक्षया ।
स्नानमुद्धूलनं भूत्या धारणं चापि कारयेत् ।
ततः शिखादिस्थानेषु रुद्राक्षान् धारयेत् क्रमात् ॥ ८३ ॥
रुद्राक्षमेकं सम्मन्त्र्य सम्पूज्य च यथाविधि ।
शिष्यस्य दक्षिणे हस्ते बध्नीयाद् बन्धमुक्तये ॥ ८४ ॥
शिष्यस्य देहस्थाणवादिमलत्रयनिवृत्तये ।
चतुर्विंशत्युत्तरत्रिशतसङ्ख्या युतेन तु ।
पञ्चाक्षरेण जुहुयात् सतारेण घृतेन वै ॥ ८५ ॥
[[१५]]
हुत्वा व्याहृतिभिश्चैव जयादिभिरपि क्रमात् ।
पूर्णाहुतिं विधायाग्निं शिष्यहृत्सरसीरुहे ।
संहारमुद्रयाऽरोप्य पिदध्यान्मण्डलद्वयम् ॥ ८६ ॥
रुद्रादिक्षेत्रपालान्तं बलिं तत्पूर्वमण्डले ।
द्वितीये च महेन्द्रादिमहेशान्तं बलिं क्षिपेत् ।
अनन्तरं गुरुर्दद्याद् दीक्षामायत्त्तसञ्ज्ञिताम् ॥ ८७ ॥
आयत्तदीक्षा स्वायत्तदीक्षा च
मध्यमण्डलनिक्षिप्तं सूत्रपञ्चकलक्षितम् ।
शान्तेश्वराभिधं सर्वमन्त्रन्यासोपशोभितम् ॥ ८८ ॥
इष्टलिङ्गं समादाय वामहस्तेऽभिपूज्य च ।
सौम्यैतल्लिङ्गमीक्षस्वेतीष्टलिङ्गं प्रदर्शयेत् ॥ ८९ ॥
गुर्वन्तेवासिनोर्मध्ये ग्राहयित्वा पटं तदा ।
चूर्णिकामङ्गलध्वानैः पठेयुर्मङ्गलाष्टकम् ॥ ९० ॥
ततो माहेश्वरैः सार्धं शिष्यमुद्दिश्य देशिकः ।
अङ्गत्रयेऽपि दृढतो लिङ्गवान् भव सर्वदा ॥ ९१ ॥
[[१६]]
इति ब्रुवन् जवनिकां वर्जयन् शिश्यमूर्धनि ।
ध्रुवं त इति मन्त्रेण निक्षिपेन्मङ्गलाक्षतान् ॥ ९२ ॥
उत्तराभिमुखं शिष्यं वामभागे निजासने ।
निवेशयन् तस्य दद्याद् दीक्षां स्वायत्तसञ्ज्ञिताम् ॥ ९३ ॥
वस्त्रेणाच्छादयन् शिष्यमात्मानं च गुरुस्तदा ।
वामहस्तं तु शिष्यस्य मूलेनैवाभिमन्त्र्य च ॥ ९४ ॥
सप्तवारं सुसम्पूज्य स्ववामकरसंस्थितम् ।
निक्षेपत्तत्र तल्लिङ्गं त्रियम्बकमनुं स्मरन् ।
ततः सप्तापि दद्याच्च दीक्षास्ताः समयादिकाः ॥ ९५ ॥
सप्तविधा दीक्षा
आद्या समयसञ्ज्ञा स्यान्निःसंसारा द्वितीयका ।
निर्वाणाख्या तृतीया स्यात् तत्त्वसञ्ज्ञा चतुर्थिका ॥ ९६ ॥
पञ्चमाध्यात्मसञ्ज्ञा स्यात् षष्ठी तत्त्वविशोधिनी ।
सप्तमी तत्त्वबोधा स्याद् वेधादीक्षान्तरा इमाः ॥ ९७ ॥
समयदीक्षा
प्राणानायम्य च गुरुः सप्तेमाः समयादिकाः ।
