०८६ द्वारपालप्रतिष्ठापटलः

द्वारपालप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यमि द्वारपालार्चनं परम्

पूजानि विघ्नार्त्थं यत्प्रतिकर्म च उत्तमम् ॥ १ ॥

गर्भग्रहस्य द्वारे च भिण्डिमुण्ड्याख्यमीरितम्
द्विभुजा च त्रिणेत्रा च जटामकुटशोभितम् ॥ २ ॥

खट्गखेटधरं भीमं नागयज्ञोपवीतिनम्
करालवदनं भीमं पद्मपीठोपरिस्थितम् ॥ ३ ॥

अर्द्धमण्टपमद्ध्ये तु महाकालञ्च नन्दिनम्
त्र्यक्षञ्च द्विभुजं भीमं भ्रुकुटीमुखभीषणम् ॥ ४ ॥

दक्षिणे दण्डहस्तञ्च दण्डाग्रे मणिबन्धकम्
स्वस्तिकं वामपादञ्च दण्डमद्ध्येऽपि कुण्डिके ॥ ५ ॥

वामपादतलन्न्यस्य वामपादोर्ध्वदेशके
सिह्मपुच्छाकृतिं हस्तं घण्टामालाविभूषितम् ॥ ६ ॥

करालवदनं घोरं दक्षिणे च ततश्शृणु
द्विपादं रक्तवर्णञ्च करालवदनान्वितम् ॥ ७ ॥

जटामकुटसंयुक्तं नागयज्ञोपवीतिनम्
मणिमालाविभूष्यञ्च वामे दण्डधरन्तथा ॥ ८ ॥

सव्यञ्च स्वस्तिकं पादं दण्डमद्ध्ये पदन्न्यसेत्
सव्यहस्तं प्रसार्याथ दण्डाग्रे तु तलं न्यसेत् ॥ ९ ॥

सिह्मपुच्छाकृतिं वामम् ऊर्ध्वहस्तन्तु पूर्ववत्
महामण्टपपार्श्वे तु नन्दिकुण्डोदरौ तथा ॥ १० ॥

चतुर्भुजं त्रिणेत्रञ्च जटामकुटमण्डितम्
दंष्ट्राकरालवदनं भ्रुकुटीमुखभीषणम् ॥ ११ ॥

कर्णपत्रसमायुक्तं घण्टामालाविभूषितम्
शिरोमालाविभूष्यञ्च अष्टनागैरलङ्कृतम् ॥ १२ ॥

दक्षिणे सूचिहस्तं स्यात् अन्यं ताडितहस्तकम्
वामे चोर्ध्वे पताकञ्च अन्यन्दण्डधरं तथा ॥ १३ ॥

मणिबन्धे तु दण्डाग्रं स्वस्तिकं वामपादकम्
दण्डमद्ध्ये न्यसेच्चैव पादं श्यामसमायुतम् ॥ १४ ॥

वामे तु रक्तवर्णं स्यात्स्वस्तिकं वामपादकम्
दण्डमद्ध्ये न्यसेत्पादं प्रसार्यं वामपाणिना ॥ १५ ॥

मणिबन्धं न्यसेद्दण्डे अन्यं वै ताडितं करम्
सव्ये तु सूचिहस्तं स्यात् अभयं भीषणोन्नतम् ॥ १६ ॥

मणिमालाविभूष्यञ्च कर्णपत्रसमायुतम्
दंष्ट्राकरालवदनं सर्वाभरणभूषितम् ॥ १७ ॥

एवं सङ्कल्पयेच्चैव नृत्तमण्टपपार्श्वयोः
विकटं भीममित्युक्तं त्र्यक्षञ्च द्विभुजन्तथा ॥ १८ ॥

वृत्तं पिङ्गजटाञ्चैव तुन्दिलं दंष्ट्रिणं भवेत्
नागयज्ञोपवीतञ्च वामे दण्डधरन्तथा ॥ १९ ॥

सव्ये तु सूचिहस्तं स्यात् रक्तवर्णन्तथैव च
वामं भीमं त्रिणेत्रञ्च वृत्तं पिङ्गजटाधरम् ॥ २० ॥

सव्ये च सूचिहस्तं स्यात् वामे दण्डधरन्तथा
दष्ट्राकरालवदनं मणिमालाविभूषितम् ॥ २१ ॥

एवं वै कल्पयेत्पश्चात् गोपुरद्वारपार्श्वयोः
जटञ्च विजयञ्चैव द्विभुजं रक्तवर्णकम् ॥ २२ ॥

अक्षमालां त्रिशूलञ्च धारिणं जटिलन्तथा
जटामकुटशोभाढ्यं वामे चैव ततश्शृणु ॥ २३ ॥

कृष्णवर्णं त्रिणेत्रञ्च जटामकुटमण्डितम्
कपालञ्च त्रिशूलञ्च दधानं भ्रुकुटिमेव वा ॥ २४ ॥

एवं तु कारयेच्चैव प्रतिष्ठां श्रुणु षण्मुख
षोडश स्तम्भसंयुक्तं चतुर्द्वारसमन्वितम् ॥ २५ ॥

मद्ध्ये वेदिं प्रकल्प्याथ नवकुण्डं प्रकल्पयेत्
सप्तविंशत् घटान्न्यस्य पताकं शस्त्रमण्डलम् ॥ २६ ॥

नयनोन्मीलनं कृत्वा बिम्बशुद्धिमतः परम्
जलाधिवासनञ्चैव शयनारोपणञ्चरेत् ॥ २७ ॥

वेदिकामद्ध्यमे चैव दशकुम्भं न्यसेत्ततः
आसनं मूर्तिमभ्यर्च्य विद्याङ्गं नेत्रमुद्रया ॥ २८ ॥

प्रणवं पूर्वमुच्चार्य शिवाय नम इत्यपि
आवाह्य स्थापनादीनि पूर्ववत्परिकल्पयेत् ॥ २९ ॥

पञ्चावरणमार्गेण पूजयित्वा यथाविधि

पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत् ॥ ३० ॥

प्रायश्चित्ताहुतिं कृत्वा सुमुहूर्ते सुलग्नके
अभिषेकन्ततः कृत्वा हविर्दत्वा निवेदयेत् ॥ ३१ ॥

ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं सम्पूज्यमानेन विजयं पदमाप्नुयात् ॥ ३२ ॥

इति द्वारपालप्रतिष्ठापटलष्षडशीतितमः