महाभिषेकपटलप्रारम्भः
महाभिषेकं वक्ष्यामि श्रुणुष्व च षडानन
अयने विषुवे चैव अन्यत्सञ्ज्ञं दिनेऽपि च ॥ १ ॥
वैशाखपौर्णिमायान्तु आर्द्रायां मृगशीर्षके
सोमवारे कुहूप्राप्ते गुरुभौमदिनैस्सह ॥ २ ॥
आषाढे पुष्यमासे तु अमावास्यादिनेऽपि वा
तस्मिन्मासे पुष्यऋक्षे तत्काले वृषलग्नके ॥ ३ ॥
फाल्गुने चोत्तरे चैव ज्येष्ठायां मूलऋक्षके
कार्तिके होमवारे तु तन्मासे वह्निऋक्षके ॥ ४ ॥
पूर्वाषाढे प्रोष्ठपदे चन्द्रसूर्योपरागके
महालये व्यतीपाते अर्द्धोदयमहोदये ॥ ५ ॥
अन्यत्पुण्यदिने चैव मनस्सन्तुष्टिकालके
यजमानस्य नक्षत्रे राज्ञां जन्मदिनर्क्षके ॥ ६ ॥
अभिषेकन्तु यः कुर्यात् अमोघफलदं भवेत्
सर्वशत्रुक्षयकरं सर्वव्याधिनिवारणम् ॥ ७ ॥
क्षयापस्मारकुष्ठादि महारोगनिवारणम्
जयार्त्थी जयमाप्नोति धनार्त्थी धनमाप्नुयात् ॥ ८ ॥
पुत्रार्त्थी लभते पुत्रान्मोक्षार्त्थी मोक्षमाप्नुयात्
वर्षहीनस्य तत्काले महावर्षं भविष्यति ॥ ९ ॥
आचार्योबुद्धिमान्प्राज्ञः आगमार्त्थविशारदः
दीक्षात्रयसमोपेतः शिल्पशास्त्रसमन्वितः ॥ १० ॥
अध्वन्यासजपामार्गासने च कृतविग्रहः
स्वार्त्थमात्मार्त्थपूजादि परार्त्थशिवपूजकः ॥ ११ ॥
सामान्यार्घ्यसमोपेतं भूतिरुद्राक्षधारकः
प्राणायामादिनियमैः प्लावनादित्रयन्तथा ॥ १२ ॥
आवाहनादिसामर्त्थ्यं महाजालप्रयोगतः
मन्त्रसामर्त्थ्यनिरतः वास्तुनिर्णयबोधकः ॥ १३ ॥
आचार्यलक्षणैर्युक्तः पुत्रवानग्निमान्बुधः
नित्यं नैमित्तिकं काम्यं तन्त्रसामर्त्थ्यबोधकः ॥ १४ ॥
वैदिकश्शान्तचित्तात्मा वेदाद्ध्ययनतत्परः
अग्निष्टोमादिनिरतः शिवदीक्षा परायणः ॥ १५ ॥
शिवदीक्षाविहीनस्तु सर्वज्ञस्तु सनिन्दितः
सात्विकः पुत्रवान्पूज्यो भस्मरुद्राक्षधारकः ॥ १६ ॥
सर्वशास्त्रार्त्थतत्वज्ञः परिक्षितद्विजोत्तमः
श्रीरुद्रन्नमकञ्चैव चमकं रुद्रसङ्ख्यया ॥ १७ ॥
रुद्रसङ्ख्या जपेच्चैव महान्न्यासपुरस्सरः
रुद्राभिषेकः कर्तव्यः उत्तमो मद्ध्यमाधमः ॥ १८ ॥
अतिरुद्रस्य सङ्ख्या च शतसङ्ख्या दशद्विजः
सहस्रशतसङ्ख्या च महारुद्रं जपेत् द्विजः ॥ १९ ॥
आलयाग्रे विशेषेण मण्टपं चतुरश्रकम्
गोमयालेपनं कृत्वा विष्टचूर्णैरलङ्कृतम् ॥ २० ॥
नानालङ्कारसंयुक्तं चतुस्तोरणभूषितम्
सर्वद्रव्य समायुक्तं वाद्यघोषसमन्वितम् ॥ २१ ॥
गणेशं पूजयेत्पूर्वं गुरुपूजा पुरस्सरम्
पुण्याह वाचनं कृत्वा स्थापयेत्पञ्चगव्यकम् ॥ २२ ॥
तन्मद्ध्ये वेदिकां कृत्वा तत्पूर्वे त्वेकवेदिकाम्
