०९१ सोमस्थापनपटलः

सोमस्थापनपटलप्रारम्भः
अथ वक्ष्ये विशेषेण सोमस्थापनमुत्तमम्
द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ॥ १ ॥

प्रभामण्डलमद्ध्यस्थं ताटङ्कयुगलं वहन्
कुमुदं द्विकराभ्याञ्च अंसासत्तु समन्वितम् ॥ २ ॥

पद्मपीठोपरिस्थञ्च श्वेतवर्णसमायुतम्
एवन्ध्यात्वा विशेषेण प्रतिष्ठां कारयेत्ततः ॥ ३ ॥

यागशालां प्रकल्प्याथ षोडशस्तम्भसंयुतम्
मद्ध्ये वेदिं प्रकल्प्याथ पञ्चकुण्डं प्रकल्पयेत् ॥ ४ ॥

अथवा कुण्डमेकं वा पूर्ववत्परिकल्पयेत्
दशकुम्भन्न्यसेच्चैव सप्तधान्योपरिन्यसेत् ॥ ५ ॥

अङ्कुरार्पणमेवन्तु नयनोन्मीलनन्तथा
शयनारोपणं पश्चात् वेदिकां पूजयेत्ततः ॥ ६ ॥

प्रणवं पूर्वमुच्चार्य अम्भ इत्यक्षरन्तथा
अमृतेश्वराय इत्येते नमोन्तमुच्चरेत्ततः ॥ ७ ॥

आवाह्य पूजयेत्पश्चात्प्रथमावरणे न्यसेत्
द्वितीय्यावरणे चैव कुमुदं कुमुदाक्षकम् ॥ ८ ॥

कुमुदायामृतेशश्च तारकेशोहरप्रियः
शीतलोऽपि शशाङ्कश्च अष्टमूर्तिं प्रपूजयेत् ॥ ९ ॥

पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत्
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्ततः ॥ १० ॥

वह्निस्थन्तु घटे योज्य सुमुहूर्तेऽभिषेचयेत्
हविर्दत्वा निवेद्याथ ब्राह्मणान्भोजयेत्ततः ॥ ११ ॥

आचार्यं पूजयेत्तत्र दक्षिणान्दापयेत्ततः
एवं यः कुरुते मर्त्यः चन्द्रलोकं स गच्छति ॥ १२ ॥

इति सोमस्थापनपटल एकनवतितमः