बलिपीठप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि ग्रामाभिवृद्धिदं परम्
चतुरश्राकृतिं पीठं हस्तमात्रप्रमाणतः ॥ १ ॥
द्वियङ्गुलघनं प्रोक्तं तस्योर्ध्वे पङ्कजं तथा
अष्टपद्मदलं कल्प्य पञ्चाङ्गुलसमुच्छृतम् ॥ २ ॥
कर्णिकामद्ध्यमे चैव वृत्तं वा परिकल्पयेत्
पूर्वाद्यष्टदिशी चैव गर्भगेहस्य पार्श्वयोः ॥ ३ ॥
यागशालां प्रकल्प्याथ अष्टवेदिं प्रकल्पयेत्
अष्टकुण्डं प्रकल्प्याथ चतुरश्रं प्रकीर्तितम् ॥ ४ ॥
धान्यराशिं प्रकल्प्याथ दशकुम्भन्न्यसेत्ततः
पृथक्पृथक् दशन्न्यस्य वेदिकामद्ध्यमे चरेत् ॥ ५ ॥
नयनोन्मीलनं कृत्वा कर्णिकापार्श्वके पुरा
जलाधिवासनं पश्चात् शयनारोपणं परम् ॥ ६ ॥
वेदिकामद्ध्यमे चैव क्षित्यादिकुटिलान्तकम्
आसनं मूर्तिमभ्यर्च्य विद्यादेहं प्रकल्पयेत् ॥ ७ ॥
प्रणवं पूर्वमुच्चार्य सान्तमुच्चारयेत्परम्
नामाक्षरं नमोन्तञ्च मूलमन्त्रमिति स्मृतम् ॥ ८ ॥
संवक्त्रश्च शिखावक्त्रो कुम्भोदरमहोदरम्
हरिवक्त्रमजो वक्त्रम् एकपादमधोमुखम् ॥ ९ ॥
नामान्तमुच्चरेत्पूज्य आवाह्य पूजयेत्ततः
प्रथमावरणं पूज्य हृदयादीन्प्रपूजयेत् ॥ १० ॥
द्वितीयावरणं पूज्य लोकपालान्समर्चयेत्
पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत् ॥ ११ ॥
षडद्ध्वादीन् हुनेच्चैव घटे संयोजयेत्परम्
सुमुहूर्त्ते सुलग्ने च अभिषेकं समाचरेत् ॥ १२ ॥
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं सम्पूज्य विधिवत्सपुण्याङ्गतिमाप्नुयात् ॥ १३ ॥
इति बलिपीठप्रतिष्ठापटल अष्टाशीतितमः