करिष्य इति सङ्कल्प्य तन्मूर्धानं समर्च्य च ॥ ९८ ॥
[[१७]]
षडक्षरेण मनुना हस्तं स्वस्य च दक्षिणम् ।
षड्वारमभिमन्त्र्याथ शिवहस्तं विभाव्य च ।
तं शिष्यशिरसि न्यस्य पठेदेकाग्रमानसः ॥ ९९ ॥
अयं मे हस्तम् इत्येवं मन्त्रं शिष्यं विलोकयन् ।
भो शिष्येति च सम्बोध्य ब्रूयादेवं विचक्षणः ॥ १०० ॥
हित्वा बन्धुजने प्रीतिं तां भक्तेषु स्थिरां कुरु ।
एवं समयमादिश्य निःसंसारां निबोधयेत् ॥ १०१ ॥
निःसंसारा दीक्षा
देहेन्द्रियादिसंसारं परिहृत्य सदा मम ।
पूजोपचारः संसार इति भावय चेतसि ।
इत्यादिश्य च दयाच्च दीक्षां निर्वाणसञ्ज्ञिताम् ॥ १०२ ॥
निर्वाणदीक्षा
मलत्रयसमुद्भूते तापत्रयभयाकुले ।
दुरन्ते दुर्भवोपान्ते मनो न कुरु यत्नतः ।
इति निर्वाणमादिश्य दद्यात् तत्त्वाभिधायिनीम् ॥ १०३ ॥
[[१८]]
तत्त्वदीक्षा
लिङ्गाङ्गतत्त्वे विज्ञाय लिङ्गसायुज्यवान् भव ।
उपदिश्यैवमथ च दद्यादध्यात्मसञ्ज्ञिताम् ॥ १०४ ॥
अध्यात्मदीक्षा
प्राणे लिङ्गं प्रतिष्ठाप्य लिङ्गे प्राणं निधाय च ।
लिङ्गं निरीक्षमाणः सन् लिङ्गप्राणी सदा भव ।
आदिश्यैवं ततो दद्यात् तत्त्वसंशोधनात्मिकाम् ॥ १०५ ॥
तत्त्वसंशोधनदीक्षा
शब्दादीन् विषयान् सर्वांस्तत्तदिन्द्रियगोचरान् ।
आचारलिङ्गमुख्येभ्यः षड्लिङ्गेभ्यः समर्पयेत् ॥ १०६ ॥
तत्त्वबोधाख्या दीक्षा
वर्तस्व शुद्धधीर्नित्यं प्रयतोऽपि जितेन्द्रियः ।
उपदिश्यैवमपि च दद्यात् तत्त्वोपदेशिनीम् ।
दद्याद्दीक्षां विधानज्ञः कृपापरवशो गुरुः ॥ १०७ ॥
सच्चित्सुखनिजाकारं लिङ्गं यद् ब्रह्मसञ्ज्ञितम् ।
तदसि त्वमुपास्वातस्तदेवाहमिति ध्रुवम् ।
बोधाख्यया दीक्षयैवं शिष्यमादिश्य देशिकः ॥ १०८ ॥
[[१९]]
सप्तविधा मन्त्रदीक्षा
प्राणानायम्य च गुरुर्मनुदीक्षाचिकीर्षया ।
सप्त चैकाग्रचित्ताद्या दद्याद् दीक्षा अनुक्रमात् ॥ १०९ ॥
तत्रैकाग्रमतिस्त्वाद्या द्वितीया तु दृढव्रता ।
पञ्चेन्द्रियार्पणाभिख्या तृतीया परिकीर्तिता ॥ ११० ॥
अहिंसाख्या तुरीया स्याल्लिङ्गनिष्ठा तु पञ्चमी ।
अनन्तरा विनिर्दिष्टा षष्ठी लिङ्गमनोलया ।
सप्तमी तु समाख्याता सद्योमुक्तिसमाह्वया ॥ १११ ॥
