१०० ऋषिस्थापनपटलः

ऋषिस्थापनपटलप्रारम्भः
अथ वक्ष्ये विशेषेण आयुरारोग्य सम्पदम्
अष्टाङ्गयोगसिद्ध्यर्त्थम् ऋषिस्थापनमुत्तमम् ॥ १ ॥

देवालये शिवारामे मठे वा स्थापनं गुरुः

ईशानश्चैव दूर्वासः विश्वामित्रः प्रचेतसः ॥ २ ॥

जमदग्निः क्रतुश्चैव अत्रीभृगुश्च गौतमः
भारद्वाजः काश्यपश्च वसिष्ठो द्वादशाख्यकम् ॥ ३ ॥

यागशालां प्रकल्प्याथ नवहस्तन्तु विस्तरम्
मद्ध्ये वेदिं प्रकल्प्याथ पूर्वे कुण्डं समुच्यते ॥ ४ ॥

पूर्वादि च चतुर्दिक्षु वेदिकाञ्चतुरश्रकम्
आग्नेय्यादि चतुर्दिक्षु वेदिका वृत्तमुच्यते ॥ ५ ॥

पूर्वाशादि चतुर्दिक्षु कुण्डं वै चतुरश्रकम्
आग्नेय्यादि चतुर्दिक्षु वृत्तकुण्डं प्रकीर्तितम् ॥ ६ ॥

चतुरश्रन्तु तन्मद्ध्ये वायव्ये च ततश्शृणु
नैर्ऋते चैव ईशाने चतुरश्रन्तु वेदिकाम् ॥ ७ ॥

त्रिकोणञ्चैव षट्कोणं पद्मकुण्डं प्रकल्पयेत्
वेदिका मद्ध्यमे चैव रन्ध्रसङ्ख्या घटं न्यसेत् ॥ ८ ॥

पृथक्पृथक् घटं स्थाप्य सप्तधान्योपरिस्थितम्
अङ्कुरार्पणपूर्वन्तु जलाधीवासनं परम् ॥ ९ ॥

बिम्बशुद्धिं ततः कृत्वा शयनारोपणं परम्
रक्षाबन्धनमेवोक्तं तत्वतत्वेश्वरं यजेत् ॥ १० ॥

ईशानं मद्ध्यमे पूज्य नामाद्यक्षरमुद्धृतेत्
हुङ्कुरं बिन्दुसंयुक्तं नादान्तमुच्चरेत्ततः ॥ ११ ॥

च्चैव मुनीनां मन्त्रमुत्तमम्
तद्घटे पूजयेत्पश्चात्पूर्वाशादि चतुर्दिशि ॥ १२ ॥

दूर्वासविश्वामित्रश्च प्रचेतसजमदग्निकः
पूर्वादिपूजयेत्पश्चात् आग्नेय्यादि ततश्शृणु ॥ १३ ॥

क्रतुरत्रिभृगुश्चैव गौतमः पूजयेत्ततः
भारद्वाजः काश्यपश्च वसिष्ठोवायवादयः ॥ १४ ॥

सम्पूज्य विधिवत्कुम्भे प्रथमावरणं पुरा
द्वितीय्यावरणे पूज्य लोकपालान्समर्चयेत् ॥ १५ ॥

तोरणान्मङ्गलान्शस्त्रान्पूर्ववद्विधिनाचरेत्
अग्निमावाह्य सम्पूज्य उक्तमन्त्रेण होमयेत् ॥ १६ ॥

जीवन्याससमायुक्तं वह्निस्थन्तु घटे यजेत्
सुमुहूर्ते सुलग्ने च तत्तत्कुम्भाभिषेचनम् ॥ १७ ॥

हविर्निवेदयेत्तत्र ब्राह्मणान्भोजयेत्ततः
आचार्यं पूजयेत्पश्चात्सपुण्यां गतिमाप्नुयात् ॥ १८ ॥

इति ऋषिप्रतिष्ठापटलश्शततमः