०८३ ज्येष्ठास्थापनपटलः

ज्येष्ठास्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि ज्येष्ठास्थापनमुत्तमम्
चतुर्भुजं द्विनेत्रञ्च बृहद्वक्त्रसमायुतम् ॥ १ ॥

बृहत्कुक्षिसमोपेतं द्विपादं कुञ्चितं भवेत्
महापीठोपरिस्थञ्च वज्राभं मकुटान्वितम् ॥ २ ॥

जलोश्छिष्टलतामाला पर्यङ्गस्सव्यरैगके
द्विभुजा च द्विनेत्रा च वराहाननमात्मजम् ॥ ३ ॥

वामे च तनयं भागे द्विभुजं लम्बबाहु च
वह्निञ्च पानपात्रञ्च धारयेत्तु विशेषतः ॥ ४ ॥

पार्श्वयोर्लम्बहस्ताभ्यां कुरूपीं भावयाम्यहम्
एवं कृत्वा विशेषेण प्रतिष्ठां कारयेत्ततः ॥ ५ ॥

पूर्वोक्तयागं सङ्कल्प्य वेदिका मद्ध्यमे चरेत्
पञ्चकुण्डं प्रकल्प्याथ एककुण्डमथापि वा ॥ ६ ॥

वेदिका मद्ध्यमे चैव दशकुम्भं न्यसेत्ततः
मृत्सङ्गृह्याङ्कुरञ्चैव वास्तुपूजां समारभेत् ॥ ७ ॥

मण्टपाराधनं कृत्वा शयनारोपणं परम्
कुम्भे सम्पूजयेत्पश्चात् आसनं मूर्तिमर्चयेत् ॥ ८ ॥

विद्यादेहं प्रकल्प्याथ अञ्जलीकरसंयुतम्
प्रणवं पूर्वमुच्चार्य मायाबीजमतः परम् ॥ ९ ॥

सर्वदुर्भिक्षनाशाय सर्वपीडानि वारणम्
आवाह्य पूजयेत्पश्चात्प्रथमावरणं यजेत् ॥ १० ॥

द्वितीय्यावरणे चैव लोकपालान्समर्चयेत्
पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत् ॥ ११ ॥

पूर्वादिषु चतुर्दिक्षु हृदयादीन्हुनेत्क्रमात्
प्रायश्चित्तं हुनेच्चैव घटे संयोजयेत्ततः ॥ १२ ॥

नयनोन्मीलनं पूर्वं जलाधिवासनन्तथा
शयनारोपणं पश्चात् न्यासकर्म्म ततः परम् ॥ १३ ॥

सुमुहूर्ते सुलग्ने च अभिषेकं समाचरेत्
हविर्दत्वा निवेद्याथ ब्राह्मणान्भोजयेत्ततः ॥ १४ ॥

आचार्यं पूजयेत्पश्चात्सर्वदुःखविनाशनम्
एवं यः कुरुते मर्त्यः दुर्भिक्षन्नकदाचन ॥ १५ ॥

इति ज्येष्ठास्थापनपटलत्र्यशीतितमः