१०३ उद्यानलक्षणपटलः

उद्यानलक्षणपटलप्रारम्भः
आत्मार्त्थे वा परार्त्थे वा उद्यानं कल्प्यते नरः
सारे वा क्षारभूमौ वा रुकदादिष्टकस्थले ॥ १ ॥

परिकल्पयेत्
चम्पकं करवीरञ्च नन्द्या वर्तञ्च मल्लिका ॥ २ ॥

जातिनीलोत्पलञ्चैव ह्रीबेरञ्च द्विपद्मकम्
करान्तं बकपुष्पञ्च उरूबकुसुमन्तथा ॥ ३ ॥

पुन्नागं पाटलीञ्चैव शङ्खञ्च श्रियावर्तकम्
बहुकर्णिकमेवोक्तं कर्णिकारं द्विकर्णिका ॥ ४ ॥

लक्ष्मी च वकुलं बिल्वं रक्तमन्दारकौरवम्

श्वेतार्कं मालती द्रोणं श्वेतलोद्ध्रं तथैव च ॥ ५ ॥

अङ्कोलं माशिपत्रञ्च भृङ्गराजं तथैव च
हेमधुत्तूरदूर्वा च रक्तधुत्तूरमेव च ॥ ६ ॥

बृहती च शिखा त्रारविन्दकम्
विष्णुक्रान्तञ्च काश्मन्तम् आरग्वधञ्च केतकी ॥ ७ ॥

कोरण्डं गैरिकञ्चैव गिरिकर्णिककूटजम्
प्रवालं मल्लिकारुद्रं जवन्ति पिञ्छिला तथा ॥ ८ ॥

दान्तं पालाशकुटजं चन्द्रकान्तसुमन्तथा
रविकान्तञ्च रुद्राक्षं मल्लिका तुलसी तथा ॥ ९ ॥

सिन्धुवारन्तु श्रीपुष्पं सुरक्तकरवीरकम्
डाडिमीरक्तशाकञ्च कपित्थं रुद्रमञ्जरी ॥ १० ॥

निर्गुण्डी विमली भद्रा माधवी मञ्जरी तथा
भृङ्गराजं शमीहैमम् अपामार्गन्तु कोलिका ॥ ११ ॥

पुष्पभेदैः पत्रभेदैरेतान्यन्यानि सर्वशः
सहस्रसङ्ख्यया चैव शिवप्रीतिकरं भवेत् ॥ १२ ॥

ज्ञानदूर्वांसमभ्यर्च्य देहान्ते मोक्षमाप्नुयात्
अज्ञानेन यजेच्छम्भुं देहान्ते भूपतित्वकम् ॥ १३ ॥

पूर्वोक्तविधिना चैव वास्तुनाथं यजेत्पुरा
पश्चात्पुष्पं ग्रहे चैव श्रुणुष्वथ ॥ १४ ॥

कल्हारं कोष्ठं लशुनं मूलकं
कदलीमूलपीयूषं व्याघ्री व्याघ्रनवी तथा ॥ १५ ॥

रुद्राक्षमल्लिकाबीजम् एतान्यन्यानि सर्वशः
नागदारुदेवदारुनागपुष्पं महालता ॥ १६ ॥

श्वेतलोध्रं मृगीशाखम् एतानाहृत्यदेशिकः
इति उद्यानलक्षणपटलस्त्र्युत्तरशततमः