०८७ वृषभप्रतिष्ठापटलः

वृषभप्रतिष्ठापटलप्रारम्भः
अथ वक्ष्ये विशेषेण अनड्वाहप्रतिष्ठितम्
शृङ्गौ श्रोत्रौ द्विनासीञ्च ऊर्ध्वोष्ठे जिह्विका तथा ॥ १ ॥

चतुष्पादं वेदरूपम् एकपादन्तु कुञ्चितम्
एकपादान्तर्गतञ्चैव पुच्छाग्रं बीजसंयुतम् ॥ २ ॥

मणिनावलयं कण्ठे देवस्याभिमुखस्ततः
साक्षाद्धर्मस्वरूपञ्च शुद्धस्फटिकनिर्मलम् ॥ ३ ॥

शृङ्गं कृष्णनिभञ्चैव मणिस्स्वर्णप्रभस्तथा
खुरं रक्तप्रभं विद्यात्पुच्छाग्रं कृष्णसन्निभम् ॥ ४ ॥

जिह्वानीलनिभं विद्यात् ओष्ठं रक्तनिभन्तथा
त्र्यंशद्धर्मं शुभायाञ्च कलावेकांशमुच्यते ॥ ५ ॥

तस्मात्कुञ्चितपादन्तु प्रभायाः परिकीर्तितम्
कलौ चाधर्वणन्नोचेत् एकपादं विनश्यति ॥ ६ ॥

सन्निधौ शिवभक्तानां जिह्वापापं प्रगृह्यते
उग्रस्य शमनार्त्थं वा वृषोत्तिष्ठति सन्निधौ ॥ ७ ॥

वृषलिङ्गौ तयोर्मद्ध्ये तिर्यक्सञ्चरितं विना
तस्मात्सञ्चरितेनैव ब्रह्महत्यासमं भवेत् ॥ ८ ॥

एवं सङ्कल्प्य विधिवत्प्रतिष्ठाङ्कारयेत्ततः
षोडशस्तम्भसंयुक्तं मण्टपं कारयेत्ततः ॥ ९ ॥

मद्ध्ये वेदिं प्रकल्प्याथ दशकुम्भं न्यसेत्ततः
पञ्चकुण्डं प्रकल्प्याथ एककुण्डमथापि वा ॥ १० ॥

नयनोन्मीलनं कृत्वा जलाधिवासनं परम्

शयनारोपणं पश्चात् वेदिकां पूजयेत्ततः ॥ ११ ॥

आसनं मूर्तिमभ्यर्च्य नेत्रमुद्रां प्रदर्शयेत्
प्रणवं पूर्वमुच्चार्य वृषमित्यक्षरं परम् ॥ १२ ॥

वृषभाय नम इत्येते आवाह्य पूजयेत्ततः
प्रथमावरणं पूज्य द्वितीय्यावरणं श्रुणु ॥ १३ ॥

उक्षा च गोपतिश्चैव वृषभश्शङ्खकर्णकः
तीक्ष्णशृङ्गोमहाकाय एकपावृषभस्तथा ॥ १४ ॥

एवं पूज्य यथा चैव मङ्गलान्कोरणान्यजेत्
अग्निकार्यं समाराध्य होमं कृत्वा विशेषतः ॥ १५ ॥

मूलमन्त्रेण हुत्वा तु गायत्र्याहोमयेत्ततः
प्रायश्चित्ताहुतिं कृत्वा घटे संयोजयेत्ततः ॥ १६ ॥

सुमुहूर्ते सुलग्ने च अभिषेकं समाचरेत्
हविर्दत्वा निवेद्याथ स्नपनं कारयेत्ततः ॥ १७ ॥

ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
यक्षिणान्दापयेच्चैव ॥ १८ ॥

एवं सम्पूज्य विधिवत्सपुण्याङ्गतिमाप्नुयात् ॥ १९ ॥

इति वृषभप्रतिष्ठापटलस्सप्ताशीतितमः