०८१ चक्रदानस्थापनपटलः

चक्रदानस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वभूतहिताय च
चक्रदानस्वरूपन्तु श्रुणुष्व शरवणोद्भव ॥ १ ॥

त्रिणेत्रं चतुर्भुजं शान्तं जटामकुटमण्डितम्
वामपादन्तु शयनं लम्बितं सव्यपादकम् ॥ २ ॥

टङ्कं रथाङ्गं सव्ये च वरदं कृष्णमृगन्तथा

वामे विष्णुसमायुक्तं कृताञ्जलिपुटान्वितम् ॥ ३ ॥

वामे गौरी समायुक्तम् उत्तरे परमेष्ठिनम्
सर्वावयवसंयुक्तं सर्वलक्षणसंयुतम् ॥ ४ ॥

पद्मपुष्पं समभ्यर्च्य हरिणा नेत्रपूजितम्
प्रभामण्डलमद्ध्यस्थं शिरश्चक्रसमायुतम् ॥ ५ ॥

एवं कल्प्यविशेषेण प्रतिष्ठां श्रुणु षण्मुख
पूर्ववद्यागशालाञ्च वेदिकां पूर्ववच्चरेत् ॥ ६ ॥

अङ्कुरं पूर्वमेवोक्तं वास्तुपूजान्ततः परम्
नयनोन्मीलनं कृत्वा चरेत् ग्रामप्रदक्षिणम् ॥ ७ ॥

शयनारोपणं विद्यात् मण्टपाराधनं पुरा
वेदिका मद्ध्यमे चैव दशकुम्भं प्रकीर्तितम् ॥ ८ ॥

आसनं मूर्तिमभ्यर्च्य अञ्जलीकरसंयुतम्
प्रणवं पूर्वमुच्चार्य वरहरमृम् इति क्रमात् ॥ ९ ॥

शिवाय नम इत्येते आवाह्य पूजयेत्ततः
पञ्चावरणमार्गेण पूजयित्वा यथाविधि ॥ १० ॥

पूर्वोक्तविधिमार्गेण वह्निकार्यं समाचरेत्
अन्तर्बहिर्बलिञ्चैव सायम्प्रातर्हुनेत्ततः ॥ ११ ॥

प्रायश्चित्ताहुतिञ्चैव पूर्णाहुतिं समाचरेत्
घटे संयोजयेत्पश्चात्सुमुहूर्ते सुलग्नके ॥ १२ ॥

अभिषेकञ्चरेच्चैव हविर्दत्वा निवेदयेत् ॥ १३ ॥

ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं यः कुरुते मर्त्यस्सपुण्याङ्गतिमाप्नुयात् ॥ १४ ॥

इति चक्रदानस्थापनपटल एकाशीतितमः