तत्स्वरूपं प्रवक्ष्यामि शृणु देवि समासतः ।
इष्टलिङ्गात् परं वस्तु शिष्य त्वं नावलोकय ।
इत्येकाग्रमतिं दत्वा दीक्षां दद्याद् दृढव्रताम् ॥ ११२ ॥
शरीरपातपर्यन्तं न जहीहि व्रतान्यपि ।
दृढव्रतामिति प्रोक्त्वा दद्यात् पञ्चेन्द्रियार्पणाम् ॥ ११३ ॥
सत्यहं मत्पतिर्लिङ्गमिति निश्चित्य चेतसि ।
सदा तनुमनोभावानिष्टादिभ्यः समर्पय ।
इत्यादिश्य ततो दद्यादहिंसासञ्ज्ञितां गुरुः ॥ ११४ ॥
[[२०]]
सर्वाणीमानि भूतान्यप्यात्मवत् परिभावयन् ।
मा हिंसीरित्युपादिश्य लिङ्गनिष्ठामुपादिशेत् ॥ ११५ ॥
आदिमध्यान्तरहितं लिङ्गं यद् ब्रह्मसञ्ज्ञितम् ।
तन्निष्ठो भव सद्बुद्ध इत्युपादिश्य सद्गुरुः ।
दीक्षामुपदिशेद् भूयो लिङ्गरूपमनोलयाम् ॥ ११६ ॥
लिङ्गरूपमभिध्यायन्नमनस्कश्चिरं भव ।
इत्यादिश्य पुनर्दद्यात् सद्योमुक्तिसमाह्वयाम् ॥ ११७ ॥
मन्त्रोपदेशविधिः
मदुक्तार्थे स्थिरमतिः प्रवर्तस्व विसंशयः ।
इति सम्बोध्य स गुरुर्मन्त्रद्वयमिदं पठेत् ।
प्राणेष्वन्तरिति स्पष्टं शिवेन वचसेति च ॥ ११८ ॥
शिष्यस्य दक्षिणे कर्णे षडक्षरमनुं शनैः ।
त्रिवारमुपदिश्यैवं भावितां मनुदीक्षया ॥ ११९ ॥
शैवीं कलां स्वमनसा विभाव्य च ततः परम् ।
दृष्टावानीय च तया शिष्यवामकरस्थिते ।
लिङ्गे निवेशयेत् क्षिप्रं मूलमन्त्रमनुस्मरन् ॥ १२० ॥
[[२१]]
यथा कला तथा भावो यथा भावस्तथा मनः ।
यथा मनस्तथा दृष्टिर्यथा दृष्टिस्तथा स्थलम् ॥ १२१ ॥
जलकुम्भाग्रसद्व्याप्ततैलबिन्दुर्यथा तथा ।
देहप्राणात्मसुव्याप्ता संस्थिता शाम्भवी कला ॥ १२२ ॥
ज्वलत्कालानलाभासा तटित्कोटिसमप्रभा ।
तस्योर्ध्वे तु शिखा सूक्ष्मा चिद्रूपा परमा कला ॥ १२३ ॥
या कला परमा सूक्ष्मा तत्त्वानां बोधिनी परा ।
तामाकृष्य यथान्यायं लिङ्गे समुपवेशयेत् ।
प्राणप्रतिष्ठामन्त्रं च मूलमन्त्रं पथेदपि ॥ १२४ ॥
अथास्मिन् संस्कृते लिङ्गे सुस्थिरो भव सर्वदा ।
किञ्च भक्तैकगात्रस्त्वं भवेत्यभ्यर्थयेच्च माम् ॥ १२५ ॥
मा भूया भौतिकप्राणी लिङ्गप्राणी भवेति च ।
शिष्यमादिश्य दद्याच्च पादतीर्थप्रसादकौ ॥ १२६ ॥
[[२२]]
भूयोऽप्युपदिशोच्छिष्यं सद्गुरुः करुणानिधिः ।
