०९३ षण्मुखस्थापनपटलः

षण्मुखस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वपीडा निवारणम्
सर्वव्याधिप्रशमनं षण्मुखस्थापनं परम् ॥ १ ॥

षड्वक्त्रं द्वादशाक्षञ्च प्रतिवक्त्रं द्विलोचनम्
बालचन्द्रसमप्रख्यं द्वात्रिंशल्लक्षणान्वितम् ॥ २ ॥

शिख्यन्तं वा शिखस्थं वा पादौ नूपुरमण्डितौ
शक्तिं शरञ्च खड्गञ्च अभयं द्ध्वजमेव च ॥ ३ ॥

गदाचापञ्चकुलिशं खेटकं शूलमेव च
वरदं पङ्कजं धार्यं द्वादशं करमानतः ॥ ४ ॥

शिखिस्थं लम्बपादञ्च दक्षिणे शयनं पदम्
समपादं पद्मपीठे शिख्यन्तं परिकीर्तितम् ॥ ५ ॥

करद्वादशसंयुक्तम् एकाननं विशेषतः
षड्वक्त्रं षड्भुजं वक्ष्ये नागवज्रवराभयम् ॥ ६ ॥

शक्त्यायुधधरं वन्दे वक्त्रं वावरबाहुकम्
घण्टाकपालसंयुक्तं शेषं पूर्ववदाचरेत् ॥ ७ ॥

षडाननं द्विहस्तं स्यात् वज्रशक्तिधरं भवेत्
एकवक्त्रञ्चाष्टबाहुं पूर्ववच्छिखिनं भवेत् ॥ ८ ॥

एकवक्त्रं द्विबाहुञ्च कटिबन्धाभयन्तथा
शिरश्चक्रसमायुक्तं वस्त्रयज्ञोपवीतकम् ॥ ९ ॥

प्रभायां मकराख्यञ्च सर्वावयवसुन्दरम्
उत्तरे देवसेनाञ्च द्विभुजा च द्विनेत्रका ॥ १० ॥

किरीटमकुटोपेतम् उत्पलं लम्बहस्तकम्
चित्रवस्त्रसमायुक्ता पीतवर्णसमन्वितम् ॥ ११ ॥

वल्ली च दक्षिणे पार्श्वे सरत्नमकुटोज्वलाम्
स्तनौ कञ्चुकसंयुक्तौ पङ्कजं लम्बहस्तकम् ॥ १२ ॥

रत्नवर्णधरां देवीं चित्रवस्त्रसमन्विताम्
एवं द्ध्यात्वा विशेषेण शैलैर्वृत्तमृजेऽपि वा ॥ १३ ॥

स्थपतिः स्थापकश्चैव आलोच्य युक्तकर्मणि
पूर्वोक्तविधिना चैव यागशालां प्रकल्पयेत् ॥ १४ ॥

षोडशस्तम्भसंयुक्तं चतुर्द्वारसमन्वितम्
चतुस्तोरणमित्युक्तं मद्ध्ये वेदिं प्रकल्पयेत् ॥ १५ ॥

चतुरश्रं प्रकल्प्याथ दर्पणोदरमद्ध्यमम्
चन्द्रईशानयोर्मद्ध्ये षडश्रं कुण्डमुच्यते ॥ १६ ॥

चतुरश्रार्द्धचन्द्रञ्च वृत्तपद्मं विदिक्षु च

योनित्रिकोणषट्कोणं मङ्गलाश्रं प्रकीर्तितम् ॥ १७ ॥

वायव्ये वेदिकां कृत्वा दर्पणोदरसन्निभाम्
तत्पूर्वे योनिकुण्डन्तु पूर्ववत्परिकीर्तितम् ॥ १८ ॥

नैर्ऋते वेदिकां कृत्वा पूर्ववत्परिकीर्तितम्
तत्पूर्वे योनिकुण्डञ्च मेखलात्रयमुत्तमम् ॥ १९ ॥

