विमानस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वप्राणि हिताय च
देवालयानां दृश्यन्ते विमानं गोपुराणि च ॥ १ ॥
यावद्देशेषु परितः तावत्कैलासभूतलम्
द्राविडं वेसरं चैव नागरं त्रिविधं भवेत् ॥ २ ॥
भेदान्षण्णवति ज्ञेयः विमानं मूलभेदकम्
आसनं शयनं यानं दैविकं स्वस्तिकं भवेत् ॥ ३ ॥
नीलोत्पलं सुखकरं गीर्वाणं देवमन्दिरम्
आवर्तकमनावर्तम् अचलं वृषमुच्यते ॥ ४ ॥
एवं भेदानि सङ्कल्प्य योग्यायोग्यं प्रकल्पयेत्
आसनं शयनं यानं शिवलिङ्गत्रयं भवेत् ॥ ५ ॥
तत्तदाकारमाकल्प्य दिव्यहर्म्यं प्रकल्पयेत्
महेश्वरादि भेदानां हरिब्रह्मादिकान्तथा ॥ ६ ॥
भेदान्सुधामयं कल्प्य पञ्चवर्णैरलङ्कृतम्
देवस्य पूर्वदिग्भागे दक्षिणा मूर्तिसन्निधौ ॥ ७ ॥
पश्चिमे स्तम्भलिङ्गाग्रे उत्तमं गोमुखाग्रके
षोडशस्तम्भसंयुक्तं यागशालां प्रकल्पयेत् ॥ ८ ॥
मद्ध्ये वेदिं प्रकल्प्याथ तत्पूर्वे कुण्दमुच्यते
पश्चिमे वेदिकां कृत्वा तत्पूर्वे कुण्डमुच्यते ॥ ९ ॥
दशकुम्भन्न्यसेच्चैव घटालङ्कृतमुच्यते
पश्चिमे दशकुम्भञ्च पूर्ववत्स्थापयेत्ततः ॥ १० ॥
तोरणान्मङ्गलांश्चैव शस्त्राणि परिकल्पयेत्
जलाधिवासनञ्चैव शयनारोपणन्तथा ॥ ११ ॥
रत्नन्यासं विना चैव नयनोन्मीलनं विना
शेषन्तु पूर्ववत्कल्प्य अङ्कुरार्पणपूर्वकम् ॥ १२ ॥
वास्तुशान्तिन्ततः कृत्वा शिवहस्तं प्रकल्पयेत्
वेदिका मद्ध्यमे चैव आसनं मूर्तिमर्चयेत् ॥ १३ ॥
द्विपादञ्च त्रिनयनं भस्मकुण्ठितविग्रहम्
शूलं शक्तिधनुःखट्गं पाशं चक्रं गदाब्जधृक् ॥ १४ ॥
अष्टहस्तसमोपेतं सुपद्ममकुटन्तथा
रक्तवर्णं विशालाक्षम् उपानम् अघ्रिमुच्यते ॥ १५ ॥
कुमुदं जगतीशञ्च पट्टिकाजानुमुच्यते
गात्रान्तमूरुदेशञ्च यालाक्षं कटिदेशके ॥ १६ ॥
कुक्षिं वै कुक्षिदेशञ्च पद्मान्तं मूर्ध्नि उच्यते
मकुटं मकुटोपेतं द्विपार्श्वं करमुच्यते ॥ १७ ॥
एवं वै शिवरूपन्तु स्थूललिङ्गाकृतिर्भवेत्
प्रणवं पूर्वमुच्चार्य ज्ञानशक्त्यात्मने तथा ॥ १८ ॥
भीमरुद्राय इत्येते नमोन्तञ्चोच्चरेत्ततः
आवाह्य पूजयेत्तत्र प्रथमावरणन्तथा ॥ १९ ॥
द्वितीय्यावरणे पूज्य लोकपालान्समर्चयेत्
वर्त्मादि चक्रपद्मान्तम् अर्चयेत्साधकोत्तमः ॥ २० ॥
पश्चिमे वेदिका मद्ध्ये दशकुम्भं न्यसेत्ततः
मद्ध्ये स्कन्दं समभ्यर्च्य प्रथमावरणं यजेत् ॥ २१ ॥
जयादिरभ्याधानञ्च द्वितीयावरणे यजेत्
प्रधानवेदिकामद्ध्ये भीमरुद्रं समर्चयेत् ॥ २२ ॥
पञ्चकुण्डं प्रकल्प्याथ एककुण्डमथापि वा
पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत् ॥ २३ ॥
दक्षिणे दक्षिणामूर्तिं कुम्भमद्ध्ये प्रपूजयेत्
जयादिरभ्याधानञ्च द्वितीयावरणे यजेत् ॥ २४ ॥