नीवारमुत्तमं प्रोक्तम् अष्टद्रोणैश्च शालिभिः ॥ २३ ॥
तदर्द्धन्तण्डुलञ्चैव तदर्द्धं तिलसंयुतम्
तदर्द्धं लाजसंयुक्तं स्थण्डिलोपरिकल्पयेत् ॥ २४ ॥
द्वात्रिंशत्प्रस्थसम्पूर्णं स्वर्णं वा रजतन्तु वा
ताम्रं वा कन्न्यसं प्रोक्तं कुम्भं सङ्गृह्य बुद्धिमान् ॥ २५ ॥
परिवारघटञ्चैव आढकेन तु पूरितम्
तत्समं वर्द्धनीञ्चैव उत्तमन्तु विधीयते ॥ २६ ॥
स्वर्णकुम्भन्तु सङ्गृह्य पञ्चसूत्रेण वेष्टयेत्
आवाहनादिपूजान्तं कामिकोक्तविधानतः ॥ २७ ॥
कुम्भं संस्थापयेत्पश्चात् वर्द्धनीं पूजयेत्ततः
अनन्तादिशिखण्ड्यन्तं प्रत्येकं पूजयेत् बुधः ॥ २८ ॥
तदग्रे तु शिवं पूज्य शतलिङ्गं विशेषतः
गौरी तिलकमथवा पञ्चावरणसंयुतम् ॥ २९ ॥
तदग्रे कुण्डनिर्माणम् अग्निकार्योक्तमार्गतः
अग्न्याधानादिकं सर्वं विवाहान्तं सुपूजयेत् ॥ ३० ॥
चतुर्दिक्षुजपेच्चैव रुद्राद्ध्ययनसंयुतम्
पञ्चास्त्रपदमन्त्रेण पञ्चवर्णं जपेत् बुधः ॥ ३१ ॥
गणेशादिषु मन्त्रेण जपेद्धर्म्म्य प्रदक्षिणम्
पञ्चाक्षरमहामन्त्रं प्रणवेन षडक्षरम् ॥ ३२ ॥
षडक्षरं त्वष्टवर्णं नवर्णन्दशवर्णकम्
पञ्चविंशति भेदानि पञ्चाक्षरं जपेत् बुधः ॥ ३३ ॥
गणेशस्कन्दनन्दीशा महाकालादिदेवताः
अघोरं दक्षिणामूर्तिं शास्ताकाली नवग्रहाः ॥ ३४ ॥
क्षेत्रपालादिमन्त्रैर्वा जपेत्सर्वत्र सन्निधौ
इन्दुशेखरमूर्त्यादीन् पञ्चविंशतिविग्रहान् ॥ ३५ ॥
तत्तन्मन्त्रं जपेन्मन्त्री तत्तद्देवप्रियार्त्थकम्
विनामन्त्रजपेनैव फलं स्वल्पमवाप्नुयात् ॥ ३६ ॥
अग्निमद्ध्ये विशेषेण शिवमावाहयेत्ततः
वर्द्धनीं परिवारेण पञ्चावरणसंयुतम् ॥ ३७ ॥
सम्पूज्य विधिवत्कृत्वा व्याहृतीञ्च हुनेत्क्रमात्
महादेवादिमन्त्रेण पालाशादि हुनेत्क्रमात् ॥ ३८ ॥
महादेवहरो रुद्रः शङ्करो नीललोहितः
ईशानो विजयश्चैव देवदेवो भवोद्भवः ॥ ३९ ॥
कपालीशश्च सर्वज्ञः तत्तन्मन्त्रेण होमयेत्
पालाशवकुलाश्वत्थ प्लक्षोदुम्बरबिल्वकम् ॥ ४० ॥
खादिरं वेण्वपामार्गं दूर्वामालूरपत्रकम्
सहस्रं वा तदर्द्धं वा सावधानेन होमकम् ॥ ४१ ॥
समिदाज्य चरून्लाजान्सक्तुमाषतिलं यवम्
कदलीगुलखण्डञ्च वेणुद्रव्येण होमयेत् ॥ ४२ ॥
ईशानाद्यस्त्रपर्यन्तं तद्द्रव्यञ्च हुनेत्क्रमात्
मुद्गान्नं पायसान्नञ्च माषापूपं हुनेत्क्रमात् ॥ ४३ ॥
मूलार्णन्तु हुनेत्पश्चात् दशांशं परिवारकम्
स्विष्टकृद्धोमपूर्वन्तु अभिषेकं यथा क्रमम् ॥ ४४ ॥
द्वारपूजादिसर्वत्र पूजयेत्तु विचक्षणः
