०८४ देवीप्रतिष्ठापटलः

देवीप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वलोकहिताय च
सर्वज्ञानप्रदञ्चैव शक्तित्रयमिहोच्यते ॥ १ ॥

योगपीठसमायुक्तं भोगवामसमन्वितम्
वीरं स्वतन्त्रमित्युक्तं शक्तित्रयमिहोच्यते ॥ २ ॥

मूललिङ्गसमीपे तु वामभागेर्द्धमण्टपे
आसनं स्थानकं प्रोक्तं द्विविधं भोगशक्तिका ॥ ३ ॥

द्व्यक्षञ्च द्विभुजं शान्तं सरत्नमकुटोज्वलम्
वामे भुजं निवेश्याथ आसनोपरिविन्यसेत् ॥ ४ ॥

लम्बितं वामपादन्तु सव्याघ्रिं कुञ्चितं पदम्
सव्ये कटकहस्तं स्यात् अशीवेत्फलधारिणम् ॥ ५ ॥

सर्वावयवसम्पूर्णं सर्वलक्षणसंयुतम्
++++++ उमालक्षणमुच्यते ॥ ६ ॥

गौर्याश्च लक्षणं वक्ष्ये द्विभुजा च द्विनेत्रिका
किरीटमकुटोपेता स्तनौ पीनासुयौवना ॥ ७ ॥

कटकं सव्यहस्ते च लम्बहस्तन्तु वामके
किञ्चिद्वामाङ्घ्रिदायस्थ पद्मपीठोपरिस्थितम् ॥ ८ ॥

सर्वावयवसम्पूर्णं गौरीलक्षणमुच्यते
द्विरूपां मूलबेरस्य भोगशक्तिमिहोच्यते ॥ ९ ॥

चतुर्भुजां त्रिणेत्राञ्च सरत्नमकुटान्विताम्
पद्माक्षमालयायुक्तम् अभयं वरदन्तथा ॥ १० ॥

शिरश्चक्रसमायुक्तं चित्रवस्त्रैस्समन्वितम्
पुच्छत्रयं पार्श्वयोश्च कटिदेशे द्विपार्श्वयोः ॥ ११ ॥

चूलिकाकारमाबद्ध्य त्रिपत्राकृतिमद्ध्यमे
कर्णपत्रसमायुक्तं कर्णपुष्पसमन्वितम् ॥ १२ ॥

तालुमूलश्छदं दीर्घम् अंसाग्रे लम्बितन्तथा
शिरश्चक्रसमायुक्तं भद्रपीठोपरिस्थितम् ॥ १३ ॥

मूलबेरमिति प्रोक्तं यद्वा वक्ष्ये षडानन
भोगशक्तिः पुरा प्रोक्ता वीरशक्तिरिहोच्यते ॥ १४ ॥

यद्वा पद्माक्षमालाञ्च ऊरूहस्ताभयन्तथा
समाङ्गं समपादञ्च पूर्ववत् भूषणाकृतिम् ॥ १५ ॥

एते शक्तिचतुर्भेदा मूलबेरस्य शक्तयः
महेश्वरादिबेराणां भोगशक्तिमिहोच्यते ॥ १६ ॥

आसनं स्थानकं यानं यथा नृत्तं विशिष्यते
तदेवभोगशक्तिञ्च चतुष्षष्ट्या च सङ्ख्यया ॥ १७ ॥

देवानाञ्चैव पूजार्त्थं भोगशक्तिं समाचरेत्
नॄणां पाशत्रयं हन्तुं यद्वा वक्ष्ये षडानन ॥ १८ ॥

सर्वेषां कर्मनाशार्त्थं लोकानुग्रहहेतवे
वीरशक्तिसमायामम् अङ्गुलं ग्राह्य बुद्धिमान् ॥ १९ ॥

