भद्रकालीप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वज्ञानप्रदायकम्
देवालयानां दृश्यन्ते प्रासादं गोपुराणि च ॥ १ ॥
यावद्देशेषु दृश्यन्ते तावत्कैलासदृश्यते
गर्भदेहस्य विस्तारं द्विभागं परिकीर्तितम् ॥ २ ॥
एकांशं वृद्धिदं प्रोक्तं त्रियंशं विस्तरं भवेत्
–
द्वितीय्यावरणे चैव पञ्चभागन्तु विस्तरम् ॥ ३ ॥
तृतीय्यावरणे चैव सप्तांशं ग्राहयेत्ततः
दक्षिणादुत्तराच्चैव षट्त्रिंशत् भागनिर्मितम् ॥ ४ ॥
दशभागन्तु सव्ये च उत्तरे दशभागकम्
एकांशं पुरतः कृष्य शेषं व्यश्राकृतिर्भवेत् ॥ ५ ॥
त्रिभागं सव्यभागे तु उत्तरे तु त्रिभागकम्
शेषं द्वारसमायुक्तं विस्तारञ्च ततश्शृणु ॥ ६ ॥
चतुर्विंशांशविस्तारं तत्समं पादमर्द्धकम्
पञ्चभागोन्नतं विद्यात् वीराकृतिसमारभेत् ॥ ७ ॥
उपानं जगती चैव कुमुदम्
॥ ८ ॥
कपालमालाभरणं नागराजविभूषितम्
पद्मपीठोपरिस्थञ्च रक्तवस्त्रसमन्वितम् ॥ ९ ॥
वामपादतलञ्चैव रक्तबीजोपरिस्थितम्
चन्द्रलेखासमायुक्तं करालवदनान्वितम् ॥ १० ॥
प्रभामण्टपमद्ध्यस्थम् उग्रदृष्टिभयङ्करम्
आसनं स्थानकं वापि प्रेतारूढमथापि वा ॥ ११ ॥
द्वात्रिंशल्लक्षणोपेतं चामुण्डीं पूर्णविग्रहम्
यद्वा चतुर्भुजं वापि पाशं डमरुकन्तथा ॥ १२ ॥
शूलं कपालसंयुक्तं शेषं पूर्ववदाचरेत्
यागशालां प्रकल्प्याथ षोडशस्तम्भसंयुतम् ॥ १३ ॥
चतुर्द्वारसमायुक्तं चतुस्तोरणदृष्टिकम्
चतुरश्रमिति ज्ञेयं मद्ध्यमं परिकीर्तितम् ॥ १४ ॥
अथवा एककुण्डं वा योनिञ्चैव प्रकीर्तितम्
मद्ध्ये वेदिं प्रकल्प्याथ चतुरश्रं प्रकीर्तितम् ॥ १५ ॥
मृत्सङ्ग्रहणमेवोक्तम् अङ्कुरार्पणमुच्यते
पुंरूपं देवताः पूर्वं स्वाभाव्यं परिकीर्तितम् ॥ १६ ॥
स्त्रीवाच्यमीञ्च सम्पूज्य उच्चरेत्साधकोत्तमः
वास्तुनाथं प्रपूज्याथ जलाधिवासनं परम् ॥ १७ ॥
—
नयनोन्मीलनं पूर्वं शयनारोपणं परम्
पूर्ववत्सकलं पूज्य तोरणान्पूजयेत्ततः ॥ १८ ॥
अतिशक्तिं यजेत्पूर्वे इच्छाशक्तिन्तु दक्षिणे
ज्ञानशक्तिं यजेत्सौम्म्ये क्रियाशक्तिन्तु पश्चिमे ॥ १९ ॥
तोरणे पूजयेत्पश्चात् नन्दिनीञ्च प्रपूजयेत्
द्वारस्य वामपार्श्वे तु नन्दिनं पूजयेत्ततः ॥ २० ॥
द्वारस्य दक्षिणे देशे कुण्डोदरं प्रपूजयेत्
समिदाज्य चरूं लाजं तिलसर्षपमुद्गकम् ॥ २१ ॥
यवनीवारचणकं निष्पावं वैणवं तथा
गोधूमं सक्तुपिष्टञ्च लाजमाषगुलन्तथा ॥ २२ ॥
सितक्षीरदधि इक्षुपायसा पूपमुच्यते
नालिकेरं मधू चैव पनसं कदली तथा ॥ २३ ॥
शमीखादिरमश्वत्थं पालाशं वटबिल्वकम्