एकासने प्रकर्तव्यं कारयेदेकमण्टपे
पृथगासनपक्षेऽपि सव्ये वामे पृथक्पृथक् ॥ २० ॥

पूर्ववद्यागशालाञ्च षोडश स्तम्भसंयुताम्
वेदिका मद्ध्यमे कुर्यात्पूर्वाद्यष्टसुदिक्षु च ॥ २१ ॥

योनिकुण्डं प्रकल्प्याथ अष्टकुण्डं प्रकीर्तितम्
इन्द्रईशानयोर्मद्ध्ये वृत्तकुण्डं तथैव च ॥ २२ ॥

नयनोन्मीलनं पश्चात् ज्योतिर्मण्डलमालिखेत्
कन्निकागोयदींश्चैव विप्रयुग्मं प्रदर्शयेत् ॥ २३ ॥

धान्यञ्च यजमानञ्च जनसङ्घं प्रदर्शयेत्
जलाधिवासनं पश्चात् बिम्बशुद्धिमतः परम् ॥ २४ ॥

मृत्सङ्ग्रहणमेवोक्तं पूर्ववत्परिकल्पयेत्
पालिकाघटिका चैव शरावं त्रिविधं भवेत् ॥ २५ ॥

वसुसङ्ख्या क्रमेणोक्तं लोकपालान्प्रपूजयेत्
भानुसङ्ख्या क्रमेणैव वैकर्तादीन्प्रपूजयेत् ॥ २६ ॥

चतुर्विंशतिसङ्ख्या च वक्ष्येऽहं श्रुणु षण्मुख
धातारं पद्मयोनिञ्च चतुर्मुखपितामहम् ॥ २७ ॥

अजं विरिञ्चिं वागीशं कमलासनमेव च
केशवं माधवञ्चैव त्रिविक्रमं मधुसूदनम् ॥ २८ ॥

वामनं श्रीधरञ्चैव पद्मनाभानिरुद्धकौ
सुब्रह्मण्यं कुमारञ्च गुहञ्चैव तु षण्मुखम् ॥ २९ ॥

स्कन्दं सेनापतिञ्चैव हरसूनुञ्च कुक्कुटम्
मद्ध्ये चन्द्रं समभ्यर्च्य नैवेद्यं धूपदीपकम् ॥ ३० ॥

वास्तुनाथं प्रपूज्याथ मण्टपे पूजयेत्ततः
वास्तुहोमं ततः कृत्वा स्कन्दसूक्तेन होमयेत् ॥ ३१ ॥

गुहञ्च स्वामिमन्त्रञ्च नमो मन्त्रं हुनेत्ततः
प्रायश्चित्ताहुतिं कृत्वा पर्यग्निकरणञ्चरेत् ॥ ३२ ॥

रक्षाबन्धनसूत्रेण स्वर्णेन रजतेन वा
स्वामिमन्त्रेण बध्नीयात् शयनारोपणन्ततः ॥ ३३ ॥

अण्डजं मुण्डजञ्चैव दारुजं योनिजन्तथा
बीजजं यवमेवोक्तं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ ३४ ॥

दर्भमालां प्रदास्यामि त्यक्त्वा शयनमण्टपे
निद्राकुम्भं शिरोदेशे नवकुम्भन्न्यसेत्ततः ॥ ३५ ॥

मद्ध्ये स्कन्दं समभ्यर्च्य लोकपालान्यजेत्ततः
पाददेशे न्यसेत्तैलं वस्त्रेणाच्छादयेत्ततः ॥ ३६ ॥

मण्टपाराधनं पूर्वं सौरपूजां चरेत्पुरा
पश्चिमद्वारदेशे तु द्वारपालार्चनन्ततः ॥ ३७ ॥

गणेशं चाश्विनीं लक्ष्मीम् ऊर्ध्वोदुम्बरमद्ध्यमे
सुदेहं पूजयेल्लक्ष्मीं सव्यभागे यजेत् गुरुः ॥ ३८ ॥

प्रमुखं दीपयेत्पूजां वामभागे प्रपूजयेत्
सव्ये शङ्खनिधिञ्चैव वामे पद्मनिधिं यजेत् ॥ ३९ ॥

विजयं जयमभ्यर्च्य कवाटे पूजयेत्ततः
अग्रेणाजं समभ्यर्च्य अस्त्रं देहलिमद्ध्यमे ॥ ४० ॥

