०८९ भद्रलिङ्गप्रतिष्ठापटलः

भद्रलिङ्गप्रतिष्ठापटलप्रारम्भः
अथ वक्ष्ये महासेन ग्रामाभिवृद्धिदं परम्
सर्वव्याधिप्रशमनं भद्रलिङ्गप्रतिष्ठितम् ॥ १ ॥

उपानञ्जगती चैव कुमुदं कम्पमेव तु
ऊर्ध्वे कपोदिकां कल्प्य तदूर्ध्वे पद्ममेव च ॥ २ ॥

मूलबेरसमायामम् उन्नतं परिकीर्तितम्
द्वात्रिंशद्दलसङ्ख्या च चतुर्विंशति सङ्ख्यया ॥ ३ ॥

षोडशं दलसङ्ख्या च वसुसङ्ख्या दलन्तथा
तदूर्ध्वे कर्णिकां कल्प्य पार्श्वेषु छदनं चरेत् ॥ ४ ॥

षोडश स्तम्भसंयुक्तं चतुर्द्वारसमन्वितम्
पताकैस्तोरणैः कल्प्य वेदिकामद्ध्यमे चरेत् ॥ ५ ॥

धान्यराशिं प्रकल्प्याथ दशकुम्भं न्यसेत्ततः
पञ्चकुण्डं प्रकल्प्याथ मेखला त्रयमुत्तमम् ॥ ६ ॥

इन्द्रईशानयोर्मद्ध्ये वृत्तकुण्डं प्रधानकम्
नयनोन्मीलनं कृत्वा बिम्बशुद्धिं प्रकल्पयेत् ॥ ७ ॥

वेदिकामद्ध्यमे पूज्य आसनं कल्पयेत्ततः
मूर्तिमभ्यर्च्य दृग्दृश्य अञ्जलीकरसंयुतम् ॥ ८ ॥

प्रणवं पूर्वमुच्चार्य शब्दशब्दमतः परम्
अविघ्नाय नम इत्येते कुम्भमद्ध्ये प्रपूजयेत् ॥ ९ ॥

अष्टपद्मदलं स्वर्णपङ्कजं कुम्भमद्ध्यमे
कर्णिकामद्ध्यमे न्यस्य भावयेत्साधकोत्तमः ॥ १० ॥

प्रणवं पूर्वमुच्चार्य साक्षिसाक्षीन्ततः परम्
नामाक्षरं नमोन्तञ्च आमोदं पूर्वदिक् दले ॥ ११ ॥

प्रमोदन्दक्षिणे पूज्य प्रणवं पूर्वमुच्चरन्
कुरु कुरु प्रमोदाय नमोन्तमर्चयेत् बुधः ॥ १२ ॥

प्रणवं पूर्वमुच्चार्य पतङ्गञ्च ततः परम्
प्रमुखाय नमोन्तञ्च पूजयेत्पश्चिमे दले ॥ १३ ॥

प्रणवं पूर्वमुच्चार्य
पिङ्गपिङ्गविमुखश्च नमोन्तमुत्तरेद्दले ॥ १४ ॥

प्रणवं पूर्वमुच्चार्य ज्ञानज्ञानविघ्नकर्तृके
तमोन्तं दशदिग्भागे पूजयेत्साधकोत्तमः ॥ १५ ॥

स्थापनं सन्निधानञ्च सन्निरोधावकुण्ठनम्
स्वागतार्घ्यं ददेत्पूज्य भोगाङ्गं पूजयेत्ततः ॥ १६ ॥

आग्नेय्यादिषु कोणेषु हृदयादीन्समर्चयेत्
द्वितीयावरणे चैव लोकपालान्समर्चयेत् ॥ १७ ॥

तृतीय्यावरणे पूज्य वज्रादीन्दशदिक्षु च
पूजयित्वा विशेषेण होमकर्म ततः परम् ॥ १८ ॥

पूर्वोक्तविधिनाहुत्वा प्रायश्चित्तान्तमाचरेत्
पूर्णाहुतिन्ततः कृत्वा घटे संयोजयेत्ततः ॥ १९ ॥

सुमुहूर्ते सुलग्ने च अभिषेकं समाचरेत्

ब्राह्मणान्भोजयेत्तत्र दक्षिणान्दापयेत्ततः ॥ २० ॥

आचार्य्यं पूजयेत्पश्चात्सपुण्याङ्गतिमाप्नुयात् ॥ २१ ॥

इति भद्रलिङ्गप्रतिष्ठापटल एकोननवतितमः