गर्भगेहं प्रविश्याथ घण्टामन्त्रेण ताडयेत् ॥ ४५ ॥
पाद्यमाचमनं चार्घ्यं विशेषार्घ्यञ्च बुद्धिमान्
सामान्यार्घ्यं विशेषेण शङ्खपूजापुरस्सरम् ॥ ४६ ॥
नमोन्तं मूलमन्त्रेण निर्माल्यन्तु विसर्जयेत्
पुष्पं मूर्ध्नि च दापयेत्
महाभिषेकं विधिवत् गन्धतैलादिसङ्ग्रहम् ॥ ४८ ॥
द्रव्यं प्रतिविशेषेण सहस्रप्रस्थसंयुतम्
तदर्द्धं मद्ध्यमञ्चैव तदर्द्धं कन्न्यसं भवेत् ॥ ४९ ॥
शतप्रस्थं यथालाभम् अभिषेकं यथा क्रमम्
अथवा द्रव्यहीनस्य प्रमाणं वर्ण्यते गुह ॥ ५० ॥
अभिषेकादिपूजान्तं मूलमन्त्रमनुस्मरन्
आढकं गन्धतैलञ्च तदर्द्धं लिकुचं रसम् ॥ ५१ ॥
तदर्द्धं मुद्गपिष्टादि तत्समं त्रिभिरं रसम्
प्रस्थन्तु रजनीचूर्णं लेपयेल्लिङ्गपीठके ॥ ५२ ॥
शुद्धवस्त्रेण संवेष्ट्य धारयेदुपवीतकम्
खारित्रयसमं गव्यम् उच्यते द्विगुणं तथा ॥ ५३ ॥
तत्समं गुलसारञ्च त्रिप्रस्थं मधुसंयुतम्
द्विगुणं सर्पिसंयुक्तं पञ्चामृताभिषेचनम् ॥ ५४ ॥
सितेक्ष्वं बुकभारार्द्धं शर्कराणां पलंशकम्
खारिमात्रं पञ्चरसं प्रत्येकमभिषेचनम् ॥ ५५ ॥
पनसं दशसङ्ख्या च चूतं पञ्चशतं तथा
फलं सहस्रं कदली तत्समं नालिकेरकम् ॥ ५६ ॥
भारमन्नाभिषेकन्तु तुलाद्वयन्तु चन्दनम्
खारिमात्रं बिल्वरसं कर्पूरेण समन्वितम् ॥ ५७ ॥
एलालवङ्गचूर्णादि षट्प्रस्थेन समन्वितम्
पञ्चभारं जलं गृह्य मद्ध्ये मद्ध्येऽभिषेचनम् ॥ ५८ ॥
सहस्रधारातोयन्तु गङ्गाजलसमं भवेत्
गोशृङ्गाग्रस्य तोयञ्च सप्तनद्यासमं भवेत् ॥ ५९ ॥
षट्षष्टिकोटितीर्त्थेन समं रत्नस्य तोयकम्
दक्षिणावर्तशङ्खस्य तोयं मूलाभिषेचनम् ॥ ६० ॥
अनुज्ञां देशिकात्प्राप्य साधको होममाचरेत्
जयादिरभ्याधानञ्च प्रायश्चित्तादिहोमकम् ॥ ६१ ॥
शिवास्त्रन्तु हुनेत्पश्चात् अघोरास्त्रं हुनेच्छतम्
सदक्षिणां क्षौमवस्त्रां ताम्बूलेन समन्विताम् ॥ ६२ ॥
पूर्णाहुतिमुत्तमाञ्च सप्तते त्वग्निमन्त्रतः
पूर्णाहुतिञ्च विधिवत् वाद्यघोषसमन्विताम् ॥ ६३ ॥
परिषेचनं ततः कृत्वा ब्रह्मणो द्वासनं कुरु
परिस्तरणमादाय सङ्गृह्य त्वेकदर्भकम् ॥ ६४ ॥
अग्निमद्ध्ये तु तान्दत्वा एकदर्भं प्रहृत्य च
तद्भस्म तिलकं कृत्वा ललाटे साधकोत्तमः ॥ ६५ ॥
अग्निमद्ध्ये स्थितन्देवं कुम्भमद्ध्ये तु योजयेत्
मुद्गान्नन्तु निवेद्याथ नीराजनमथाचरेत् ॥ ६६ ॥
मण्डलं पूजयेत्पश्चात् यथास्थाने नियोजयेत्
कदलीफलताम्बूलं दानादिदशदानकम् ॥ ६७ ॥
विप्राय वेदविदुषे भवेत्कुम्भस्य सन्निधौ