कर्णान्तं नासिकान्तं वा गण्डान्तं स्तनमद्ध्यमे
कट्यन्तं वा प्रकल्प्याथ अङ्गुलं ग्राह्य साधकः ॥ २० ॥

स्थपतिः स्थापकश्चैव युक्तायुक्तन्तु निर्णयम्
कृष्णकर्दममादाय पिण्डं कल्प्य यथाविधि ॥ २१ ॥

मानोपमानमुन्मानं लम्बमानमथापि वा
मानहीने महाव्याधिरधिके शत्रुवर्द्धनम् ॥ २२ ॥

द्विभुजा च द्विनेत्रा च उत्तुङ्गमकुटाज्वलाम्
श्यामवर्णसमायुक्तं गण्डार्त्थं कालकादितम् ॥ २३ ॥

श्री चाव्यालकार्द्धञ्च स्तनौ पीनौ सुयौवना
समपादस्थितं पीठे कुञ्चितं वामजानुना ॥ २४ ॥

दुकूलवसनोपेतं नाभ्यधः कटिदेशके
वस्त्रेण वर्त्तुलाकारं नीवीन्तु परिशोभितम् ॥ २५ ॥

लम्बितं वामहस्ते तु कटकं सव्यहस्तके
कल्हारपुष्पहस्तं वा अथवा केवलन्तु वा ॥ २६ ॥

शिरश्चक्रसमायुक्तं गण्डमूलान्तकेशिनी
चतुरश्रं स्तनौ चोभौ मद्ध्यमा चकृशाङ्गिनी ॥ २७ ॥

सप्तांशमुदरं पूर्तिं करनाहं चतुस्तथा
प्रभामण्डलमद्ध्यस्थं महापीठोपरिस्थितम् ॥ २८ ॥

पार्श्वयोस्सखिभिः प्रोक्तं चामरं पद्मकन्तथा

जान्वन्तमुन्नतं प्रोक्तं वीरशक्तिं प्रकल्पयेत् ॥ २९ ॥

तटाकमद्ध्ये संस्थाप्य चतुष्पादसमन्वितम्
तमालशाखा वेणुश्च चम्पकैः पनसैरपि ॥ ३० ॥

ऊर्ध्वच्छदनमाबद्ध्य तिर्यक्मद्ध्ये तुलान् चरेत्
तृणेनापूर्यतन्मद्ध्ये कदलीनालिकेरकैः ॥ ३१ ॥

अलङ्कृत्य च तन्मद्ध्ये पर्यङ्कं स्थापयेत्ततः
प्राक्शिरश्चोर्ध्ववक्त्रश्च जलमद्ध्ये च स्थापयेत् ॥ ३२ ॥

परितो वेदघोषाश्च पूर्वे वा उत्तरेऽपि वा
धान्यराशिं प्रकल्प्याथ पद्ममष्टदलं लिखेत् ॥ ३३ ॥

नवकुण्डन्न्यसेन्मद्ध्ये देवमावाहयेत्ततः
लोकपालान्समभ्यर्च्य नैवेद्यं धूपदीपकम् ॥ ३४ ॥

पञ्चरात्रं त्रिरात्रं वा न शिवं पादमेव वा
उत्थाप्यादाय मञ्चे वा शिबिके वावरोहणम् ॥ ३५ ॥

ग्रामप्रदक्षिणं कृत्वा यागद्वारसमीपके
तत् भूमौ पटमास्तीर्य साष्टाङ्गं दण्डवत् भुवि ॥ ३६ ॥

पाद्यमाचमनार्घ्यञ्च प्रददेद्देवसन्निधौ
यागद्वारे समानीय्य बिम्बशुद्धिमतः परम् ॥ ३७ ॥

क्षीरन्दधिघृतञ्चैव गोमूत्रं गोमयन्तथा
शुद्धोदकेन सम्पूर्य पूर्ववत्कल्पयेत्ततः ॥ ३८ ॥

