०९६ रथप्रतिष्ठपटलः

रथप्रतिष्ठपटलप्रारम्भः
अथ वक्ष्ये विशेषेण स्थावराणां हिताय च

ज्ञातीनां मूर्तिरित्यर्त्थं रथसम्प्रोक्षणं श्रुणु ॥ १ ॥

रथस्यारोहणात्पूर्वं प्रासादे देवसन्निधौ
अथवापि रथाग्रे वा पूर्वोक्तं यागमण्टपम् ॥ २ ॥

मद्ध्ये वेदिं प्रकल्प्याथ पञ्चकुण्डं प्रकल्पयेत्
अथवा एककुण्डं वा मेखला त्रयमुत्तमम् ॥ ३ ॥

तोरणान्मङ्गलान्शस्त्रान् चतुर्द्वारसमन्वितम्
सप्तविंशत् घटान्न्यस्य मण्टपाराधनं पुरा ॥ ४ ॥

द्वारपूजान्ततः कृत्वा देहशुद्धिमतः परम्
वेदिकामद्ध्यमे चैव दशकुम्भं न्यसेत्ततः ॥ ५ ॥

ससूत्रान्सापिधानाञ्च पङ्कजं रत्नकूर्चकम्
मद्ध्ये सदाशिवं द्ध्यात्वा मूलमन्त्रेण पूजयेत् ॥ ६ ॥

लयाङ्गं पूजयेत्पश्चात् भोगाङ्गं पूजयेत्ततः
पूर्वादि च चतुर्दिक्षु रविश्रीशवृषन्तथा ॥ ७ ॥

अर्चयेद्धर्म्मपत्नींश्च आग्नेयादि विदिक्श्रुणु
शशीविनायकौ पूज्य अनन्तञ्च धराधरम् ॥ ८ ॥

द्वितीय्यावरणं पूज्य शेषं पूर्ववदाचरेत्
एकाग्निं वाथ पञ्चाग्निं कुण्डसंस्कारमेव वा ॥ ९ ॥

आज्यसंस्कारमेवन्तु स्रुवसंस्कारमेव हि
पूर्वोक्तविधिना चैव होमङ्कृत्वा विशेषतः ॥ १० ॥

दशांशं होमयेत्पश्चात्प्रायश्चित्ताहुतिं हुनेत्
रथान्तिकं गत्वा आचार्यो पञ्चगव्यैर्मृदोदकैः ॥ ११ ॥

त्वक्पल्लवोदकैस्नात्वा गोमयेनैव शुद्ध्यति
पवमानैव शुद्ध्यति ॥ १२ ॥

पवमानैः पञ्चशान्तिं मन्त्रमुच्चारयेत् जपेत्
गुरो स्थपतिमादाय गत्वा रथसमीपकम् ॥ १३ ॥

गतागतिप्रमाणेन रज्जुना वेष्टयेत्पुरा
सम्यक्ज्ञात्वा परिक्षाञ्च मन्त्रन्यासमतः परम् ॥ १४ ॥

गत्वा सिह्मासनोपेतम् ऐशान्ये स्तम्भमुत्तमम्
कौतुकं बन्धयेत्पश्चात् अर्चयित्वा तु साधकः ॥ १५ ॥

}

वज्रदण्डं द्विधाभ्यर्च्य गोपतिं पूजयेत्ततः
चक्रे रविञ्च शशिनं मद्ध्यदण्डे हरिं यजेत् ॥ १६ ॥

भारे आधारशक्तिञ्च अनन्तासनमुच्यते
अनन्तं पूजयेत्पश्चात्कुमुदेय ततः श्रुणु ॥ १७ ॥

धर्मादीनर्चयेच्चैव पावकादिषु कोणके
अधर्मादि चतुश्चैव पूर्वादिषु यजेत्ततः ॥ १८ ॥

छदनद्वये च सम्पूज्य पट्टिके शतरुद्रकान्
पूर्वादि लोकपालांश्च वामादिशक्तिमर्चयेत् ॥ १९ ॥

मण्डलं त्रितयञ्चैव कुटिलान्तं यजेत् गुरुः
पञ्चवक्त्रं दशभुजं मूर्तिं द्ध्यात्वा च साधकः ॥ २० ॥

सदाशिवं यजेत् मूर्तिं शिखरे पूजयेत्ततः
पूर्वादि कुण्डदेशे तु गुहं सम्पूजयेत्ततः ॥ २१ ॥

दक्षिणे दक्षिणामूर्तिं पश्चिमे वैष्णवं यजेत्
पितामहं यजेत्सौम्ये चतुर्दिक्पूजयेत्ततः ॥ २२ ॥

मुखहविधिं पूज्य सारथी नाममुच्यते
पार्श्वद्वये द्वारपालौ जयञ्च विजयं यजेत् ॥ २३ ॥

रथाग्रे रज्जुमभ्यर्च्य अष्टनागान्प्रपूजयेत्
चतुर्वेदं समभ्यर्च्य तुरङ्गं पूजयेत्ततः ॥ २४ ॥

जीवन्यासं ततः कृत्वा षडद्ध्वा च ततः परम्
आधारे भुवनाद्ध्वा च पदाध्वापदयोरपि ॥ २५ ॥

प्रस्तरे तु कलाद्ध्वा च तत्वाद्ध्वा गलदेशके
वर्णाद्ध्वा मस्तके न्यस्य मूर्ध्नौ मन्त्रं न्यसेत्ततः ॥ २६ ॥

एतेषु च षडाधारं मूलाधारादिमर्चयेत्
घटस्नानन्ततः पश्चात् नैवेद्यन्धूपदीपकम् ॥ २७ ॥