प्रथानवेदिकामद्ध्ये भीमरुद्रं समर्चयेत्
पञ्चकुण्डं प्रकल्प्याथ एककुण्डमथापि वा ॥ २५ ॥
पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत्
दक्षिणे दक्षिणामूर्तिं कुम्भमद्ध्ये प्रपूजयेत् ॥ २६ ॥
प्रथमावरणं पूज्य हृदयादीन्समर्चयेत्
द्वितीय्यावरणे चैव शर्वादीन्समर्चयेत् ॥ २७ ॥
अग्निकार्योक्तमार्गेण होमं कृत्वा समर्चयेत्
पश्चिमे विष्णुमभ्यर्च्य प्रथमावरणं यजेत् ॥ २८ ॥
केशवो माधवश्चैव त्रिविक्रमधुसूदनः
वामनश्श्रीधरश्चैव पद्मनाभोजनार्दनः ॥ २९ ॥
अष्टकुम्भेषु पूज्याथ इन्द्रादीन्पूजयेत्ततः
पूर्ववद्धोममित्युक्तं सायम्प्रातर्हुनेत्ततः ॥ ३० ॥
उत्तरे पद्मजं पूज्य प्रथमावरणं यजेत्
त्रयी मयीं त्रिमूर्तिञ्च पद्माक्षं पद्मयोगिनम् ॥ ३१ ॥
चतुर्मुखञ्च धातारं पितामहमजन्तथा
अष्टकुम्भे प्रपूज्याथ दशाज्ञां पूजयेत्ततः ॥ ३२ ॥
पूर्ववद्धग्निमाराद्ध्य होमयेत्साधकोत्तमः
पञ्चकुण्डं प्रकल्प्याथ अथवा एककुण्डकम् ॥ ३३ ॥
तत्तन्मन्त्रेण सम्पूज्य पूर्णान्तं होमयेत्ततः
प्रासादनर्तनं कल्प्य द्रव्याभावैरलङ्कृतम् ॥ ३४ ॥
शिवभेदान् चरेद्धीने पूर्ववद्विधिमार्गतः
चतुर्दिक् यागशालाञ्च भीमरुद्रं समर्चयेत् ॥ ३५ ॥
स्कन्दञ्च दक्षिणामूर्तिं नारसिह्मं विधिं यजेत्
कुण्डं वा स्थण्डिलं वापि होमयेद्योजयेत् घटे ॥ ३६ ॥
तत्तत्स्थाने यजेत् भाव्य पूर्ववत्परिकल्पयेत्
पश्चात् बिम्बान्प्रकल्प्याथ पञ्चवर्णैरलङ्कृतम् ॥ ३७ ॥
पूर्वं घटे समावाह्य बाललिङ्गं प्रकल्पयेत्
बालालयं यजेद्धुत्वा प्रतिष्ठां पूर्ववच्चरेत् ॥ ३८ ॥
दिनं प्रतिदिनं हुत्वा ब्राह्मणान्भोजयेत्ततः
यावत्कालं प्रकृष्येते तावत्पर्यन्तमर्चयेत् ॥ ३९ ॥
तदन्ते योजयेत्कुम्भे अर्चयेत्साधकोत्तमः
पश्चात्कालान्तरे विद्यान् मकुटारोपणं कथम् ॥ ४० ॥
स्वर्णेन रजतेनैव ताम्रेणैव चरेत्ततः
मुलबेरं समावाह्य घटे सम्पूजयेत्ततः ॥ ४१ ॥
देवस्य पूर्वदिग्भागे यागमेकं विधाय च
भीमरुद्रन्तु सम्पूज्य विद्येशान्पूजयेत्ततः ॥ ४२ ॥
वज्रादीन्पूजयेत्पश्चात् शिवयागं पृथक्चरेत्
शिवमावाह्य सम्पूज्य पूर्ववद्विधिनाहुनेत् ॥ ४३ ॥
एकरात्रं द्विरात्रं वा त्रिरात्रं पञ्चरात्रकम्
होमं कृत्वा विशेषेण स्थूपिदण्डाधिवासनम् ॥ ४४ ॥
रत्नन्यासं प्रकल्प्याथ दण्डं स्थाप्य विशेषतः
मकुटं क्षालयेत्पश्चात्सम्पाताहुतिमाचरेत् ॥ ४५ ॥
घटं स्थाप्य विशेषेण दर्भमालैरलङ्कृतम्
शतदर्भान्बृहत्कूर्चं मकुटे बन्धयेत्ततः ॥ ४६ ॥
विमानघटमादाय मस्तके योजयेत् गुरुः
परितः कलशानष्टौ दले सम्पूजयेत्ततः ॥ ४७ ॥
धातारं विष्णुं सर्वेशं स्कन्दं सम्पूजयेद्विना