माहेश्वरान् गुरुं लिङ्गं सम्यगर्चय नित्यशः ॥ १२७ ॥
अष्टस्वावरणेषु त्वं श्रद्धां कुरु प्रयत्नतः ।
प्रवर्तस्व महाबुद्धे पञ्चाचारेष्वपि क्रमात् ॥ १२८ ॥
अङ्गलिङ्गप्रतिष्ठादीक्षा
इति सम्बोध्य भूयोऽपि प्राणानायम्य देशिकः ।
अङ्गलिङ्गप्रतिष्ठाख्यां दीक्षां शिष्यस्य धीमतः ॥ १२९ ॥
करिष्।य इति सङ्कल्प्य लिङ्गं बद्ध्वा सुवासा ।
नमो ब्रह्मण इत्येतं धृतिमन्त्रं समुच्चरन् ॥ १३० ॥
शिष्यस्य कण्ठे हस्ते वा बध्नीयात् तदनन्तरम् ।
गुर्वन्तेवासिनोर्वास आच्छादकमनूत्सृजेत् ॥ १३१ ॥
शिष्यकर्तव्यनिर्देशः
गुरवेऽथ स शिष्यसु प्रणामत्रयमाचरेत् ।
गोभूम्याद्यैर्महादानैर्देशिकं परितोषयेत् ॥ १३२ ॥
सद्योमुक्तिप्रदमेतद् व्रतम्
अयि प्रोक्तं मया देवि सद्योमुक्तिप्रदं व्रतम् ।
शृणु वेदेष्वनन्तेषु विस्तृतेष्वागमेषु च ।
नातः परतरं किञ्चिद्विद्यते मोक्षसाधनम् ॥ १३३ ॥
श्रौतस्मार्तसदाचारपरस्यानन्तजन्मसु ।
चित्तशुद्ध्या भवेद् भक्तिरन्यदेवसमाश्रया ॥ १३४ ॥
अन्यदेवार्चनव्यग्रचेतसोऽनन्तजन्मसु ।
देवान्तरप्रसादेन मयि भक्तिः प्रजायते ॥ १३५ ॥
मदर्चनपरस्यापि देहिनो बहुजन्मसु ।
लभ्यते मत्प्रसादेन कस्याप्यन्तिमजन्मनः ॥ १३६ ॥
व्रतमहिमा
देशिकस्य प्रसादेन येन लब्धमिदं व्रतम् ।
न तं मायाऽनुबध्नाति न स भूयोऽभिजायते ॥ १३७ ॥
गुरुबोधाग्निना दग्धा यस्य पाशा ह्यशेषतः ।
तस्य निर्दग्धबन्धस्य पुनर्बन्धः कथं भवेत् ॥ १३८ ॥
गुरुकारुण्यपीयूषरसास्वादविनोदिनः ।
अमृतस्यास्य निकटं कथं मृत्युः प्रयास्यति ॥ १३९ ॥
[[२४]]
गुरुदत्तपरज्ञानप्रकाशविलसद्दृशः ।
भास्वतस्तस्य तु तमः सकाशां कथमेष्यति ॥ १४० ॥
अनवध्यस्मदानन्दतुन्दिलस्य महामतेः ।
विदुषो नित्यतृप्तस्य कथं शोको भविष्यति ॥ १४१ ॥
श्रुतौ यस्य मदीयोक्तौ विश्वासः परमो भवेत् ।
स एवात्राधिकारी स्यान्नान्यो मोक्षाय कल्पते ॥ १४२ ॥
इति देवि मयाप्रोक्तं शाम्भवव्रतलक्षणम् ।
गोपनीयं प्रयत्नेन किमतः श्रोतुमिच्छसि ॥ १४३ ॥
इति श्रीकारणगमे उत्तभागे पार्वतीपरमेश्वरसंवादे क्रियापादे
महापाशुपतविधिर्नाम प्रथमः पटलः ॥ १ ॥