दर्भमूले भदन्ताग्रे वल्मीके कर्कटावटे
समुद्रे च नदी तीरे पर्वते वृषभस्थले ॥ ३९ ॥

कुक्कुटाण्डप्रमाणेन शुद्धपात्रे ददेत्ततः
औदुम्बरवटाश्वत्थम् आम्म्रजम्बू च पल्लवम् ॥ ४० ॥

तद्वत् ग्राह्यं शुद्धपात्रे अघोरास्त्रेण क्षालयेत्
देवीसूक्तेन मन्त्रेण बिम्बशुद्धिं प्रकल्पयेत् ॥ ४१ ॥

मृत्सङ्ग्रहणमेवोक्तम् अङ्कुरं कारयेत्ततः
वास्तुपूजान्ततः कृत्वा नयनोन्मीलनं परम् ॥ ४२ ॥

जलाधिवासनं पश्चात् बिम्बशुद्धिमतः परम्
पूर्वे वा उत्तरे वापि कारयेत् शयनमण्टपम् ॥ ४३ ॥

मद्ध्ये वेदिं प्रकल्प्याथ धान्यराशिं प्रकल्पयेत्
तद्वत्स्थानं प्रकल्प्याथ तस्योर्ध्वे मञ्चमुच्यते ॥ ४४ ॥

चतुष्पादसमायुक्तं चतुर्गात्रसमन्वितम्
अरन्ध्रं फलकैः कल्प्य श्वेतं कार्पासवस्त्रकैः ॥ ४५ ॥

वस्त्रद्वयन्तु संयोज्य सुतूलं कर्णिकारकम्
तन्मद्ध्ये बन्धयेत्पश्चात्तद्दीर्घं विस्तरं भवेत् ॥ ४६ ॥

चित्रवस्त्रं समादाय द्विवस्त्रं पूर्ववद्धरेत्
करमेकसमं दीर्घं तस्यार्द्धं विस्तरं भवेत् ॥ ४७ ॥

कर्णिकारस्य तूलं यः आबद्ध्य परिमाणयेत्
शिरोदेशे पाददेशे निक्षिपेत् धारिकाकृतिम् ॥ ४८ ॥

व्याघ्रचर्म्मं कृष्णचर्मं तन्मद्ध्ये विदितं भवेत्
तस्योर्ध्वे कृष्णमित्युक्तं तस्योर्ध्वे पिञ्छसंयुतम् ॥ ४९ ॥

तस्योर्ध्वे शक्तिमारोप्य प्राक्शिरश्चोर्ध्वपत्रकम्
पाददेशे शुद्धपात्रे गन्धतैलान्न्यसेत्ततः ॥ ५० ॥

शिरोदेशे विशेषेण धान्यन्तु करमानतः
पद्ममष्टदलं लिख्य घटमेकं न्यसेत्ततः ॥ ५१ ॥

देवीमावाहयेच्चैव मण्टपाराधनं पुरा
वेदिकामद्ध्यमे चैव दशकुम्भन्न्यसेत्ततः ॥ ५२ ॥

सप्तधान्योपरिस्थाप्य घटालङ्कृतसंयुतम्
आत्मशुद्धिस्तु पूर्वं स्यात्स्नानशुद्धिर्द्वितीयकम् ॥ ५३ ॥

तृतीय्यं द्रव्यशुद्धिस्स्यात् चतुर्त्थं मन्त्रशोधनम्
पञ्चमं शिवहस्तं स्यात् षष्ठमं वेदिकार्चनम् ॥ ५४ ॥

सप्तावरणपूजाञ्च अष्टमं होमकर्मणि
त्रिखण्डं होमयेच्चैव नवमं परिकीर्तितम् ॥ ५५ ॥

पूर्णाहुतिन्तु दशमं घटस्नानमतः परम्
क्षित्यादिकुटिलप्रान्तम् अर्चयेदासनन्तथा ॥ ५६ ॥

