मठप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि श्रुणुष्वशरवणोद्भव
आदिशैवम्महाशैवं प्रवराख्यन्तथैव च ॥ १ ॥
अनुशैवोवान्तरश्च आत्मार्त्थं यजनं तथा
पूजामठं प्रकर्तव्यं त्रिविधं मठमुच्यते ॥ २ ॥
ऋक्पाके संहृते लोके सर्वदेवाश्च वायवः
अग्निञ्च स्थापयेच्चैव अशनी सागरोरवा ॥ ३ ॥
स्वस्वसामर्त्थ्य भेदेन हुङ्कारैः पतनं भुवि
अशनीपतने काले कालाग्निभुवने गतः ॥ ४ ॥
बालाशिखां प्रपद्येथ ऊर्ध्वे ज्वाला भुविर्भवेत्
बालां शमयतेवेश्म पूर्वदाकृतिमत्सख ॥ ५ ॥
लिङ्गाकारं स्वयम्भूश्च पर्वताकृतिरुन्नतम्
एवमुक्तस्थले वासं कृत्वा चैव द्विजातयः ॥ ६ ॥
अन्ते शिवपदं प्राप्य शिव एव न संशयः
देविके दिव्य लिङ्गे च आर्षे च राक्षसे तदा ॥ ७ ॥
मानुषे गाणवे बाणे स्थले वा पाशमुद्रितम्
आदिगुह्याष्टकस्थानम् आदिगुह्याष्टकस्तथा ॥ ८ ॥
गुह्यात् गुह्याष्टकश्चैव पवित्राष्टकमेव च
स्थाण्वष्टकञ्च पञ्चैते आजन्ममरणान्तकम् ॥ ९ ॥
ब्रह्मचर्यव्रतञ्चैव जटीमुण्डी च योगिनः
आदिशैवं महाशैवं क्षत्रियावैश्यपादजा ॥ १० ॥
परार्त्थयजनार्त्थं वा तेषां वै परिचारकः
भृत्यो वादासिदासो वा अङ्कितं शशिमुद्रया ॥ ११ ॥
अन्ये परं परा तेषाम् आचार्याय प्रदापयेत्
देवस्वं देवताद्रव्यम् अनपेक्ष्याथ भूपतिः ॥ १२ ॥
तेषां प्रदापयेत् द्रव्यं साम्यमुक्तं न दोषभाक्
मठाग्रे पिचसंवर्ज्येत् क्लेयसे विन्यसेत्परम् ॥ १३ ॥
पाशौ वृषभजं सौम्ये द्ध्वजायामिन्द्रदिक्स्थितम्
विपुलं वा प्रकर्तव्यं यजमानश्च याचरेत् ॥ १४ ॥
युगाग्रञ्च शरैर्भक्ते मद्ध्यन्त्यक्त्वा पदन्ततः
ग्रहाणां स्वेच्छयान्यासं यमे वाश्वविनिर्गमाम् ॥ १५ ॥
एकभौमं प्रकल्पयेत्
दीर्घशालागृहन्यासं यथायोग्यं निवेशयेत् ॥ १६ ॥
पूर्वोक्तमन्तरं सार्द्धम् अन्तरं वा यथा तथा
मठके मात्रकं कार्यं पट्टशाला चतुष्कका ॥ १७ ॥
पृथिवी पूर्वमुद्दिष्टा द्रव्याभावे च कुट्टिमा
युगाश्रञ्चैव देवानां द्विजानामपि सम्मतम् ॥ १८ ॥
क्षत्रियाणां तथा प्रोक्तम् अन्ययोरायनाश्रकम्
हीनोक्तं श्रेष्ठजातीनां हितन्नोक्तं विपर्यये ॥ १९ ॥
आयाद्यं पूर्ववत्प्रोक्तम् आश्वाहिक्लेशिवप्रदम्
