०९४ गोपुरप्रतिष्ठापटलः

गोपुरप्रतिष्ठापटलप्रारम्भः

योगपीठसमायुक्तं भोगं वामसमन्वितम्
लिङ्गन्तु शिवरूपं यः बीजं पीठमिहोच्यते ॥ १ ॥

ऊर्ध्वभागमधोभागं मद्ध्यभागं त्रयोविधम्
लिंशब्दम् ऊर्ध्वभागन्तु अधोमद्ध्यङ्गमुच्यते ॥ २ ॥

नादरूपं शिवं ज्ञेयः शिवलिङ्गमिति स्मृतम्
गरूपन्तु महापीठे लिकारं पद्ममुच्यते ॥ ३ ॥

शिकारञ्च महेशञ्च शिवलिङ्गाकृतिर्भवेत्
जगत् भोगनिमित्त्यार्त्थं तद्वामे भोगशक्तिका ॥ ४ ॥

तस्मादुमामहेशञ्च शिवदीक्षार्त्थमात्मना
मद्ध्ये स्कन्दाग्निभावञ्च सोमास्कन्नेश्वरं विदुः ॥ ५ ॥

द्व्यंशमुच्यते
एकांशं जगती चैव एकांशं कुमुदं भवेत् ॥ ६ ॥

बाह्यं पादांशमित्युक्तं त्रिपादांशं तु घट्टिका
अर्द्धांशं बाह्यमित्युक्तं त्रिपादं वेदिकं भवेत् ॥ ७ ॥

पादोन्नतं दशांशं स्यात् एकांशं गात्रमुच्यते
एकांशं पद्मजटिलं द्व्यंशन्तु सकपोतिका ॥ ८ ॥

एकांशं योगमित्युक्तं गृहाकृतिं प्रकीर्तितम्
पार्श्वयोर्वेदघोषञ्च गात्रान्तं वेदिकान्तथा ॥ ९ ॥

पार्श्वयोर्देवकोष्ठञ्च त्रियंशं विस्तरं भवेत्
पञ्चांशं कोष्ठमित्युक्तं शेषं शालाकृती भवेत् ॥ १० ॥

परिविशेषेण चतुरुत्तरत्रिंशत्
पक्षांशं मद्ध्यमे शालां तन्मद्ध्ये तु ततः श्रुणु ॥ ११ ॥

पञ्चांशं द्वारविस्तारं मद्ध्यशालां भवेत्ततः
पार्श्वयोः पञ्चभागञ्च शालाकारं प्रकीर्तितम् ॥ १२ ॥

चतुरंशं पार्श्वयोश्च कूटं वातुलमेव च
मद्ध्ये मद्ध्ये द्वियंशं च द्विपादं शालमुच्यते ॥ १३ ॥

दशांशमुन्नतं प्रोक्तं पार्श्वशालाप्रकीर्तितम्
द्वादशांशन्तु विस्तारं द्वितले मद्ध्यमं तथा ॥ १४ ॥

त्रिभागं मद्ध्यमे द्वारं विस्तारञ्च पृथक्पृथक्

पार्श्वयोश्च त्रियंशञ्च शालाकारमिहोच्यते ॥ १५ ॥

त्र्यंशं पार्श्वयोः कूटमद्ध्ये मद्ध्ये तु पूर्ववत्
दलान्तं चतुरंशञ्च त्रिंशदंशं ततोपरि ॥ १६ ॥

सप्तांशं मद्ध्यमे शालां मद्ध्ये रन्ध्रं द्वियंशकम्
नवांशमुन्नतं प्रोक्तं नासिका कृतिपूर्ववत् ॥ १७ ॥

युगांशं मद्ध्यमे शालां पार्श्वयोश्च तदन्तरे
नासिका कुटवच्चैव यालाच्च शिखरान्तकम् ॥ १८ ॥

अष्टादशांशमौन्नत्यं विमानाकृतिदीर्घकम्
कुक्षिं मद्ध्यममासक्तं मद्ध्यमे सिकता तथा ॥ १९ ॥

तत्र्यंशं पार्श्वयोर्न्नासिं द्विपार्श्वे सिकता द्वयम्
तन्मद्ध्ये कूटमित्युक्तं तदर्द्धं मानमुच्यते ॥ २० ॥

पद्मोपरि च स्थातव्यं पञ्चकुम्भं प्रकीर्तितम्
पञ्चांशे श्रोत्रमेवोक्तं तत्साम्यं नासिकाशिरः ॥ २१ ॥

प्रथमावरणे चैव त्रितलं परिकीर्तितम्
प्रथमावरणे चैव त्रितलं द्वितलन्तु वा ॥ २२ ॥

द्वितीय्ये ऋतुसङ्ख्या च तृतीय्ये मुनिसङ्ख्यया
चतुर्त्थे रन्ध्रसङ्ख्या च पञ्चमे रुद्रसङ्ख्यया ॥ २३ ॥

एवं कल्पयते चैव प्रतिष्ठां श्रुणु षण्मुख
षोडशस्तम्भसंयुक्तं पूर्ववद्यागमण्टपम् ॥ २४ ॥

मद्ध्ये वेदिं प्रकल्प्याथ दर्पणोदरसन्निभम्
पूर्वादिषु चतुर्दिक्षु चतुर्वेदिं प्रकल्पयेत् ॥ २५ ॥

पञ्चकुण्डं प्रकल्प्याथ मेखलात्रयमुन्नतम्
मद्ध्ये तच्चघटान्यस्य पूर्वादियुगवेदिकाम् ॥ २६ ॥