पूजयेद्धूपदीपैश्च वास्तुनाथं समर्चयेत्
चतुर्बिलान्समभ्यर्च्य मङ्गलान् तोरणान्पुरा ॥ ४१ ॥

महावल्ली च मेधा च देवसेना गजेन्द्रका
मधुरश्च सुदेहश्च सुमुखः श्रीधरस्तथा ॥ ४२ ॥

सुदेहं सुमुखं पूर्वे पूजयित्वा विशेषतः
महावल्ली च मेधा च सव्ये सम्पूज्य पार्श्वयोः ॥ ४३ ॥

मधुरः श्रीधरश्चैव पश्चिमे पूजयेत् घटे
देवसेना सुमित्रा च उत्तरे पूजयेत्ततः ॥ ४४ ॥

लक्ष्मीं गणेशं सम्पूज्य ईशे शान्तं गुरुं यजेत्
आत्मानं पूजयेत्पश्चात् शिवहस्तं विभावयेत् ॥ ४५ ॥

वेदिका मद्ध्यमे पूज्य क्षित्यादिकुटिलान्तकम्

मूर्ध्निन्यासं न्यसेच्चैव विद्यादेहमतः परम् ॥ ४६ ॥

नेत्रमुद्रां प्रदृश्याथ षण्मुखे तु पृथक्पृथक्
अष्टगन्धेन मिश्रञ्च सुगन्धसहितं हिमम् ॥ ४७ ॥

आवाह्य मुद्रयाग्राह्य मूलाधारान्स्वसूत्रतः
प्रणवं पूर्वमुच्चार्य एकमात्रां समुच्चरन् ॥ ४८ ॥

ऊर्ध्वे हकारमुच्चार्य उद्धृत्य हृदयान्तकम्
अकारश्च उकारश्च मकारो बिन्दुरेव च ॥ ४९ ॥

अर्द्धचन्द्रनिरोधी च नादोनादान्त एव च
शक्तिश्च व्यापिनी चैव समनाचोन्मना तथा ॥ ५० ॥

भाष्योच्चारक्रमेणैव द्वादशान्तं लयान्तकम्
उच्चार्यद्ध्यानमात्रेण उछ्वासं निमिषे तथा ॥ ५१ ॥

अधोमार्गे समाकृष्य अञ्जलीं बिन्दुलक्षकम्
शिकारमुच्चरेच्चैव वकारं नासिदेशके ॥ ५२ ॥

यकारं गण्डदेशे तु नकारं हृदये तथा
मूलाधारे मकारन्तु उच्चार्याकृष्य अञ्जलिम् ॥ ५३ ॥

पुनरुद्धृत्य मानन्तु प्रणवं पूर्वमुच्चरन्
हकारमुच्चरेत्पश्चात् वाश्विबीजं समुच्चरन् ॥ ५४ ॥

बीजं मकारं पश्चात्तु विह्निबीजमतः परम्
नकारन्तु ततः पश्चात् लकारन्तु ततः परम् ॥ ५५ ॥

मायाबीजन्ततः पश्चात्स्कन्दबीजमतः परम्
लक्ष्मीबीजं समुच्चार्य षडक्षरमतः परम् ॥ ५६ ॥

चतुर्त्थ्यन्तन्नमोन्तञ्च ईशतत्वान्तमुच्चरन्
सम्यक्सादाख्य तत्वञ्च उच्चरेत्तु ततः परम् ॥ ५७ ॥

शिवभावनात्
अथोञ्जलिं समाकृष्य सुब्रह्मण्याय नम इति ॥ ५८ ॥

भ्रूमद्ध्यान्तं समानीय्य खण्डिका द्वारमुत्तमम्
बिन्दुस्थानमिति ज्ञेयः ॥ ५९ ॥

तत् द्वारान्मूर्तिमादाय हृदयेनैव मन्त्रतः
आवाह्य स्थापनञ्चैव सन्निधानन्तथैव च ॥ ६० ॥