मूर्तिमभ्यर्च्य विद्याङ्गं नेत्रमुद्रां प्रदर्शयेत्
प्रणवं पूर्वमुच्चार्य मायाबीजमतः परम् ॥ ५७ ॥

चतुर्दशसमस्वरमनोन्मन्यै ततः परम्

स्वाहान्तमुच्चरेन्मन्त्रम् अञ्जलीकृत्यबुद्धिमान् ॥ ५८ ॥

अकारश्च उकारश्च मकारो बिन्दुरेव च
अर्द्धचन्रो निरोधी च नादो नादान्त एव च ॥ ५९ ॥

शक्तिश्च व्यापिनी चैव समनाचोन्मना तथा
अञ्जलीकरसंयुक्तं चरेदावाह्य मुद्रया ॥ ६० ॥

मूलाधारात्समुद्धृत्य प्रणवं पूर्वमुच्चरन्
सान्ताश्चोच्चारयेत्पश्चात् हृद्गण्डादिषु चाव्ययम् ॥ ६१ ॥

अकार उकार मकार भाष्योच्चारणमार्गतः
बाष्योच्चारं कथं शम्भो वक्ष्येऽहं श्रुणु षण्मुख ॥ ६२ ॥

घण्टा चलितमार्गेण प्रथमं प्रथमस्वरम्
द्वितीय्यं द्वितीय्यस्वरञ्च तृतीयं तृतीय्यस्वरम् ॥ ६३ ॥

नादमाकृष्य मार्गेण उपर्युपरिभावितम्
लयान्तमुच्चरन्पश्चात् ज्ञेयोनित्यगुणोदयम् ॥ ६४ ॥

अनिन्दितमनूपम्यम् अप्रमेयमनामयम्
शिवाख्यं परमानन्दं भावशून्यन्तु निर्गुणम् ॥ ६५ ॥

निर्गुणं भवतोक्तञ्च कथं ज्ञेयश्च साधकम्
घण्टानादमिति ज्ञेयः एवं ज्ञात्वा च साधकः ॥ ६६ ॥

फलस्यान्तर्गतं नॄणां रसं कोपर्णमीदृशम्
तदेवनादवत् घण्टां तदेवह्येषसाधकः ॥ ६७ ॥

बहुकालगतो द्ध्येयः मनस्वमनसा ज्ञापयेत्
अन्येषामिद +++++ मित्थं यः ॥ ६८ ॥

+++++++ दुर्ल्लभं साधकोत्तमः
ज्ञाननादमयं ज्ञात्वा लयान्तं चोच्चरेत्परम् ॥ ६९ ॥

शिवाय नम इत्येते आकृष्याञ्जलिहस्तकम्
बिन्दौ शिकारं निर्वृत्य नासायान्तु वकारकम् ॥ ७० ॥

गण्डदेशे यकारस्तु हृद्देशे तु नकारकम्
मूलाधारे मकारस्तु प्राणप्रवहचात्मना ॥ ७१ ॥

अञ्जलिं पूर्वमुत्थाय प्रणवं पूर्वमुच्चरन्
सान्तमुच्चारयेत्पश्चात् मायाबीजमतः परम् ॥ ७२ ॥

चतुर्दशस्वरं पश्चात् मनोन्मन्यै नमोन्तकम्
उच्चार्य प्राणमार्गेण बिन्दुपर्यन्तमुच्चरन् ॥ ७३ ॥

भ्रूमद्ध्ये खण्डिकाद्वारं द्वारेणाकृष्य बुद्धिमान्
हृदयेन समावाह्य स्तनौ देशे च विन्यसेत् ॥ ७४ ॥

आवाह्य स्थापनञ्चैव सन्निधानं निरोधनम्
अवकुण्ठनमेवोक्तं धेनुमुद्राप्रदर्शयेत् ॥ ७५ ॥