भीमरुद्रं प्रपूज्याथ विद्येशान्पूर्ववद्यजेत् ॥ ४८ ॥
शिवकुम्भं समादाय शिवे संयोजयेत्ततः
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः ॥ ४९ ॥
जीर्णोद्धारणकाले तु कथं शम्भो विशिष्यते
मासमेकन्तु कुम्भं स्यात् द्विमासं त्रिशिखन्तथा ॥ ५० ॥
त्रिमासं खट्गमित्युक्तं तदूर्ध्वन्दारुणा भवेत्
एवम् अधमपूजाञ्च मन्दिरे कल्पयेत्ततः ॥ ५१ ॥
स एकदिनमारभ्य द्विपक्षं पूजयेत् घटे
दिने दिने घटे पूज्य सायङ्कालेऽभिषेचयेत् ॥ ५२ ॥
बालालये तदूर्ध्वे तु दारुलिङ्गं यजेत्तथा
एवं मद्ध्यमपूजायां कारयेच्छिवमन्दिरे ॥ ५३ ॥
प्रासादं जीर्णिते काले महास्नपनमण्टपे
नृत्तमण्टपदेशे वा प्राकारे वा शुभस्थले ॥ ५४ ॥
बालालयं प्रकल्प्याथ तत्तन्मानाकृतिन्तु वा
यागशालां प्रकल्प्याथ वेदिका मद्ध्यमे चरेत् ॥ ५५ ॥
नवकुण्डं पञ्चकुण्डम् अथवा एकमेव वा
दशकुम्भं विन्यसेच्च वेदिका मद्ध्यमे चरेत् ॥ ५६ ॥
सप्तविंशत् घटान्न्यस्य तोरणं शस्त्रमङ्गलान्
पूर्वोक्तविधिना चैव यागद्रव्यान्समाददेत् ॥ ५७ ॥
नयनोन्मीलनं पश्चात् जलाधिवासनन्तथा
शयनारोपणञ्चैव वेदिकां पूजयेत्ततः ॥ ५८ ॥
पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत्
मूललिङ्गं समाकृष्य घटे सम्पूजयेत्पुरा ॥ ५९ ॥
सुमुहूर्ते सुलग्ने च तद्घटं ग्राहयेत् गुरुः
स्वमूर्ध्नावाह्यते चैव बिम्बे सम्पूजयेत्ततः ॥ ६० ॥
हविर्दत्वा निवेद्याथ उपचारान्यथोक्तवत्
तदारभ्यावसानान्तं मद्ध्याह्ने होमयेत्ततः ॥ ६१ ॥
त्रिकालं वा चतुष्कालं पञ्चकालं यथा पुरा
तदेवं पूजयेद्विप्रान् भोजयेच्च दिनं प्रति ॥ ६२ ॥
त्रिकालं वा द्विकालं वा मूललिङ्गेऽभिषेचनम्
रहस्य पूजां कर्तव्यं वाद्यं घण्टां विवर्जयेत् ॥ ६३ ॥
मूलोपचारमार्गेण बाललिङ्गे यजेत् गुरुः
नित्यपूजां प्रकर्तव्यं नैमित्तिकं विना तथा ॥ ६४ ॥
श्रीबलिन्नित्यहोमञ्च पादुकाराधनञ्चरेत्
अन्योत्सवन्तु कर्तव्यं विशेषं श्रुणु षण्मुख ॥ ६५ ॥
देव्याश्च शिखाजीर्णे पटे चावाहयेत् गुरुः
पूर्वोक्तविधिना प्रोक्तं प्रतिष्ठां कारयेत्ततः ॥ ६६ ॥
तदेवपूजां कर्तव्यं नैमित्तिकन्नकारयेत्
उमास्कन्देश्वरञ्चैव नृत्तेशं शशिशेखरम् ॥ ६७ ॥
देववेश्मनिजीर्णो वा मूर्तिमादाय साधकः
अन्ये शुभस्थले स्थाप्य पूजयेन्नित्यकर्मणि ॥ ६८ ॥
होमास्कन्देश्वरं चैव महोत्सवन्नकारयेत्
नृत्तेशादि च बेराणां जीर्णोद्धारं प्रकल्प्यते ॥ ६९ ॥
महोत्सवं प्रकर्तव्यं सर्वदोषो न विद्यते
तेषां विमानमूर्तीशं पदे चावाहयेत्ततः ॥ ७० ॥
पश्चाद्यागं प्रकल्प्याथ विमाने चाभिषेचनम्
एवं सम्पूज्य विधिवत्सपुण्याङ्गतिमाप्नुयात् ॥ ७१ ॥
इति विमानस्थापनपटलनवतितमः