सन्निरोधावकुण्ठन्तु सौधामुद्राप्रतापयेत्
वदशम्भो कथं भेदं प्रासादं पूर्वमुच्चरन् ॥ ६१ ॥

तत्तन्मन्त्रं ततः पश्चात्कथितं वदमे प्रभो
सृष्टिकाले महासेन लोकानुग्रहहेतवे ॥ ६२ ॥

वाच्य वाचकमन्त्राश्च सप्तकोटिश्च सङ्ख्यया
शिवे तु जायते मन्त्राः सर्वे देवाश्च जायते ॥ ६३ ॥

पञ्चाक्षरं मन्त्ररूपं सर्वमन्त्राधिनायकम्
सर्वदेवमयन्ध्यात्वा सर्वमन्त्रमयं पुरा ॥ ६४ ॥

अनादिसञ्ज्ञया प्रोक्तं प्रासादमिति कत्थ्यते
प्रासादं पूर्वमुच्चार्य अन्यमन्त्रं ततः परम् ॥ ६५ ॥

यदुच्चार्य यजेदेवं तद्देवेदीर्घजीवि च
प्रासादं नोच्चरेत्पूर्वं केवलं मन्त्रमुच्चरन् ॥ ६६ ॥

आचार्यो नरकं याति देवता च पराङ्मुखा
तद्दोषशमनार्त्थाय प्रासादेनायुतं जपेत् ॥ ६७ ॥

जपकाले होमकाले तत्तन्मन्त्रेण कारयेत्
प्रासादं नाचरेत्प्रोक्तं सम्यक् ज्ञात्वा च साधकः ॥ ६८ ॥

शेषन्तु पूर्ववत्पूज्य भोगाङ्गं प्रार्त्थयेत्ततः
जगद्रूपं यजेदीशे पूर्वे चैव पचत् भुवम् ॥ ६९ ॥

सव्ये विश्वद्रुवं पूज्य नैर्ऋते च द्रुवं द्रुवम्
पश्चिमेऽग्निद्रुवं पूज्य सव्ये हूहू ऋचं यजेत् ॥ ७० ॥

आग्नेय्यादि च कोणेषु हृदयादीन्प्रपूजयेत्
जयन्तमग्निशिखश्चैव कृत्तिका पुत्रवत्पतिः ॥ ७१ ॥

देवसेना पतिश्चैव हेमशूलो विशालदृक्
अष्टमूर्तीन् घटे पूज्य पाद्यार्घ्यं परिकल्पयेत् ॥ ७२ ॥

चतुर्त्थावरणं पूज्य लोकपालान्समर्चयेत्
पञ्चमावरणे शस्त्रान् यज्ञादीन्पूजयेत्ततः ॥ ७३ ॥

कुमुदादीन्यजेच्चैव हेतुकादीन्ततः परम्
रम्भादीन्मङ्गले पूज्य होमकर्म ततः परम् ॥ ७४ ॥

पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत्

पूर्वादिचतुःकुण्डे वा सद्रूपादीन्प्रकल्पयेत् ॥ ७५ ॥

शेषं प्रधानकुण्डे च अर्चयित्वा यथाविधि
पावकादिषडङ्गानि अर्चयित्वा तु साधकः ॥ ७६ ॥

समिच्चरूंश्च मुद्गञ्च माषं शिम्बं यवस्तिलम्
वेणुगोधूमचणकं निष्पावङ्गुलमेव च ॥ ७७ ॥

इक्षुखण्डञ्च कदली पनसं चूतमेव च
विभीतं चैव नारङ्गं लिकुचं सहकारिका ॥ ७८ ॥

वितालं रसमालाकं वल्लकन्दन्तथैव च
बालकन्दं रुद्रकन्दं पायसं क्षीरमुच्यते ॥ ७९ ॥

दधिगोघृतलाजञ्च सत्तुश्चापूपमेव च
वरं सर्षपपुष्पञ्च गन्धं पूर्वारुहं हुनेत् ॥ ८० ॥

