०९२ विघ्नेशस्थापनपटलः

विघ्नेशस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि विघ्नेशस्थापनं परम्
सर्वलोकहितं पुण्यं सर्वानुग्रहकारणम् ॥ १ ॥

सर्वैश्वर्याभिवृद्ध्यर्त्थं पूजितं विष्णुनापुरा
सर्वविघ्नप्रशमनं पुत्रपौत्रविवर्द्धनम् ॥ २ ॥

पञ्चवक्त्रं दशभुजं प्रतिवक्त्रं द्विलोचनम्
गजाननं रक्तवर्णं करण्डमकुटान्वितम् ॥ ३ ॥

शूर्पाकृतिं महाश्रोत्रं बृहत्कुक्षिसमायुतम्
नागयज्ञोपवीतञ्च दक्षिणे शयनं पदम् ॥ ४ ॥

कुञ्चितं वामपादञ्च पद्मपीठोपरिस्थितम्
दन्तं कुठारपाशञ्च चक्रञ्च मुसलन्तथा ॥ ५ ॥

अपूपं टङ्कशूलञ्च ध्वजञ्च मुसलायुतम्
वामपार्श्वे धरेच्छस्त्रान्विविधैर्भूषणैरपि ॥ ६ ॥

शिरः कूर्चसमायुक्तं चित्रवस्त्रसमायुतम्
कटिसूत्रसमन्वितम् ॥ ७ ॥

यद्वा श्यामतनुं दक्षम् एकवक्त्रसमायुतम्
भुजं षोडशसङ्ख्या च गजहस्तन्तु मद्ध्यमे ॥ ८ ॥

पाशाङ्कुशं कुठारञ्च बीजं खड्गासिखेटकम्
अपूपं दन्तपरशुं दण्डं मुसलमेव च ॥ ९ ॥

घण्टा च भिण्डिपालञ्च नागमालिङ्ग्यपाणिना
वामोरुमद्ध्यमे शक्तिं पर्यङ्के च समाङ्घ्रिकाम् ॥ १० ॥

रक्तवर्णधरां देवीम् उत्पलं पङ्कजं करे
उक्तलक्षणमेवोक्तं यद्वा वक्ष्ये षडानन ॥ ११ ॥

चतुर्भुजं द्विनेत्रञ्च गजवक्त्रं शशिप्रभम्
पाशाङ्कुशं स्वदन्तञ्च वक्वमाम्रफलं वहन् ॥ १२ ॥

समपादं महापीठे सर्वलक्षणसंयुतम्
मूललिङ्गसमायामं द्विगुणं त्रिगुणी कृतम् ॥ १३ ॥

अथवा एकमानं वा शैलं वा ताम्रमेव वा
षोडश स्तम्भसंयुक्तं चतुर्द्वारसमन्वितम् ॥ १४ ॥

चतुस्तोरणसम्भूष्य मद्ध्ये वेदिं प्रकल्पयेत्
नवकुण्डं प्रकल्प्याथ पञ्चकुण्डमथापि वा ॥ १५ ॥

नयनोन्मीलनं पूर्वं चन्द्रसूर्यं यजेत् घटे
वह्निकर्मसमाराद्ध्य शताहुतिं पृथक्पृथक् ॥ १६ ॥

गणेशगायत्र्याहृत्य प्रायश्चित्तन्तु साधकः
ज्योतिर्मण्डलमालिख्य नेत्रे नेत्रघटं यजेत् ॥ १७ ॥

जलाधिवासनं पश्चात्प्रादक्षिण्य क्रमेण वा
अधश्छदमलङ्कृत्य गत्वा शयनमण्टपम् ॥ १८ ॥

मद्ध्ये वेदिं प्रकुर्वीत धान्यराशिं प्रकल्पयेत्
माषमुद्गञ्च शिम्बन्तु गोधूमं वैणवन्तथा ॥ १९ ॥

तिलनिष्पावमित्येते शिवस्य कुडुपञ्चथा
वेदिका मद्ध्यमे चैव पर्यङ्कं फलकाकृतिम् ॥ २० ॥

तस्योपरिविशेषेण सप्तधान्यैरलङ्कृतम्
क्षौमैः कार्पासवस्त्रैश्च अधश्छदमलङ्कृतम् ॥ २१ ॥

कृष्णचर्मव्याघ्रचर्मचित्रकं बलमेव वा
पिञ्छपुञ्जैरलङ्कृत्य प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ २२ ॥

रक्षाबन्धनपूर्वं यः गजहस्ते चरेत् गुरुः
तोरणान्पूजयेत्पूर्वं सौरपूजां ततः परम् ॥ २३ ॥

शिवहस्तं प्रकल्प्याथ वेदिकां पूजयेत्ततः
ससूत्रं सापिधानञ्च रत्नैस्सौवर्णपङ्कजैः ॥ २४ ॥

वस्त्रद्वयं समासाद्य सकूर्चं नालिकेरकम्
क्षित्यादिकुटिलप्रान्तम् ॥ २५ ॥

आसनं मूर्तिमभ्यर्च्य सकलान्यासपूर्वकम्
प्रणवं पूर्वमुच्चार्य द्वितीय्यस्वरमुच्यते ॥ २६ ॥

मायाबीजन्ततः पश्चात्क्रोङ्कारमुच्चरेत्ततः
गौमित्येवं ततः पश्चात् गामित्यक्षरमुच्यते ॥ २७ ॥