स्वागतम् इति सञ्ज्ञाप्य अर्घ्यन्दत्वा तु साधकः
स्थिरो भावमिति प्रार्त्थ्य पीठशक्तिमनन्तरम् ॥ ७६ ॥

स्नपनान्तानि सम्भाव्य पुष्पाञ्जलित्रयं तथा
प्रथमावरणं पूज्य हृदयादि षडङ्गकम् ॥ ७७ ॥

द्वितीय्यावरणे पूज्य वामाज्येष्ठा च रौद्रिकाः
कालीकलविकरणी च बलविकरणी तथा ॥ ७८ ॥

बलप्रमथनी चैव सर्वभूतदमनी तथा
द्वितीय्यावरणे पूज्य तृतीय्यावरणं श्रुणु ॥ ७९ ॥

ब्राह्मीमाहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही चैव इन्द्राणी चामुण्डावीरभद्रिका ॥ ८० ॥

तृतीयावरणं पूज्य चतुर्त्थावरणं श्रुणु
इन्द्राग्नियमनैर्ऋत्य पाशीवायुश्च यक्षराट् ॥ ८१ ॥

ईशानब्रह्मविष्णुश्च पूजयेत्तु विशेषतः
चतुर्त्थावरणं पूज्य पञ्चमावरणं श्रुणु ॥ ८२ ॥

खट्वाङ्गञ्च कपालञ्च घण्टानाराचमेव च
डमरुं ध्वजवेतालं क्षुरिकापाशखड्गकम् ॥ ८३ ॥

पञ्चमावरणं पूज्य कुमुदादिध्वजे यजेत्
परितो वेदिकामूले हेतुकादीन्यजेत्ततः ॥ ८४ ॥

दर्पणं करकञ्चैव केसरीयुग्मचामरम्
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देव्याष्टमङ्गलम् ॥ ८५ ॥

रम्भा च ऊर्वशी चैव सुकेशी च तिलोत्तमा
मेनकामञ्जुवेषा च कामुकी कामवर्द्धनी ॥ ८६ ॥

एता अप्सरसः प्रोक्ताः अष्टमङ्गलधारिणः

इन्द्रादिषु चाष्टदिक्षु योनिकुण्डं प्रकल्पयेत् ॥ ८७ ॥

इन्द्रईशानयोर्मद्ध्ये वृत्तकुण्डं प्रधानकम्
मेखलात्रयमेवोक्तं कुण्डनाभिपुरस्सरम् ॥ ८८ ॥

मद्ध्ये पद्मं प्रकल्प्याथ विस्तारं तत्समं भवेत्
खातं कृत्वा विशेषेण पञ्चवर्णैरलङ्कृतम् ॥ ८९ ॥

कुण्डसंस्कारपूर्वञ्च अग्निसंस्कारमेव च
स्रुक्स्रुवयोश्च संस्कारम् आज्यसंस्कारमेव वा ॥ ९० ॥

वाग्मीवागीश्वरं पूज्य तेन बीजं प्रजायते
गर्भाधानादिकं हुत्वा वक्त्रे त्रिकरणं हुनेत् ॥ ९१ ॥

पित्रोर्विसृज्यते पश्चात् शिवाग्निं हृदिदेशके
देवीमभ्यर्च्य विधिवत् गव्याज्येन हुनेत्ततः ॥ ९२ ॥

अश्वत्थञ्चैव पालाशं वटार्कशमिखादिरम्
ऊरुम्बरमपामार्गा बिल्वञ्चन्दनमेव च ॥ ९३ ॥

इक्षुखण्डं गुलञ्चैव क्षीरं दधिमधुत्वथ
कदलीपनसं चूतं बालकन्दं सुवल्लि च ॥ ९४ ॥

महावल्ली रुद्रवल्ली अपूपान्विविधानि च
ताम्बूलं पायसं हुत्वा यथेष्टं होमयेत्ततः ॥ ९५ ॥