अश्वत्थञ्चैव पालाशं शक्तिखादिरबिल्वकम्
अपामार्गं वटञ्चैव औदुम्बरन्तथैव च ॥ ८१ ॥

दूर्वाङ्गुली पृष्ठश्च होमयेत् श्रुणु षण्मुख
त्रिखण्डं होमयेत्पश्चात् तत्वत्रयं हुनेत्ततः ॥ ८२ ॥

पञ्चास्त्रैर्होमयेत्पश्चात् प्रायश्चित्ताहुतिं हुनेत्
जयादिरभ्यातानञ्च राष्ट्रभृच्च हुनेत्ततः ॥ ८३ ॥

अग्निस्थं योजयेत्कुम्भे सुमुहूर्त्ते सुलग्नके
क्षित्यादिकुटिलप्रान्तम् आसनं मूर्तिमर्चयेत् ॥ ८४ ॥

विद्यादेहं समाराद्ध्य नेत्रमुद्रां प्रदर्शयेत्
कुम्भात् बीजं समादाय हृदये योजयेत्ततः ॥ ८५ ॥

परितोष्टघटान्पूज्य हविर्दत्वा निवेदयेत्
स्नपनं कारयेत्पश्चात् आचार्यं पूजयेत्ततः ॥ ८६ ॥

वैवाह्य कर्मणाराद्ध्य पाणिग्रहणमाचरेत्
लाजहोमन्ततः कृत्वा जम्बुवाद्याहुतिं चरेत् ॥ ८७ ॥

देवसेनापुरा प्रोक्ता वल्लीञ्चैव ततः परम्
प्रत्येकमालयं प्रोक्तं देवसेना प्रकीर्तितम् ॥ ८८ ॥

महावल्लीं विशेषेण विना प्रत्येकमन्दिरम्
एवञ्च वीरशक्त्याख्यं द्विभुजां शान्तरूपिणीम् ॥ ८९ ॥

उत्पलं सव्यहस्ते वा लम्बितं वामहस्तकम्
किरीटमकुटोपेतं पद्मपीठोपरिस्थितम् ॥ ९० ॥

पूर्ववद्यागशालाञ्च मद्ध्ये वेदिं प्रकल्पयेत्
पूर्वाद्यष्टदिशी चैव योनिकुण्डं प्रकल्पयेत् ॥ ९१ ॥

चन्द्रईशानयोर्मद्ध्ये वृत्तकुण्डं प्रकीर्तितम्
अङ्कुरं वास्तुयजनं नयनोन्मीलनं तथा ॥ ९२ ॥

जलाधिवासनं पश्चात् शयनारोपणं परम्
सौरपूजान्ततः कृत्वा तोरणान्पूजयेत्ततः ॥ ९३ ॥

शान्तिर्विद्याप्रतिष्ठा च निवृत्तिश्च चतुष्कला
तोरणे पूजयेत्पश्चात् श्रुणु तत्पादयोर्भ्रमा ॥ ९४ ॥

भ्रमावतीं जयेत्पूर्वे सव्ये सम्पूज्य काञ्चने
विरूपीं पूजयेत्पश्चात्पश्चिमे तु ततः श्रुणु ॥ ९५ ॥

निधनं शूलधारी च उत्तरे च ततः श्रुणु
अञ्जनां काञ्चिनी चैव तोरणे पूजयेत्ततः ॥ ९६ ॥

कपाली विकराली च पूर्वे चैव समर्चयेत्
श्रीकर्णपद्मसङ्काशा वामिनी वृत्तधारिणी ॥ ९७ ॥

चतुर्दिक्षुपूजयेत्पश्चात् द्वारपूजान्ततः श्रुणु
कपालिनी विलासा च दक्षिणे पूजयेत्ततः ॥ ९८ ॥

करालीजिह्विका चैव उत्तरे पूजयेत्ततः
अग्रे मयूरमभ्यर्च्य सर्वविघ्नहरान्भवेत् ॥ ९९ ॥