सुमुहूर्ते सुनक्षत्रे अनुकूलदिनेऽपि वा ॥ २० ॥
आरम्भकालेस्त्वेतेषाम् उत्सवे तु पृथक्तथा
हिरण्यशालां प्रथमं हीनञ्चोत्तरशालया ॥ २१ ॥
सक्षेत्रं पूज्य वा हीनं शालाञ्चेत् वृद्धिदं शुभम्
कुचरल्ली दक्षिणया हीना शालाचाशुविनाशनः ॥ २२ ॥
यस्यापया यदा हीनं हृदघ्नं तत्सुताभिकृत्
सिद्धार्त्थं तद्भवे सव्य पारायुवतयो यदि ॥ २३ ॥
पश्चिमोत्तरमेवोक्तं यमशूलन्तु मृत्युदम्
उदक्पूगयुतं वेश्म गताख्यं गतकारकम् ॥ २४ ॥
पूर्वयाम्ययुतं गेहं यानाख्यं कलहप्रदम्
पूर्वापरयुतं वेश्म च्छुल्लिनामर्त्थनाशनम् ॥ २५ ॥
मूले सूत्रे च सन्धौ च चतुष्के चाष्टके तथा
देवालयाग्रे सन्धौ च चैत्यवृक्षसमीपके ॥ २६ ॥
श्मशाने पर्वताग्रे च क्षारभौम अहीतले
नाराचेनिन्दितस्थाने नरावासं न कारयेत् ॥ २७ ॥
यद्वास्तुपूर्वं तञ्चात्र प्रासादग्रहकल्पितम्
एकाशीतिपदं वापि चतुष्षष्टिपदन्तु वा ॥ २८ ॥
पूर्वोक्तविधिना चैव वास्तुनाधं प्रपूजयेत्
आत्मतत्वमथो भागे ब्रह्माण्डपतिं विन्यसेत् ॥ २९ ॥
विद्या तत्व न्न्यसेन्मद्ध्ये बुद्धितत्वं पदानुगम्
शिवतत्वं न्यसेदूर्ध्वे शुद्धविद्यावसानकम् ॥ ३० ॥
शिवं साङ्गं यजेच्चैव तत्वोपस्थापनं स्पृशेत्
प्रोक्षणं जपसान्निद्ध्यं मन्दिरान्स्नापयेत्ततः ॥ ३१ ॥
कम्पेषु पार्त्थिवं तत्र तृणेषु पावकं यजेत्
पावनिं बन्धने पूज्य दण्डकेषु च वायवम् ॥ ३२ ॥
स्थाणौ स्वाकाशं विन्यस्य शिवं साङ्गं प्रपूजयेत्
शिववत्पूजिते तस्मै दत्वा तोयैस्समर्पयेत् ॥ ३३ ॥
सुराणां स्थापनं कृत्वा भिक्षावृत्तित्वजीवनम्
देवालयाय यद्द्रव्यं तद्द्रव्यं दैवताय च ॥ ३४ ॥
पूर्वप्रतिष्ठा यद्वेश्म जीर्णोद्धारे चतुर्गुणम्
मठं पूर्ववदेवोक्तं वास्तुपूजापुरस्सरम् ॥ ३५ ॥
वेदिका मद्ध्यमे चैव शिवकुम्भञ्च वर्द्धनीम्
तोरणान्मङ्गलान्शस्त्रान् ॥ ३६ ॥
निवृत्यादिकलान्पूज्य लोकपालान्समर्चयेत्
एककुण्डं हुनेत्पूज्य पूर्वोक्तविधिनाचरेत् ॥ ३७ ॥
सुमुहूर्ते सुलग्ने च प्रोक्षयेन्मण्टपान्तरे
आचार्यं सन्ततिं पुत्रम् आदिशैवकुलोद्भवम् ॥ ३८ ॥
तेषामात्मार्त्थयजनं श्रुणुष्व च षडानन
