विघ्नेशानुग्रहस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि विघ्नेशानुग्रहपरम्
सर्वभूतहितं पुण्यं सर्वाभीष्टप्रदायकम् ॥ १ ॥
सर्वविघ्नविनाशार्त्थं कारयेद्देशिकोत्तमः
त्रिणेत्रं चतुर्भुजं शान्तं कुण्डलाभरणोज्वलम् ॥ २ ॥
बकपुष्पसुकेशञ्च स्तम्बकं चूलिकाकृतिम्
बकपत्रसमायुक्तं बकपुष्पसमन्वितम् ॥ ३ ॥
आरग्वधस्रजञ्चैव स्तबकेन परिप्लुतम्
अङ्कुशं त्वक्षमालाञ्च भसितं वरदन्तथा ॥ ४ ॥
वामे गौरी समायुक्तं सव्यभागे गजाननम्
गजाननस्य फाले तु भसितं धार्य पाणिना ॥ ५ ॥
दिव्य छत्रसमायुक्तं सर्वावयवसुन्दरम्
एवं सङ्कल्प्य विधिवत् प्रतिष्ठां कारयेत्ततः ॥ ६ ॥
षोडशस्तम्भसंयुक्तं चतुर्द्वारसमायुतम्
मद्ध्ये वेदिं प्रकल्प्याथ दर्पणोदरसन्निभम् ॥ ७ ॥
नवकुण्डं प्रकल्प्याथ पञ्चकुण्डमथापि वा
नयनोन्मीलनं पश्चात् ॥ ८ ॥
जलाधिवासनञ्चैव बिम्बशुद्धिमतः परम्
शयनारोपणं कृत्वा वेदिका मद्ध्यमे चरेत् ॥ ९ ॥
दशकुम्भन्न्यसेच्चैव आसनं मूर्तिमर्चयेत्
प्रणवं पूर्वमुच्चार्य सान्तं यान्तमुदाहृतम् ॥ १० ॥
क्षेत्राहुत्य क्षरञ्चैव शिवय नम इत्यपि
आवाह्य पूजयेच्चैव गन्धपुष्पादि नार्चयेत् ॥ ११ ॥
पञ्चावरणमार्गेण पूजयित्वा यथाविधि
अग्निकार्योक्तमार्गेण पूर्वोक्तविधिनाहुनेत् ॥ १२ ॥
प्रायश्चित्ताहुतिं कृत्वा ————
घटे संयोजयेत्पश्चात्सुमुहूर्ते सुलग्नके ॥ १३ ॥
अभिषेकन्ततः कृत्वा ब्राह्मणान्भोजयेत्ततः
आचार्यं पूजयेत्पश्चात्सपुण्याङ्गतिमाप्नुयात् ॥ १४ ॥
इति विघ्नेशानुग्रहस्थापनपटलद्व्यशीतितमः