एकमेकं न्यसेत्कुम्भं ससूत्रं सापिधानकम्
शिकारे पूर्णकुम्भञ्च यावत्सङ्ख्या घटं न्यसेत् ॥ २७ ॥

घटं प्रतिविशेषेण एकमेकं न्यसेत् घटम्
ससूत्रं सापिधानञ्च स्थापयेत्साधकोत्तमः ॥ २८ ॥

सप्तविंशत् घटान्न्यस्य अस्त्रराजं च वर्द्धनीम्
तोरणान्मङ्गलान्शस्त्रान्पञ्चावरणमार्गतः ॥ २९ ॥

अङ्कुरं वास्तुयजनं बिम्बशुद्धिमतः परम्
रक्षाबन्धनमेवोक्तं कण्ठे बध्नीतसाधकः ॥ ३० ॥

पश्चात्सुरादिपूजांश्च वेदिका मद्ध्यमे ततः
पूर्ववच्चासनं पूज्य द्ध्यायेन्महासदाशिवम् ॥ ३१ ॥

सहस्रबाहुसंयुक्तं सहस्रमकुटोज्वलम्
खण्डेन्दुमौलिं सर्वेशं प्रतिवक्त्रं त्रिलोचनम् ॥ ३२ ॥

स्फटिकाभन्तनोरेकं सहस्रपदसंयुतम्
एवन्ध्यात्वा विशेषेण पूजयेत्कुम्भमद्ध्यमे ॥ ३३ ॥

भ्रमतीं वर्द्धनीं पूज्य प्रथमावरणं यजेत्
हृदयादीन्समभ्यर्च्य द्वितीय्यावरणं श्रुणु ॥ ३४ ॥

धूर्जटिं सर्वलम्बञ्च वीररुद्रन्तथैव च
जटिलो भीमकेशश्च भीमसेविन्यमेव च ॥ ३५ ॥

उग्रदन्तोविराट्रुद्र अष्टकुम्भेषु पूजयेत्
पूर्वादिषु चतुर्दिक्षु वेदिकायाङ्गुहं यजेत् ॥ ३६ ॥

दक्षिणे दक्षिणामूर्तिं पश्चिमे वैष्णवन्तथा
उत्तरे विधिमभ्यर्च्य पूजयित्वा विशेषतः ॥ ३७ ॥

यावत्सङ्ख्या च मकुटं घटमेकं पृथक्पृथक्
एकद्वित्रितलं प्रोक्तं मकुटं त्रिकसङ्ख्यया ॥ ३८ ॥

भूते च मूर्तिसङ्ख्या च मुनिनारन्ध्रसङ्ख्यया
रन्ध्रं वा इन्द्रसङ्ख्या च रुद्रसङ्ख्या त्रयोदश ॥ ३९ ॥

त्रयोदश च पक्षं स्यात्पक्षस्थं दशकन्तथा
घटं सप्तदशं न्यस्य कुम्भं सप्तदशं न्यसेत् ॥ ४० ॥

संविदो मुनिवक्त्रश्च नीलरुद्रो महाविभुः
कालदेहः पार्वतीशोभ्रुकुटः परमेश्वरः ॥ ४१ ॥

हुङ्कृतः कलभश्चैव नादशब्दस्सुशब्दकः
रवीशस्सिंह्मवक्त्रश्च विबलो नामिकस्तथा ॥ ४२ ॥

फलकाश्चैव इत्येते सम्पूज्य कलशेषु च
कुण्डेष्वग्निं प्रतिष्ठाप्य पूर्वोक्तविधिना हुनेत् ॥ ४३ ॥

षडद्ध्वन्यासमाराद्ध्य तत्व तत्वेश्वरान्यजेत्

अग्निस्थन्तु घटे योज्य सुमुहूर्ते सुलग्नके ॥ ४४ ॥

आसनम्मूर्तिमभ्यर्च्य विद्यादेहं प्रकल्पयेत्
प्रधानघटमादाय परिचारकमस्तके ॥ ४५ ॥

शनैः प्रदक्षिणं कृत्वा आरोप्य गोपुरान्तरे
मद्ध्यमे नासिका मूर्ध्नि घटं स्थाप्य समाचरेत् ॥ ४६ ॥

महासदाशिवन्ध्यात्वा देवस्याभिमुखे स्थितः
परितोष्टघटान्योज्य नैवेद्यन्धूपदीपकम् ॥ ४७ ॥

संवक्त्रादिघटं ग्राह्य पूर्णकुम्भेषु योजयेत्
त्रितलादिपक्षसङ्ख्यान्तं गन्धपुष्पादिनार्चयेत् ॥ ४८ ॥

अङ्गतो जाङ्गलश्चैव पुरुषादितले यजेत्
विद्युन्नागद्वयश्चैव भूतसङ्ख्या तले यजेत् ॥ ४९ ॥

क्रोधो मृत्युञ्जयश्चैव पूर्वोक्तदेवतैस्सह
मुनिसङ्ख्यातले पूज्य चामरोपीतरागकः ॥ ५० ॥

रन्ध्रसङ्ख्या तले चैव हेतुकः कारणेश्वरम्
एकादशं तले पूज्य सङ्गतश्शृङ्गिणस्तथा ॥ ५१ ॥

त्रयोदशतले पूज्य घण्टकोवीरचन्द्रिका
पक्षसङ्ख्या तले पूज्य भावयेत्साधकोत्तमः ॥ ५२ ॥

ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं सम्पूज्य विधिवत् शिवसायुज्यतां व्रजेत् ॥ ५३ ॥

इति गोपुरप्रतिष्ठापटलश्चतुर्नवतितमः