गणपतये नमोन्तञ्च मूलेनावाहयेत्ततः

प्रणवं पूर्वमुच्चार्य हकारन्तु ततः परम् ॥ २८ ॥

अकारश्च उकारश्च मकारो बिन्दुरेव च
अर्द्धचन्द्रनिरोधी च नादो नादान्त एव च ॥ २९ ॥

अनन्दानाश्रितायै च अनाधाव्योमरूपिका
शक्तिश्च व्यापिनी चैव समनाचोन्मना तथा ॥ ३० ॥

समनान्तं पाशजालम् उन्मन्यन्ते परं शिवः
भाष्योच्चारक्रमेणैव गुरूपदिष्टमार्गतः ॥ ३१ ॥

लयान्तमुच्चरन्प्राप्य द्वादशान्तपदे व्रजेत्
द्वादशान्तं समानीय्य निष्कलं व्यापकं शिवम् ॥ ३२ ॥

अञ्जलीकरमाकृष्य बिन्दौ स्थानेशिकारकम्
वकारं तालुदेशे तु यकारं गण्डमूलके ॥ ३३ ॥

नकारं हृत्प्रदेशे च मूलाधारे मकारकम्
मूलाधारान्तमाकृष्य पुनरुद्धृत्य पूर्ववत् ॥ ३४ ॥

प्रणवं पूर्वमुच्चार्य गणेशमन्त्रमुच्चरन्
ईशतत्वान्तमुच्चार्य सादाख्यादौ गणेश्वरम् ॥ ३५ ॥

पुनराकृष्य धोविद्यात् भ्रूमद्ध्ये द्वारखण्डिकाम्
आनीयाञ्जलिमादाय घटमद्ध्ये तु विन्न्यसेत् ॥ ३६ ॥

स्थापनं सन्निधानञ्च सन्निरोधावकुण्ठनम्
सौधं पाद्यादिकन्दत्वा कुसुमे नाञ्जलित्रयम् ॥ ३७ ॥

लयाङ्गं पूजयेत्पश्चात् भोगाङ्गं प्रार्त्थयेत्ततः
हृदयादीन्समभ्यर्च्य प्रथमावरणं यजेत् ॥ ३८ ॥

हस्तिवक्त्रञ्चलम्बोष्ठम् एकदन्तं गणाधिपम्
विपुलो लम्बकर्णश्च विकटो भीमदन्तकः ॥ ३९ ॥

द्वितीय्यावरणं पूज्य तृतीय्यावरणं श्रुणु
पूर्वे तु विकटं भीमं द्वारस्य पार्श्वयोर्यजेत् ॥ ४० ॥

प्रमुखं विमुखं सव्ये पूजयेत्तु विशेषतः
अविघ्नो विघ्नकर्तारः पश्चिमे पूजयेत्ततः ॥ ४१ ॥

दक्षा च शिवहस्तश्च उत्तरे पूजयेत्ततः
तृतीय्यावरणं पूज्य चतुर्त्थावरणं श्रुणु ॥ ४२ ॥

लोकपालान्समभ्यर्च्य चन्द्रादीन्पश्चिमे यजेत्
पश्चिमद्वारदेशे तु द्वारपालार्चनं पुरा ॥ ४३ ॥

सव्योर्ध्वे कमलां पूज्य नर्मदां वामपार्श्वके
मद्ध्ये सिन्धुं समभ्यर्च्य पूर्ववद्ध्यानमाचरेत् ॥ ४४ ॥

विकटं सरयूं पूज्य दक्षिणे च समर्चयेत्
भीमं गन्धपतिं सौम्ये अर्चयित्वा विशेषतः ॥ ४५ ॥

आपः पूर्वे समभ्यर्च्य देहल्यामस्त्रमर्चयेत्
वास्तुनाथं समभ्यर्च्य पूर्ववत्परिकल्पयेत् ॥ ४६ ॥

लक्ष्मीं पश्चिमदेशे तु यजेत्तु मण्डरूपिणीम्
ईशे शान्तं गुरुं पूज्य वेदिकां पूजयेत्ततः ॥ ४७ ॥

पूर्वादि च चतुर्द्वारे ऋग्वेदादीन्प्रपूजयेत्
पश्चाच्छास्त्रं पूज्यते च विघ्नगायत्रिमन्त्रतः ॥ ४८ ॥

अग्निकार्यं ततः पश्चात्पूर्ववत्विधिनाचरेत्
गणेशं पूजयेदग्नौ होमयेन्मूलमन्त्रतः ॥ ४९ ॥

पूर्वादि च चतुः कुण्डे पुरुषादीन्प्रपूजयेत्
आग्नेय्यादि चतुर्दिक्षु हृदयादीन्प्रपूजयेत् ॥ ५० ॥

तत्वतत्वेश्वरान्न्यस्य मूर्तिमूर्तीश्वरान्न्यसेत्
त्रिखण्डं होमयेत्पश्चात् रत्नन्यासं समाचरेत् ॥ ५१ ॥

सुमुहूर्ते सुलग्ने च स्थापयेत् गर्भगेहके
विमाने पूजयेत्पूर्वं घटस्नानं समाचरेत् ॥ ५२ ॥

विकटोदरमभ्यर्च्य प्रासादं पूजयेत्ततः
अग्निस्थं योजयेत्कुम्भे घटस्नानं ततः परम् ॥ ५३ ॥

इति विघ्नेश्वरस्थापनपटलो द्विनवतितमः