१०१ शिवभक्तप्रतिष्ठापटलः

शिवभक्तप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि शिवभक्तप्रतिष्ठितम्
भक्तप्रतिष्ठां कर्तव्यं येनराः दीर्घजीविनः ॥ १ ॥

अचिरात्प्रतिपठ्येते शिवज्ञानं भविष्यति
तस्मात्सर्वप्रयत्नेन प्रतिष्ठां श्रुणु षण्मुख ॥ २ ॥

ब्रह्मक्षत्रियवैश्यो वा शूद्रो वा पारशैवकः
स्त्रियो वापि प्रकर्तव्यं सालोक्यं पादमेवते ॥ ३ ॥

सामीप्यञ्चैव सारूप्यं सायुज्य पदहेतवे
एतान्जात्या शिवाबीज टीवमुक्तकेशिवा ॥ ४ ॥

मुण्डी वामकुटं वापि शिवेनानुग्रहं पुरा
शरीरान्ते सुसञ्ज्ञात्वा भूतकाले त्वनुग्रहम् ॥ ५ ॥

भूतकालं कथं सङ्ख्यां पारमेशवरुद्रकाः
मुक्तात्मापि शरीरान्ते तद्वर्षप्रभृतिस्तथा ॥ ६ ॥

सहस्रवार्षिका सङ्ख्या तत्परं च इहोच्यते
भूतकालमिति ज्ञेयः तस्योर्ध्वे श्रुणु षण्मुख ॥ ७ ॥

द्वितीय्यावरणे चैव तृतीय्यावरणेऽपि वा
सव्योमं तु प्रकर्तव्यम् उत्तराभिमुखं तथा ॥ ८ ॥

यद्वा चेद्दीक्षिताश्चैव सन्यासीयोगपीठिका
चार्यानुषान्नयजनं शिवभक्तानुकम्पया ॥ ९ ॥

वानप्रस्थो ग्रहस्थो वा मृदान्तश्शिष्यपुत्रकः
शिलायां लोहजं वापि दारुजैर्वा स्वरूपकम् ॥ १० ॥

अञ्जलिञ्चाक्षमालाञ्च योगहस्तो भवेच्चरेत्
श्मशाने च शिवारामे बाह्ये वीध्यन्तरे मठम् ॥ ११ ॥

प्रतिष्ठाद्यर्चनान्तं वा
कथं शम्भो पुरा प्रोक्तम् अप्रमाणमिहापि वा ॥ १२ ॥

साधुसाधुश्रुणुष्वाहं वक्ष्ये ज्ञानप्रदं गुह
इहलोकेन दृष्टल्यं तस्मात् मूर्तिविधीय्यते ॥ १३ ॥

सहस्रवर्षसङ्ख्या च तदूर्ध्वे च प्रतिष्ठितम्
चिरकालं भजे लोके नानादेशे प्रशस्तकम् ॥ १४ ॥

श्रुत्वा चैव महच्छब्दं प्रतिष्ठां कारयेत्ततः
प्रथमावरणे कल्प्य देवस्य सव्यपार्श्वके ॥ १५ ॥

उत्तराभिमुखो भूत्वा प्रतिष्ठां कारयेत्ततः
चिरकालन्तुको ज्ञात्वा प्रतिष्ठां कारयेत्ततः ॥ १६ ॥

भूतकायं विहायश्चेत् आत्मापरवशङ्गतः
चित्तं महपरे ज्ञात्वा देवस्तत्समये शिवः ॥ १७ ॥

साक्षादनुगृह्य शिष्यम् इतराणामदृश्यकम्
तस्मात्सर्वप्रयत्नेन बहुकालन्नयेत् गुरुः ॥ १८ ॥

नानादेशे प्रशस्तं हि नानापरिजनैस्तुतः
नानासज्जनसन्तुष्टः परिपाकीदयापरः ॥ १९ ॥

साक्षात्सारूप्यसामीप्यं लभते तु न संशयः
नानाजनैस्तुतिं श्रुत्वा देवर्षिगणकिन्नरैः ॥ २० ॥

कथं सारं गुरुर्ज्ञात्वा शिवभक्तप्रतिष्ठितम्
क्रीतादिपाप्मयत्रेते कलौ चतुर्युगे समम् ॥ २१ ॥

बहुकालात्परं पूज्य प्रतिष्ठां श्रुणु षण्मुख
षोडशस्तम्भसंयुक्तं चतुर्द्वारसमन्वितम् ॥ २२ ॥

मद्ध्ये वेदिं प्रकल्प्याथ पञ्चकुण्डं प्रकल्पयेत्
अङ्कुरार्पणपूर्वन्तु जलाधिवासनं परम् ॥ २३ ॥

बिम्बशुद्धिं ततः कृत्वा अक्षिमोक्षणपूर्वकम्
शयनारोपणं पश्चात् घटेशं पूजयेत्परम् ॥ २४ ॥

सप्तधान्यस्थितं कुम्भं सर्वशोभान्वितं करम्
स्थापितं हेमरत्नैश्च सकूर्चं नालिकेरकैः ॥ २५ ॥

अमुकाख्यं समावाह्य नाम्नाद्यक्षरपूर्वकम्

नाम्नाञ्चैव नमोन्तञ्च घटे सम्पूजयेत्ततः ॥ २६ ॥

परितोष्टघटान्न्यस्य लोकपालान्समर्चयेत्
यद्वाश्मशाने बाह्ये तु परितोष्टघटे श्रुणु ॥ २७ ॥

मनो बुद्धिरहङ्कारं व्योमवायुकृशानवः
पृथिव्या सह एतेष्टौ अष्टकुम्भेषु पूजयेत् ॥ २८ ॥

रक्षाबन्धनपूर्वं यः तत्वतत्वेश्वरं न्यसेत्
मूर्तिमूर्तीश्वरान्न्यस्य षट्त्रिंशत्तत्वसिद्धिपान् ॥ २९ ॥

विन्यसेत्त्रि ञ्च मालाप्रतिसरन्नरः
वह्निकर्मसमाराद्ध्य पूर्वोक्तविधिनाहुनेत् ॥ ३० ॥

प्रायश्चित्ताहुतिं हुत्वा वह्निस्थं योजयेत् घटे
सुमुहूर्ते सुलग्ने च प्रोक्षयित्वाभिषेचनम् ॥ ३१ ॥

हविर्दत्वा निवेद्याथ धूपदीपं समाचरेत्
ब्रांहणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः ॥ ३२ ॥

एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात्
इति शिवभक्तप्रतिष्ठापटल एकोत्तरशततमः