देहल्यामस्त्रराजञ्च पार्ष्णिघातत्रयेण च
वास्तुनाथं प्रपूज्याथ लक्ष्मीञ्चैव गणेश्वरम् १००
ईशे शान्तगुरुं पूज्य वेदिकामद्ध्यमे तथा
आसनं पूर्तिमभ्यर्च्य मूलेनावाहयेत्ततः १०१
प्रथमावरणं पूज्य द्वितीय्यावरणं श्रुणु
दशकन्न्यां समभ्यर्च्य परितोष्टघटे न्यसेत् १०२
चतुर्त्थावरणे पूज्य लोकपालान्समर्चयेत्
पञ्चमावरणे पूज्य वज्रादीन्पूजयेत्ततः १०३
पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत्

वह्निस्थन्तु घटे योज्य सुमुहूर्त्ते सुलग्नके १०४
अभिषेकन्ततः कृत्वा हविर्दत्वा निवेदयेत्
स्नपनं कारयेत्पश्चात् अचार्यं पूजयेत्ततः १०५
वैवाह्य कर्मणाराद्ध्य पाणिग्रहणमाचरेत्
लाजहोमन्ततः कृत्वा जम्बुवाद्याहुतिं चरेत् १०६
देवसेना पुरा प्रोक्ता वल्लीञ्चैव ततः परम्
प्रत्येकालयमेवोक्तं देवसेना प्रकीर्तितम् १०७
महावल्लीं विशेषेण विना प्रत्येकमन्द्रिरम्
एवञ्च विंशत्याख्यं द्विभुजां शान्तरूपिणीम् १०८
उत्पलं सव्यहस्ते वा लम्बितं वामहस्तकम्
किरीटमकुटोपेतं पद्मपीठोपरिस्थितम् १०९
पूर्ववद्यागशालाञ्च मद्ध्ये वेदिं प्रकल्पयेत्
पूर्वाद्यष्टदिशी चैव योनिकुण्डं प्रकल्पयेत् ११०
चन्द्रईशानयोर्मद्ध्ये वृत्तकुण्डं प्रकीर्तितम्
अङ्कुरं वास्तुयजनं नयनोन्मीलनं तथा १११
जलाधिवासनं पश्चात् शयनारोपणं परम्
सौरपूजां ततः कृत्वा तोरणान्पूजयेत्ततः ११२
शान्तिविद्या प्रतिष्ठा च निवृत्तिश्च चतुष्कला
तोरणे पूजयेत्पश्चात् श्रुणु तत्पादयोः क्रमम् ११३
भ्रमावतीं पूजयेत्पूर्वे सव्ये सम्पूज्य काञ्चनाम्
विरूपीं पूजयेत्पश्चात्पश्चिमे तु ततः श्रुणु ११४
नियतं शूलधारी च उत्तरे च ततः श्रुणु
अञ्जनां काञ्चिनीञ्चैव तोरणे पूजयेत्ततः ११५
कपाली च कराली च पूर्वे चैव ततः श्रुणु
यमजिह्वासुष्ट्री च दक्षिणे पूजयेत्ततः ११६
श्रीकर्णपद्मसङ्काशो वामिनी व्रतधारिणी
चतुर्दिक्पूजयेत्पश्चात् द्वारपूजान्ततः श्रुणु ११७
कपाली च विलासी च दक्षिणे पूजयेत्ततः
कराली जिह्विका चैव उत्तरे पूजयेत्ततः ११८

