अस्त्रराजप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वलोकहिताय च
अस्त्रराजप्रतिष्ठान्तु वक्ष्येऽहं श्रुणु षण्मुख ॥ १ ॥
पूजांशं त्रिगुणी कृत्य उच्चनीचं यथा गुरुः
वित्तानुसारणेनैव अस्त्रराजं प्रकल्पयेत् ॥ २ ॥
पद्मपीठन्तु वेदांशं दण्डं वै षोडशाङ्गुलम्
कलशं चतुरंशं स्यात् एकांशं कुण्डमुच्यते ॥ ३ ॥
द्वयांशं कलशं भवेत्
एकांशं कुण्डमित्युक्तं त्र्यंशन्तु फलकाकृतिम् ॥ ४ ॥
एकांशं फलकाकारम् अष्टांशं पत्रमुच्यते
वज्राकृतिं मद्ध्यपत्रं त्रिकोणन्तु च मद्ध्यमम् ॥ ५ ॥
एककोणं तदग्रे तु अग्रे पद्मदलाग्रवत्
वक्त्राकृतिं पार्श्वयोश्च त्रिशिखासममुन्नतम् ॥ ६ ॥
अन्तः प्रदेशे सुक्षीरं मद्ध्ये दण्डं सुबन्धयेत्
स्वर्णेन रजतेनैव ताम्रेणैव प्रकल्पयेत् ॥ ७ ॥
प्रतिष्ठां कारयेत्पश्चात्पूर्ववद्यागमण्टपम्
नवकुण्डं प्रकल्प्याथ पञ्चकुण्डमथापि वा ॥ ८ ॥
मद्ध्ये वेदिं प्रकल्प्याथ दशकुम्भान्न्यसेत्ततः
सप्तविंशत्घटान्न्यस्य तोरणान्मङ्गलांस्तथा ॥ ९ ॥
पताकान्दिक्ध्वजांश्चैव पूर्ववत्परिकल्पयेत्
अष्टादशं पत्रमद्ध्यं पत्रमूले ततश्शृणु ॥ १० ॥
आसक्तं मद्ध्यपत्रे तु त्र्यंशोन्नतन्तुमद्ध्यमे
त्रिणेत्रं चतुर्भुजं भीमं जटामकुटमण्डितम् ॥ ११ ॥
समपादस्थितं सर्वं वामे वा किञ्चिदुच्छ्रितम्
जङ्घे जङ्घञ्च संयोज्य पादाग्रं भूमिसंस्पृशन् ॥ १२ ॥
वामोरुन्यस्तहस्तञ्च सर्वं गोपतिमस्तके
वृषान्तिकमिति प्रोक्तं देवं किञ्चिन्निरीक्षणम् ॥ १३ ॥
वामभागे महागौरीं कटकं लम्बहस्तके
समपादस्थितां गौरीं किरीटमकुटोज्वलाम् ॥ १४ ॥
नयनोन्मीलनं कृत्वा जलाधिवासनं परम्
बिम्बशुद्धिं ततः कृत्वा शयनारोपणन्ततः ॥ १५ ॥
वेदिकामद्ध्यमे चैव दशकुम्भन्न्यसेत्ततः
आसनं मूर्तिमभ्यर्च्य नेत्रमुद्रां प्रदर्शयेत् ॥ १६ ॥
प्रणवं पूर्वमुच्चार्य सान्तमुच्चार्य तत्परम्
हौमित्युच्चार्य तत्पश्चात् शिवास्त्रमुच्चरेत्ततः ॥ १७ ॥
चतुर्त्थ्यन्तं समुच्चार्य नमोन्तमुच्चरेत्ततः
आवाह्य पूजयेत्पश्चात् प्रथमावरणं न्यसेत् ॥ १८ ॥
द्वितीय्यावरणे चैव वज्रशक्तिञ्च दण्डकम्
खड्गं पाशं ध्वजञ्चैव गदापद्मं यजेत्ततः ॥ १९ ॥
नैर्ऋते चक्रमभ्यर्च्य द्वितीय्यावरणं यजेत्
नन्दिनञ्च महाकालं भृङ्गिणञ्च विनायकम् ॥ २० ॥
वृषभस्कन्दशक्किन्न चण्डं पूज्य विशेषतः
चतुर्त्थावरणे चैव इन्द्रादीन्पूजयेत्ततः ॥ २१ ॥
नैवेद्यं धूपदीपञ्च कुण्डसंस्कारपूर्ववत्
पूर्वादिषु चतुर्दिक्षु पुरुषादीन्यजेत्ततः ॥ २२ ॥
आग्नेय्यादिविदिक्षू च हृदयादीन्न्यसेत्ततः
मूलेनैव हुनेद्वृत्ते समित् द्रव्यविशेषकैः ॥ २३ ॥
त्रिखण्डं होमयेत्पश्चात्प्रायश्चित्ताहुतिं हुनेत्
अग्निस्थन्तु घटे योज्य सुमुहूर्ते सुलग्नके ॥ २४ ॥
अभिषिच्य च नैवेद्यं धूपदीपन्ददेत्ततः
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः ॥ २५ ॥
एवं यः कुरुते मर्त्यस्सराजा विजयी भवेत् ॥ २६ ॥
इति अस्त्रराजप्रतिष्ठापटलपञ्चाशीतितमः