परिचारकमाहूय सोष्णीषञ्चोत्तरीयकम् ॥ ६८ ॥
तन्मूर्ध्नि वृषमभ्यर्च्य सर्वालङ्कारसंयुतम्
कुम्भमुद्धृत्य शिरसा बाह्यधामप्रदक्षिणम् ॥ ६९ ॥
स्वस्तिवाचकसंयुक्तं नानावाद्य समन्वितम्
छत्रचामरसंयुक्तं पिञ्छतोरणसंयुतम् ॥ ७० ॥
तदग्रेनाट्यसंयुक्तं कृत्वा भक्तजनैस्सह
गर्भगेहं प्रविश्याथ कुम्भमादाय साधकः ॥ ७१ ॥
साधकात्कुम्भमादाय देशिकस्सावधानतः
कुम्भं सम्पूज्य विधिवत् मूललिङ्गेऽभिषेचयेत् ॥ ७२ ॥
वर्द्धनी कुम्भमादाय लिङ्गपीठेऽभिषेचयेत्
अनन्तादि शिखण्ड्यन्तम् अभिषेकं यथाक्रमम् ॥ ७३ ॥
बिल्वपत्रैस्समभ्यर्च्य मन्त्रान्नन्तु निवेदयेत्
खण्डवस्त्रं समादाय उद्वर्तनमथाचरेत् ॥ ७४ ॥
चन्दनागरुकस्तूरि मृगनाभिसमन्वितम्
कर्पूरेण समायुक्तं हिमतोयसमन्वितम् ॥ ७५ ॥
एवं गन्धं समादाय लेपयेल्लिङ्गमूर्द्धनि
धारयेत्क्षौमवस्त्रञ्च उत्तरीयसमन्वितम् ॥ ७६ ॥
गोलकाद्धरणादीनि मूलमन्त्रेण धारयेत्
मल्ली चम्पकपुन्नाग करवीरसिताम्बुजैः ॥ ७७ ॥
भूषयेल्लिङ्गमामूलम् एतैश्चैवं सुगन्धिभिः
आधारादीन्समभ्यर्च्य पञ्चावरणसंयुतान् ॥ ७८ ॥
सहस्रनाममन्त्रेण बिल्वपत्रेण चार्चयेत्
मुद्गान्नं कृसरान्नञ्च माषान्नञ्च गुलोदनम् ॥ ७९ ॥
मद्ध्योदनं पायसञ्च नानापूपसमन्वितम्
नानाव्यञ्जनसंयुक्तं दशभारसमन्वितम् ॥ ८० ॥
कदलीमुखखण्डञ्च नालिकेरादिखण्डकम्
महा–विर्निवेद्याथ पाद्यतोयकपूर्वकम् ॥ ८१ ॥
आचरेत्तु पुनः पाद्यं दीपाराधनमाचरेत्
भस्मधारणं कृत्वा ताम्बूलन्तु निवेदयेत् ॥ ८२ ॥
शङ्खमद्दलसंयुक्तं वेणुगानसमन्वितम्
निम्बादिभस्मकार्पासदर्पणछत्रचामरैः ॥ ८३ ॥
मन्त्रपुष्पं समादाय वेदघोषसमन्वितम्
मूलमन्त्रैस्समभ्यर्च्य प्रार्त्थयेत्परमेश्वरम् ॥ ८४ ॥
भक्तस्तोत्रं पठेत्पश्चात् आशिषं सम्यगाचरेत्
सर्वेषां दापयेत् भस्म यजमानस्य पूर्वकम् ॥ ८५ ॥
आचार्यं पूजयेत्पश्चात् वस्त्रहेमाङ्गुलीयकैः
अधमं दशनिष्कं स्यात् मद्ध्यमं निष्कविंशतिः ॥ ८६ ॥
उत्तमं त्रिंशनिष्कञ्च एवमाचार्यदक्षिणा
रुद्रमन्त्रस्य जपतां विप्रादीनान्तु दक्षिणा ॥ ८७ ॥
गोमूल्यमुत्तमं प्रोक्तं यथावित्तानुसारतः
ब्राह्मणान्भोजयेत्पश्चात् महेश्वरान्सुपूजयेत् ॥ ८८ ॥
उत्तमं मण्डलं पूजा तदर्द्धं मद्ध्यमं भवेत्
तदर्द्धं कन्न्यसं प्रोक्तम् अभिषेकं प्रकीर्तितम् ॥ ८९ ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात्
इहैव धनवान्श्रीमान्सोन्ते शिवपुरेवसेत् ॥ ९० ॥
इति महाभिषेकविधिपटलश्चतुरुत्तरशततमः