महामारिप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि ज्वरपीडा निवारणम्
स्फोटकादिप्रशमनं सर्वलोकभयङ्करम् ॥ १ ॥
मारासुरेणबलिना बीडिते च जगत्त्रये
मारासुरवधं पूर्वं महामारीति नामतः ॥ २ ॥
त्रिणेत्राचतुर्भुजाशान्ता करालवदनान्विता
ज्वलोर्ध्वकेशिनीरक्ता कपालं खट्गपाशिनी ॥ ३ ॥
डमरुन्धार्यते चैव पद्मपीठोपरिस्थिता
शयनं वामपादन्तु लम्बितं सव्यपादकम् ॥ ४ ॥
कृष्णवस्त्रसमायुक्तां नागयज्ञोपवीतिनीम्
ताटङ्कं दक्षिणे कर्णे वामे लम्बसमन्विताम् ॥ ५ ॥
सर्वाभरणभूष्याञ्च प्रभामण्डलमद्ध्यगाम्
एवं सङ्कल्प्यविधिवत् प्रतिष्ठां कारयेत्ततः ॥ ६ ॥
ग्रामस्यैशान्यदिग्भागे पूर्वे वा दक्षिणेऽपि वा
पश्चिमे च प्रकर्तव्यं देव्यालयन्तु पूर्ववत् ॥ ७ ॥
पूर्वोक्तविधिना चैव षोडश स्तम्भसंयुतम्
मद्ध्ये वेदिं प्रकल्याथ दर्पणोदरसन्निभम् ॥ ८ ॥
पूर्वाद्यष्टदिशी चैव योनिकुण्डं त्रिमेखलम्
चन्द्रईशानयोर्मद्ध्ये वृत्तकुण्डं प्रकीर्तितम् ॥ ९ ॥
पूर्वादि च चतुर्दिक्षु उपवेदिं प्रकल्पयेत्
पूर्वोक्तविधिना चैव नयनोन्मीलनक्रिया ॥ १० ॥
जलाधिवासनं पश्चात् बिम्बशुद्धिमतः परम्
शयनारोपणं पश्चात्पूर्वोक्तविधिनाचरेत् ॥ ११ ॥
वेदिका मद्ध्यमे चैव धान्यपुञ्जैरलङ्कृतम्
ससूत्रं सापिधानञ्च सकूर्चं नालिकेरकम् ॥ १२ ॥
करकं समलङ्कृत्य आसनं पूर्ववद्यजेत्
मूर्तिमभ्यर्च्य सम्पूज्य कलान्यासं समाचरेत् ॥ १३ ॥
नेत्रमुद्रां प्रदृश्याथ पुनरावाह्यमुद्रया
प्रणवं पूर्वमुच्चार्य मायाबीजमतः परम् ॥ १४ ॥
छ्रीङ्कारन्तु ततः पश्चात् हः हः हुम्फट् इत्यपि
स्वाहान्तमुच्चरेत्पूज्य आवाह्य घटमद्ध्यमे ॥ १५ ॥
परमेशं प्रपूज्याथ लयाङ्गं पूजयेत्पुरा
भोगाङ्गं पूजयेत्पश्चात् हृदयादि प्रपूजयेत् ॥ १६ ॥
काली च कालरात्री च भद्रा च कोमली तथा
यामली चैव पाशाङ्गी च कोराक्षी तथैव च ॥ १७ ॥
षट्कोणवासिनीत्येते अष्टकुम्भेषु पूजयेत्
द्वितीय्यावरणं पूज्य तृतीय्यावरणं श्रुणु ॥ १८ ॥
{
पृथिवी अत्भिनी चैव तेजस्वी वायवी तथा
आकाशी चैव आदित्या चन्द्रा च यजमाननी ॥ १९ ॥
तृतीय्यावरणं पूज्य चतुर्त्थावरणं श्रुणु
लोकपालान्समभ्यर्च्य पञ्चमावरणं श्रुणु ॥ २० ॥
वज्रादीन्पूजयेत्पश्चात् मङ्गलान्पूजयेत्ततः
पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत् ॥ २१ ॥
सर्षपान्नं मरीच्यन्नं हरिद्रान्नं हुनेत्ततः
माषान्नं पायसञ्चैव माषापूपं हुनेत्ततः ॥ २२ ॥
ताम्म्रपात्रे क्षिपेद्गव्यं होमयित्वा विशेषतः
कूश्माण्डं तु वपाहोमं नालिकेरान्हुनेत्ततः ॥ २३ ॥
हिंशु हुत्वा विशेषेण दशांशं होमयेत्ततः
हेलामन्त्रं समुच्चार्य सहस्रं होमयेत्ततः ॥ २४ ॥
भाषामन्त्रं समुच्चार्य सहस्रं होमयेत्ततः
प्रायश्चित्तं हुनेत्तत्र अग्निस्थं योजयेत् घटे ॥ २५ ॥
माहिषाज्यं समादाय चित्रदीपं समाचरेत्
सुमुहूर्ते सुलग्ने च अभिषेकं समाचरेत् ॥ २६ ॥
महाहविर्न्निवेद्याथ धूपदीपादिकं चरेत्
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः ॥ २७ ॥
अन्ते पशुबलिङ्कृत्वा पारशैवेन कारयेत्
प्रतिष्ठोत्सवकर्माणि आदिशैवेन कारयेत् ॥ २८ ॥
नित्यपूजां विशेषेण पारशैवेन कारयेत्
पशुपीठे तु संयोज्य कुरङ्गं सूकरं बलिः ॥ २९ ॥
वायव्ये महिषं हत्य पारशैवेन कारयेत्
स्नपनं कारयेत्पश्चात्सराजाविजयी भवेत् ॥ ३० ॥
एवं यः कुरुते मर्त्यः सपुण्याङ्गतिमाप्नुयात् ॥ ३१ ॥
इति महामारीप्रतिष्ठापटलः पञ्चनवतितमः