०८० जलन्धरवधस्थापनपटलः

जलन्धरवधस्थापनपटलप्रारम्भः
अथ वक्ष्ये विशेषेण जलन्धरवधं श्रुणु
द्व्यक्षञ्च द्विभुजं रक्तं शिखायज्ञोपवीतिनम् ॥ १ ॥

चन्द्राभं छत्रधृक्वामे दण्डं वै सव्यहस्तके
दुकूलवसनोपेतं भस्मरुद्राक्षधारणम् ॥ २ ॥

अभिमुखी करणं यक्षः करालवदनान्वितः
शार्ङ्गं बाणधरं घोरं देवस्य पुरतस्स्थितः ॥ ३ ॥

देवेन चक्रं संलिख्य पश्चात् यक्षो महाभुजः
चक्रमुद्धृत्य बलिना छित्वा मूर्धानमुज्वलम् ॥ ४ ॥

एवं सङ्कल्प्य विधिना प्रतिष्ठां कारयेत्ततः
षोडशस्तम्भसंयुक्तं चतुस्तोरणभूषितम् ॥ ५ ॥

नवकुण्डं प्रकल्प्याथ वेदिकां मद्ध्यमे चरेत्
दशकुम्भं न्यसेच्चैव परिवारघटान्न्यसेत् ॥ ६ ॥

नयनोन्मीलनं कृत्वा बिम्बशुद्धिमतः परम्
रक्षाबन्धनमेवोक्तं शयनारोपणञ्चरेत् ॥ ७ ॥

अङ्कुरं वास्तुयजनं जलाधिवासनञ्चरेत्
प्रणवं पूर्वमुच्चार्य सां सीं सूं सौं ततः परम् ॥ ८ ॥

जलन्धरहरायेति आवाह्य पूजयेत्ततः
पञ्चावरणमार्गेण पूजयित्वा तु साधकः ॥ ९ ॥

वह्निकार्यं समाराद्ध्य होमं कृत्वा तु देशिकः
सायम्प्रातर्हुनेच्चैव प्रायश्चित्ताहुतिं हुनेत् ॥ १० ॥

अग्निस्थन्तु घटे योज्य मूर्तौ संयोजयेद्घटम्
हविर्दत्वा निवेद्याथ ब्राह्मणान्भोजयेत्ततः ॥ ११ ॥

आचार्यं पूजयेत्पश्चात्सराजाविजयी भवेत् ॥ १२ ॥

इति जलन्धरवधस्थापनपटल अशीतितमः