शान्तिकुम्भं प्रकल्प्याथ यजेत्कुण्डस्य पश्चिमे
सायं प्रातर्हुनेच्चैव अन्तर्बलिबहिर्बलिम् ॥ ९६ ॥

नवरात्रं सप्तरात्रं पञ्चरात्रमथापि वा
तत्वतत्वेश्वरान्न्यस्य मूर्तिमूर्तीश्वरान्हुनेत् ॥ ९७ ॥

त्रिखण्डं होमयेत्पश्चात्प्रायश्चित्ताहुतिं हुनेत्
सकलान्यासमभ्यर्च्य विद्या देहं प्रकल्पयेत् ॥ ९८ ॥

नेत्रमुद्रां प्रदृश्याथ सुमुहूर्ते सुलग्नके
अग्निस्थन्तु घटे योज्य घटमादय देशिकः ॥ ९९ ॥

मूर्ध्निसन्नह्य दृढतश्छत्रचामरपिञ्छकैः
गीतनृत्तैस्सहोपेतं स्तनदेशेषु योजयेत् १००
हविर्दत्वा निवेद्याथ स्नपनं कारयेत्ततः
फट् द्वयं समादाय भस्म चापूरयेद्गुरुः १०१

तन्तुनावेष्टयेच्चैव पूगपर्णैरलङ्कृतम्
सकूर्चन्नालिकेरञ्च रक्तवस्त्रेण वेष्टयेत् १०२
लम्बकूर्चं प्रकल्प्याथ गन्धपुष्पैरलङ्कृतम्
मूललिङ्गसमीपे तु पटमादाय देशिकः १०३
घटं संस्नाप्य सम्प्रार्त्थ्य लोकानुग्रहहेतवे
उत्सवेशीं वरां कन्न्यां सर्वाभरणभूषिताम् १०४
त्वत्पाणिग्रहणार्त्थन्तु लब्ध्वानुज्ञांशिवे नहि
शिवं सम्पूजयेत्कुम्भे देवीं सम्पूजयेद्घटे १०५
स्वगृह्योक्तविधानेन जातकर्म तथैव च
नामान्तं प्राशनान्तञ्च देव्याश्च परिभाव्य च १०६
कल्याणकर्मपूर्वे च कारयेत्साधकोत्तमः
यजमानगृहे वापि फेलकां परिकल्पयेत् १०७
रजनीमञ्जनं क्षौमं मङ्गल्यं केशशोधनी
कबरीकेशसम्भूष्य अमनं यक्षराट्फलम् १०८
आकृष्य सन्निधौ स्थाप्य वस्त्रेण परिवेष्टयेत्
अनादिगोत्रसम्भूताम् उमां कन्न्यान्ददाम्यहम् १०९
इति भाव्य कराब्जञ्च दत्तं वै विष्णुपाणिना
माङ्गल्यं धारयेत्कुम्भं कण्ठे बध्नीयदेशिकः ११०
पाणिग्रहणमाकृष्य अश्मनोत्तरदेशके
गौरी पादाम्बुजं गृह्य अश्मोपरि च विन्यसेत् १११
एवं प्रदक्षिणं त्रीणि दम्पतिभ्यां भवेत् गुरुः
लाजहोमं प्रकुर्वीत त्रिवारं देविपाणिना ११२
गौरी पाणिं समादाय शिवेन परिभावयेत्
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्ततः ११३
अग्निमुत्थाप्य संयोज्य घटमादाय देशिकः
गौरी समीपं गत्वा तु माङ्गल्यं ग्राहयेत्ततः ११४
देवीं घटे सुबध्नीयात् शक्तिकुम्भं सुयोजयेत्
शिवकुम्भे शिवं योज्य ब्राह्मणान्भोजयेत्ततः ११५
दक्षिणान्दापयेत्पश्चात् आचार्यं पूजयेत्ततः ११६

इति देवीप्रतिष्ठापटलश्चतुरशीतितमः