अपामार्गार्कसमिधम् औदुम्बरगलूचिका ॥ २४ ॥
पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत्
नवाहञ्चैव सप्ताहं पञ्चाहं वा त्रियाहकम् ॥ २५ ॥
तत्वतत्वेश्वरान्पूज्य मूर्तिमूर्तीश्वरान्हुनेत्
त्रिखण्डं होमयेत्पश्चात्पूर्णाहुतिं समाचरेत् ॥ २६ ॥
पञ्चास्त्रं जप्यते विप्राः नृत्तगीतैस्समन्वितम्
भूभुजस्वर्णमादाय पुत्रार्त्थं ग्रहदेवतान् ॥ २७ ॥
ब्राह्मणान्भोजयेत्पश्चात्सुमुहूर्ते सुलग्नके
कुम्भात् बीजं समादाय बिम्बे संयोजयेद्गुरुः ॥ २८ ॥
आचार्यं पूजयेत्पश्चात् महाहविर्निवेदयेत्
महास्नपनमेवोक्तं तस्यार्द्धं वा तदर्द्धकम् ॥ २९ ॥
अष्टोत्तरशतं वापि पूर्वोक्तविधिना चरेत्
काली च कालरात्री च दक्षिणद्वारिपूजयेत् ॥ ३० ॥
भद्रा च कोमली चैव पश्चिमे पूजयेत्ततः
यामली चैव पाशङ्गीम् उत्तरे पूजयेत्ततः ॥ ३१ ॥
पूर्वोक्तविधिनाद्ध्यात्वा ध्वजेषु पूजयेत्ततः
‘
पूर्वाद्यष्टदिशी चैव कृष्णद्ध्वजं लिखेत्ततः ॥ ३२ ॥
स्तम्भनी मोहनी चैव ज्वालामुखीं प्रपूजयेत्
तटाकेशी च स्वच्छन्दा त्रिशिराबहुरूपिणी ॥ ३३ ॥
विलासी च इति प्रोक्ता सन्तुष्टा परिभावयेत्
द्वारपूजां ततः कृत्वा पश्चिमे द्वारदेशके ॥ ३४ ॥
सव्येकपालिनीं पूज्य असव्ये त्रिदशमोहिनी
उत्तरे मनसिपूज्य मानसीञ्च तदुत्तरे ॥ ३५ ॥
द्वारस्य देहली सव्ये इद्यानं भैरवन्तथा
मन्युर्भैरवमभ्यर्च्य पूजयेत्साधकोत्तमः ॥ ३६ ॥
सौम्ये तु देहली वामे विकृती घोटराक्षसी
सम्पूज्य पूर्ववद्ध्यात्वा अस्त्रन्तु देहलीं यजेत् ॥ ३७ ॥
धूपदीपं ततः कृत्वा प्रविश्यान्तस्समो गुरुः
नैर्ऋते वास्तुमभ्यर्च्य पूर्वाद्यष्टदिशन्तथा ॥ ३८ ॥
स्तम्भेषु गन्धपुष्पैश्च अनन्तं पूजयेत्ततः
विनागां पूजयेत्पश्चात् भद्रा चैव ततः परम् ॥ ३९ ॥
जयन्तं पूजयेत्पश्चात्
भूसुरान्भोजयेत्तत्र दक्षिणान्दापयेत्ततः ॥ ४० ॥
बाह्ये चैव महापीठे मणिकाशक्तिमर्चयेत्
मेषादिछेदनं कृत्वा मांसं निवेदयेत्ततः ॥ ४१ ॥
प्रत्यहं पूजयेत्पश्चात् द्विकालं वा त्रिकालकम्
एककालमथावापि पूजयेदुक्तमार्गतः ॥ ४२ ॥
महोत्सवं ततः पश्चात् नवाहं परिकीर्तितम्
प्रासादगोपुरादीनि प्रत्येकालयमुत्तमम् ॥ ४३ ॥
प्रतिद्ध्वजं प्रकल्प्याथ प्रतिसंवत्सरोत्सवम्
एकालये विशेषेण रक्षाबन्धनमात्रकम् ॥ ४४ ॥
तस्मात्सर्वप्रयत्नेन पताकारोहणं विना
भेरीताडनं वर्जयेत् अङ्कुरं वर्जयेत्ततः ॥ ४५ ॥
शेषं पूर्ववदेवोक्तं सर्वपीडानि वारणम्
एवं यः कुरुते मर्त्यस्सराजाविजयी भवेत् ॥ ४६ ॥
इति भद्रकालीप्रतिष्ठापटलस्सप्तनवतितमः