अग्रे मधूरमभ्यर्च्य सर्वविघ्नहरान्भवेत्
देहल्यामस्त्रराजञ्च पार्ष्णिघातत्रयेण च ११९
वास्तुनाथं प्रपूज्याथ लक्ष्मीञ्चैव गणेश्वरम्
ईशे शान्तगुरुं पूज्य वेदिका मद्ध्यमे तथा १२०
आसनं मूर्तिमभ्यर्च्य मूलेनावाहयेत्ततः
प्रथमावरणं पूज्य द्वितीय्यावरणे श्रुणु १२१
सकन्यादीन्समभ्यर्च्य परितोष्टघटे न्यसेत्
चतुर्त्थावरणे पूज्य लोकपालान्समर्चयेत् १२२
पञ्चमावरणे पूज्य वज्रादीन्पूजयेत्ततः
पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत् १२३
वह्निस्थन्तु घटे योज्य सुमुहूर्त्ते सुलग्नके
अभिषेकं ततः कृत्वा हविर्दत्वा निवेदयेत् १२४
स्नपनं कारयेत्पश्चात् आचार्यं पूजयेत्ततः
भस्मकुम्भं समादाय मूलबेरस्य सन्निधौ १२५
स्वगृह्योक्तविधानेन अग्निकार्यं समाचरेत्
पादप्रक्षालणं कृत्वा मधुपर्कं निवेदयेत् १२६
विष्णुं सम्पूज्य सव्ये च उत्तरे वज्रमर्चयेत्
धारादत्तं शचीशेन माङ्गल्यन्धारयेत्ततः १२७
पाणिग्रहणमाकृष्य कर्त्तव्यं त्रिः प्रदक्षिणम्
लाजहोमन्ततः कृत्वा प्रायश्चित्ताहुतिं हुनेत् १२८
मन्त्रे वा शिबिके वापि घटावारोपयेत्ततः
ग्रामप्रदक्षिणं कृत्वा तूर्यवाद्यैस्समन्वितम् १२९
कौतुकञ्च सतीर्त्थञ्च आलयं वेशयेत्ततः
स्कन्दकुम्भं समादाय मूलबेरे च योजयेत् १३०
शक्तिकुम्भं समादाय गत्वा देव्यालयं गुरुः
माङ्गल्यं सूत्रमादाय कण्ठे बद्ध्नन्नियोजयेत् १३१
गजसेनं त्वयादेवे लोकानुग्रहहेतवे
आचन्द्रकारकं प्रार्त्थ्य स्थातव्यमिहमन्दिरे १३२
त्रिपक्षपूजाङ्कृत्वा तु अन्ते स्नपनमाचरेत्

इत्थं परं विशेषेण भक्तानुग्रहहेतवे १३३
उत्सवेशीं प्रकल्प्याथ मूलासक्तिसमोन्नतम्
कर्णान्तं नासिकान्तं वा कण्ठान्तं स्तनमद्ध्यमम् १३४
कट्यन्तं वा विशेषेण मधु र्दं कुट्यतम्
बिम्बाकृती विशेषेण पूर्ववद्विदजाकृतीम् १३५
मृदालेपयते पश्चात्पूर्ववत्परिकल्पयेत्
उत्पलं लम्बहस्तञ्च त्रिभागाङ्गेन संयुतम् १३६
पद्मपीठोपरिस्थञ्च महापीठोपरिन्यसेत्
प्रभायायुतसंयुक्तं प्रतिष्ठां कारयेत्ततः १३७
यागशालां प्रकल्प्याथ कुण्डमण्डलवेदिकाम्
कारयेद्विधिना चैव पूर्ववत्परिकल्पयेत् १३८
उत्सवेशं समभ्यर्च्य मूलबेरस्य सन्निधौ
संस्थाप्य भद्रपीठेऽपि भस्मकुम्भं समाददेत् १३९
स्वगृह्योक्तविधानेन अग्निकार्यं समाचरेत्
माङ्गल्यं दापयेत्पश्चात्पाणिग्रहणमाचरेत् १४०
लाजहोमन्ततः कृत्वा शेषं पूर्ववदाचरेत्
मूर्तिं मूर्तौ च संयोज्य अर्घ्यपाद्यादिकं ददेत् १४१
मञ्चे वा शिबिके वापि आरोप्यालङ्कृतन्तथा
तूर्यवाद्यैस्समायुक्तं चरेत् ग्रामप्रदक्षिणम् १४२
गत्वा देव्यालयञ्चैव मण्टपे स्थापयेत्ततः
एवन्देवोत्सवे काले देवेन सह मार्गतः १४३
प्रदक्षिणक्रमं पश्चात् देवो देवालयङ्गतः
शक्तिं शक्त्यालयङ्गत्वा नित्यपूजां समाचरेत् १४४
कथं शम्भो महेशान देवश्शक्तिः पृथक्पृथक्
उभौ महोत्सवे काले सप्रादक्षिण्यं भवेदथ १४५
अन्योन्यं नास्तिसम्बन्धं नैमित्तिकं वदप्रभो १४६
इति षण्मुखस्थापनपटलस्त्रिनवतितमः