१०२ ध्वजस्थापनपटलः

ध्वजस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि ध्वजस्थापनमुत्तमम्
करञ्च वकुलं शीर्षं तालहिन्तालचम्पकम् ॥ १ ॥

वेणुञ्च खादिरं बिल्वं देवदारुपलाशकम्
नालिकेरमधूकञ्च गिरिमेधच्छदन्तथा ॥ २ ॥

लसत्सप्तच्छदं भुजं प्रवालैरन्यकैरपि
बालवृद्धं त्यजेच्चैव वृक्षमादाय स्तथा ॥ ३ ॥

चतुष्षष्ठाङ्गुलं नाहं
तदन्तं समयामञ्च ध्वजदण्डस्य भूषणम् ॥ ४ ॥

सप्तभागं प्रकुर्वीत आमूलाग्रं प्रकीर्तितम्
ब्रह्मभागं रुद्रसङ्ख्या चतुरश्रं प्रकीर्तितम् ॥ ५ ॥

पादोत्तरम् एकभागम् अष्टाश्रं वाप्रकीर्तितं
त्रिभागं रुद्रभागं स्यात् वृत्तं वा परिकीर्तितम् ॥ ६ ॥

एकांशं यष्टिदीर्घञ्च षोडशाङ्गुलविस्तरम्
उपदण्डं त्रियोज्या च न कर्कशं सुशीलकम् ॥ ७ ॥

भद्रपीठाकृतिं कृत्वा मद्ध्ये च वृषपीठयोः
स्थापनम् इष्टिका मद्ध्ये स्वर्णेन रजतेन वा ॥ ८ ॥

ताम्रेण वासमाराद्ध्य आमूलाग्रात्प्रतिबेरकम्
यागशालां प्रकल्प्याथ मद्ध्ये वेदिं प्रकल्पयेत् ॥ ९ ॥

तत्पूर्वे कुण्डमुच्यते
मद्ध्ये दशघटं स्थाप्य ससूत्रं सापिधानकम् ॥ १० ॥

मण्डरुद्रं यजेन्मद्ध्ये पीठशक्तिं समर्पयेत्
लोकपालान्समभ्यर्च्य पूर्वोक्तविधिनाचरेत् ॥ ११ ॥

सहस्रं होमयेत्पश्चात् रात्रौ जागरणन्तथा
प्रभाते स्नानमाचम्म्य प्रायश्चित्ताहुतिं हुनेत् ॥ १२ ॥

वह्निस्थन्तु घटे योज्य तत्वतत्वेश्वरान्यजेत्
मूर्तिमूर्तीश्वरान्न्यस्य योजयेद्दण्डमूलके ॥ १३ ॥

अभिषिच्य घटं पश्चात् हविर्दत्वा यथाविधि
दक्षिणान्दापयेत्पश्चात् ब्राह्मणान्भोजयेत्ततः ॥ १४ ॥

एवं यः कुरुते चैव शिवसायुज्यमाप्नुयात् ॥ १५ ॥

इति ध्वजस्थापनपटलो द्व्युत्तरशततमः