पूजार्त्थं मण्टपं कुर्यात् दक्षिणद्वारमुत्तमम् ॥ ३९ ॥
पार्श्वयोश्च गवाक्षं स्यात् एकाशीति पदन्तथा
मद्ध्ये वेदिं प्रकल्प्याथ तत्पूर्वे स्नानवेदिका ॥ ४० ॥
ऐशाने वायवे दैत्ये कुण्डं कृत्वा तु साधकः
त्रिमेखलं युगाश्रञ्च कुण्डनाभिपुरस्सरम् ॥ ४१ ॥
वायव्ये पाकशालाञ्च समित्कूर्चं तदुत्तरे
समाधिस्थानमाग्नेय्यां तत्पूर्वे ऋषिविग्रहम् ॥ ४२ ॥
एवं कृत्वा तु भूपालः स्वनाम्ना गीतमण्टपम्
देशिकाय ददेद्धूपं प्रतिष्ठां श्रुणु षण्मुख ॥ ४३ ॥
यद्वापूजामकृत्वा तु प्राकारं बाह्य देशके
बहिः प्राकारपरितः पूर्वे धान्यग्रहं भवेत् ॥ ४४ ॥
विद्याव्याख्यानशालाञ्च सव्यदिक्कारयेत्ततः
अतिथिरिभ्यागतो मर्त्या पश्चिमे कारयेत्ततः ॥ ४५ ॥
दैत्ये काष्ठालसङ्कल्प्य वायव्ये पाकशालका
मद्ध्ये कूपं प्रकल्प्याथ तत् बाह्ये सिकतस्थले ॥ ४६ ॥
पुष्पारामं मनोद्देशे एवन्देशिकमण्टपम्
तीव्रशक्तिनिपातञ्च दृढभक्तिरचञ्चलः ॥ ४७ ॥
तेषां मठं प्रकल्प्याथ वास्तुनाधं प्रपूजयेत्
चतुष्षष्टिपदं कृत्वा पूर्ववत् वास्तुपूजनम् ॥ ४८ ॥
लोकधर्मणिचाञ्चल्यं मासे च शिवपूजकः
तेषां मठानि कृत्वा तु वास्तुपूजापुरस्सरम् ॥ ४९ ॥
एकाशीति पदं कृत्वा मद्ध्ये वास्तुप्रपूजयेत्
कुम्भमेकं न्यसेच्चैव ब्राह्मणान्भोजयेत्ततः ॥ ५० ॥
मण्टपं प्रोक्षयेच्चैव पर्यग्निकरणन्तथा
यद्वा किञ्चिद्विशेषोऽस्ति पूजास्नानमलङ्कृते ॥ ५१ ॥
वास्तुपूजां यजेत्पूर्वं दशकुम्भन्न्यसेत्ततः
भीमरुद्रं यजेन्मद्ध्ये वर्द्धनीं वामपार्श्वके ॥ ५२ ॥
पूर्वाद्यष्टघटे पूज्य लोकपालान्समर्चयेत्
कुण्डे वा स्थण्डिले वापि वह्निकार्योक्तमार्गतः ॥ ५३ ॥
रक्षाबन्धनमेवोक्तं मद्ध्ये ऐशान्यदिक्स्थले
स्तम्भे रक्षां प्रकुर्वीत सुमुहूर्ते सुलग्नके ॥ ५४ ॥
वेदिका मद्ध्यमे पूज्य स्थिरासनं प्रकल्पयेत्
वह्निस्थन्तु घटे पूज्य घटमादाय देशिकः ॥ ५५ ॥
वेदिका मद्ध्यदेशे तु घटाभिषेचनं यजेत्
पूर्वाद्यष्टदिशी पार्श्वे इन्द्राद्यष्टघटान्न्यसेत् ॥ ५६ ॥
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं कृत्वा विशेषेण शिवसायुज्यमाप्नुयात् ॥ ५७ ॥
इति मठप्रतिष्ठापटल अष्टनवतितमः