विद्यापीठप्रतिष्ठापटलप्रारम्भः
अथ वक्ष्ये विशेषेण विद्यापीठं न्यसेत् गुह
सुवर्णरजतं वापि ताम्रं वा करमानतः ॥ १ ॥
लेखयेदक्षरं प्रोक्तम् अथवा भाषणं शिलाम्
संलिखेत् विधिवत्कृत्वा तालपत्रेण वा गुह ॥ २ ॥
पञ्चविंशाङ्गुलं दीर्घं विस्तारन्तु त्रियङ्गुलम्
अथवा सिक्षुसूक्ष्माणि अभावे देशिकोत्तमः ॥ ३ ॥
द्वादशाङ्गुलविस्तारं तदर्द्धं वा तदर्द्धकम्
चतुस्त्रीणि तयोर्मद्ध्ये तन्मद्ध्ये रन्ध्रमुत्तमम् ॥ ४ ॥
नकर्कशञ्च सुश्लक्ष्णम् एवं पुस्तकलक्षणम्
क्षौमं कार्पाससूत्रं वा चतुर्विंशतिसूत्रकम् ॥ ५ ॥
त्रिगुणं त्रिगुणी कृत्य संयुतं रज्जुमुत्तमम्
सौवर्णे रजते ताम्रे ऋजुत्वं कामशैलकम् ॥ ६ ॥
श्रीतालीदलमेवोक्तं तालपत्रमथापि वा
रज्जुनाप्रोतयेद्रन्ध्रे लेखयेदक्षरं पृथक् ॥ ७ ॥
गजमित्युत्तरं प्रोक्तम् अश्विनीति च मद्ध्यमम्
पिशाचीत्यक्षरं प्रोक्तं पिशाची मन्दगतिं भवेत् ॥ ८ ॥
अश्विनी च विलेखा च दीर्घाक्षरसमीरिति
छिन्नं भिन्नं तथा वक्रं पिशाच लिखितं स्मृतम् ॥ ९ ॥
नानादेशसमुद्भूता लेखयेदक्षराणि च
नानाकथामहागीता मूलमन्त्रविचारतः ॥ १० ॥
पञ्चपीठाज्य शाशूलं तस्याग्रे सुषिराणि च
कार्पासरज्जुना वेष्ट्य चतुसाधुकसंयुतम् ॥ ११ ॥
गात्रत्रीति चतुर्युक्तं पाणिपीठस्य लक्षणम्
पूर्वोक्तयागं सङ्कल्प्य मद्ध्ये वेदिं प्रकल्पयेत् ॥ १२ ॥
पञ्चकुण्डं प्रकल्प्याथ मेखलात्रयमुत्तमम्
अङ्कुरार्पणपूर्वन्तु मण्टपान्नैर्र्ऋते बहिः ॥ १३ ॥
एलालवङ्गतक्कोल उशीरञ्चन्दनैर्युतम्
लेपयेत्पुस्तके यत्र कौतुकं बन्धयेद्धृदा ॥ १४ ॥
तत्तदागमबीजेन यवपञ्च शयनोपरि
शाययेत्पञ्चशयने वेदिका मद्ध्यमे श्रुणु ॥ १५ ॥
शिवकुम्भन्तु तन्मद्ध्ये पार्श्वयोर्वर्द्धनी द्वयम्
विद्येश्वरघटान्न्यस्य सप्तधान्योपरिन्यसेत् ॥ १६ ॥
तृतीयस्वरसंयुक्तं द्वादशस्वरसंयुतम्
बिन्दुनादसमायुक्तं यन्मन्त्रं कारणागमम् ॥ १७ ॥
मन्त्रानदह्यते तेषां प्रासादेनैव पूजयेत्
शिवप्रशंसा यत् ग्रन्धं तद्बटे शिवमर्चयेत् ॥ १८ ॥
गौरी प्रशंसा यत् ग्रन्धं प्रोक्षणार्त्थन्तु यद्घटम्
गौरीमन्त्रं यजेत्पूज्य विद्येशादीन्यथोक्तवत् ॥ १९ ॥
वर्द्धन्यां यजनं गौरी उमां पार्श्वद्वये यजेत्
यथोक्तमन्त्रेण वत्कुण्डे कुण्डसंस्कारपूर्वकम् ॥ २० ॥
वह्निकर्महुनेत् द्रव्यैस्समिधापि च पायसैः
अग्निस्थन्तु घटे योज्य घटमादाय देशिकः ॥ २१ ॥
दर्पणं सन्निधौ स्थाप्य दर्पणे पूजयेद्घटम्
हविर्निवेदयेद्विद्वान्धूपदीपान्समर्चयेत् ॥ २२ ॥
कारणाद्यैश्च मन्त्रादीन् अष्टविंशति सङ्ख्यया
तन्त्रेशान्यजनात्तत्तत् नाम्ना सम्पूजयेद्गुरुः ॥ २३ ॥
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं यः कुरुते मर्त्यः शिव एव न संशयः ॥ २४ ॥
इति विद्यापीठप्रतिष्ठापटल एकोनशततमः