घटे तु जलमापूर्य्य गन्धादुपरिपूरितम्
कामबीजं समभ्यर्च्य रथाग्रे स्थापयेत्ततः ॥ २८ ॥

उत्सवेशसमीपेतु देवानुज्ञाययागतः
लब्धानुज्ञो गुरुं प्राप्य विघ्नेशं पूजयेत्ततः ॥ २९ ॥

सुमुहूर्ते सुलग्ने च नानावाद्यैस्समन्वितम्

~

नानाभक्तजनैर्य्युक्तं गीतनृत्तादिभिस्सह ॥ ३० ॥

छत्रचामरपिञ्छैश्च गीर्वाणब्राह्मणैस्सह
मञ्चे वा शिबिके वापि मन्दं मन्दगतिस्तथा ॥ ३१ ॥

प्रासादमारोप्य गुरुः देवमारोपयेत्ततः
सिह्मासने भवेद्विद्वान् ॥ ३२ ॥

परितः पटमाबन्ध्य आचार्यस्सव्यभागके
मूलमन्त्रञ्जपित्वा तु तदधः परिचारकैः ॥ ३३ ॥

ब्राह्मणैश्च सहोपेतः तदधोदासिदासकैः
शिवभक्तजनैर्युक्तम् अग्रे सारधिरुच्यते ॥ ३४ ॥

राजोपचारमार्गेण प्रादक्षिण्य क्रमेण वा
पूर्वस्थाने तु निर्वृत्य धूपदीपन्तथाचरेत् ॥ ३५ ॥

पुष्पाञ्जलिं पुराप्रोक्तं गन्धाम्बुजलमाहरेत्
शिवभक्तजनान्सर्वान्विकिरेत् गन्धतोयकैः ॥ ३६ ॥

प्रदोषसमये प्राप्ते मञ्चे वा शिबिकेऽपि वा
गत्वालयं प्रविश्याथ आरोप्य स्थानमण्टपे ॥ ३७ ॥

अथवा विड्वरे वापि वृष्टिभिः अन्यपीडितैः
देवमारोप्य मञ्चे वा रथमादाय तत्क्षणैः ॥ ३८ ॥

आलये वेशयेच्चैव स्नपनं कारयेत्ततः
वक्ष्येऽहं श्रुणु षड्वक्त्ररथं वीद्ध्यन्तरे सति ॥ ३९ ॥

दण्डचक्रविहीने तु राजादुर्जयमाप्नुयात्
शान्तिहोमं ततः कृत्वा पुनस्सन्धानमाचरेत् ॥ ४० ॥

अथवा हीनमेवापि विड्वरे वृष्टिपीडने
मञ्चे वा शिबिके वापि देवमारोप्य तत्क्षणे ॥ ४१ ॥

प्रादक्षिण्य क्रमेणैव मन्दिरं वेशयेत्ततः
रथे वृष्टिभये प्राप्ते संहिताहोममिष्यते ॥ ४२ ॥

रथमारोप्य तत्पूर्वं सदावृष्टिभये सति
उदयास्तमपर्यन्तं पीड्यते चोत्सवे तथा ॥ ४३ ॥

राजादुर्मरणं प्राप्ते तद्दोषशमनाय च
दिशाहोमन्तथा कृत्वा अष्टोत्तरशतन्तु वा ॥ ४४ ॥

स्नपनं कारयेत्पश्चात् घोरे लक्षं जपेत्ततः
सहस्रं होमयेत्पश्चात् शेषं पूर्ववदाचरेत् ॥ ४५ ॥

सपताकावरोहान्ते पुनरूपस्समाचरेत्
अथवा द्रव्यहीने वा पञ्चास्त्रेण पृथक्पृथक् ॥ ४६ ॥

घोरपञ्चाशतं सहस्रं सम्प्रार्त्थ्य परमेश्वरम्
रथाय नमनूपत्ते प्रमादादुत्सवेश्वरम् ॥ ४७ ॥

अवग्रहो भवेद्राज्ये दुर्भिक्षं व्याधिभिस्तथा
तद्दोषशमनार्त्थाय महास्नपनमाचरेत् ॥ ४८ ॥

स्नपनं मूलबेरस्य अभिषिच्य विशेषतः
अष्टोत्तरशतं वापि स्नपनम् उत्सवेश्वरम् ॥ ४९ ॥

तदेवानुग्रहकारार्त्थं महापीठन्तु पङ्कजम्
उपरिस्कन्दमित्युक्तं महेशाकृतिमुच्यते ॥ ५० ॥

तद्वामे देवसेनाञ्च एकपीठस्थितान्तथा
शिवलिङ्गं महाशब्दं स्कन्दरूपं प्रकीर्तितम् ॥ ५१ ॥

लोके सृष्टिस्थितिञ्चैव तिरो भावन्तु संहृदि
विश्वं सम्मोहनार्त्थञ्च वीरशक्तिं निरुच्यते ॥ ५२ ॥

सामाया इति विज्ञेयः तस्मात्सर्वोत्सवे सह
माशब्दं भूम्यते लोके याशब्दं शक्तिरुच्यते ॥ ५३ ॥

सामाया इति विज्ञेया कुलालचक्रमृत्कथम्
दक्षिणान्दापयेच्चैव ब्राह्मणान्भोजयेत्ततः ॥ ५४ ॥

आचार्यं पूजयेत्पश्चात्सपुण्याङ्गतिमाप्नुयात् ॥ ५५ ॥

इति रथप्रतिष्ठापटलष्षण्णवतितमः