१०५ सौरस्थापनपटलः

सौरस्थापनपटलप्रारम्भः
सर्वाभीष्टप्रदञ्चैव सौरस्थापनमुत्तमम्
द्विभुजञ्च द्विनेत्रञ्च किरीटमकुटान्वितम् ॥ १ ॥

मकुटान्तं कण्ठमूलात्प्रभामण्डलमण्डितम्
गण्डौ ताटङ्कसंयुक्तं रक्तवर्णं तथैव च ॥ २ ॥

सनलोब्जकरोपेतं कंसासक्तसमन्वितम्
समपादस्थितं पद्मे रक्तवस्त्रैरलङ्कृतम् ॥ ३ ॥

महापरिस्थञ्च द्वारस्य सव्यपार्श्वेके
अथवा वामपार्श्वे तु सौरालयं प्रकल्पयेत् ॥ ४ ॥

षोडशस्तम्भसंयुक्तं चतुर्द्वारसमन्वितम्
मद्ध्ये वेदिं प्रकल्प्याथ पञ्चकुण्डं प्रकल्पयेत् ॥ ५ ॥

अथवा एककुण्डं वा मेखलात्रयमुत्तमम्
मद्ध्ये दशघटं स्थाप्य सप्तधान्योपरिन्यसेत् ॥ ६ ॥

घटमेकं न्यसेदीशे एकं न्यस्त्वा तु पार्श्वके
नयनोन्मीलनं पूर्वं जलाधिवासनं परम् ॥ ७ ॥

शयनारोपणं पश्चात् घटे सम्पूजयेत्ततः
प्रणवं पूर्वमुच्चार्य हामित्यादि ततः परम् ॥ ८ ॥

मायाबीजं ततः पश्चात्सकारन्तु ततः परम्
हकारन्तु ततः पश्चात् शिवसूर्यमतः परम् ॥ ९ ॥

चतुर्त्थ्यन्तं नमोन्तञ्च मूलमन्त्रमिहोच्यते
मूलेन रविमावाह्य प्रथमावरणं यजेत् ॥ १० ॥

तृतीयावरणे पूज्य होमादीन्सम्प्रपूजयेत्
गणेशमीशदिग्भागे गुरुमाग्नेयके पुरा ॥ ११ ॥

होमकर्मसमाराद्ध्य पूर्वोक्तविधिना हुनेत्
त्रिखण्डं होमयेत्पश्चात्तत्त्वतत्त्वेश्वरान्न्यसेत् ॥ १२ ॥

सुमुहूर्ते सुलग्ने च अभिषिच्य विशेषतः
स्नपनं कारयेत्पश्चात् हविर्दत्वा विशेषतः ॥ १३ ॥

ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ १४ ॥

इति सौरस्थापनपटलः पञ्चोत्तरशततमः
उत्तरकारणागमः सम्पूर्ण आसीत्