किरातस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि किरातरूपधारिणम्
पिञ्छेनैव शिखां बध्वा चर्मवस्त्रेण वेष्टितम् ॥ १ ॥
ज्वालाकुण्डोदरञ्चैव पार्श्वयोरुभयोः स्थितम्
कृष्णवर्णसमायुक्तं सर्वावयवसुन्दरम् ॥ २ ॥
शार्ङ्गं वामकराब्जे च बाणं सव्यकराब्जके
तदग्रे चार्जुनं रूपम् अथोमुखनिपातितम् ॥ ३ ॥
देवास्त्रं वामपार्श्वे तु उमादेवी स्थितां पराम्
सव्ये कमण्डलुधरं दक्षिणे तु नमस्कृतम् ॥ ४ ॥
किरातरूपमाख्यातं स्थपतिस्थापके द्वयोः
योग्यायोग्यप्रमाणेन सौन्दर्ये देवकारणम् ॥ ५ ॥
षोदशस्तम्भसंयुक्तं दर्भमाल्यैरलङ्कृतम्
तोरणान्मङ्गलान्शस्त्रान्परिवारघटान्न्यसेत् ॥ ६ ॥
वेदिकां पूर्ववत्कृत्वा दशकुम्भञ्च मद्ध्यमे
मृत्सङ्ग्रहणमेवोक्तम् अङ्कुरार्पणमेव च ॥ ७ ॥
नयनोन्मीलनं कृत्वा रत्नन्यासमतःपरम्
जलाधिवासनं पूर्वं शयनारोपणं परम् ॥ ८ ॥
वेदिकामद्ध्यमे चैव क्षित्यादिकुटिलान्तकम्
अर्चयेन्न्यासकर्मापि नेत्रमुद्रां प्रदर्शयेत् ॥ ९ ॥
प्रणवं पूर्वमुच्चार्य नीलकण्ठमतःपरम्
अस्किराताय इत्येते नमोन्तं पूजयेत्ततः ॥ १० ॥
पञ्चावरणमार्गेण पूजयित्वा यथाविधि
वह्निकर्मसमाराद्ध्य उक्तमन्त्रेण होमयेत् ॥ ११ ॥
त्रिखण्डं होमयेच्चैव प्रायश्चित्ताहुतिं हुनेत्
अग्निं संयोजयेत्कुम्भे सुमुहूर्ते सुलग्नके ॥ १२ ॥
कुम्भात् बीजं समादाय मूर्तौ संयोजयेत्ततः
हविर्दत्वा निवेद्याथ स्नपनं कारयेत्ततः ॥ १३ ॥
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं यः कुरुते मर्त्यस्सराजाविजयी भवेत् ॥ १४ ॥
इति किरातस्थापनपटल एकोनाशीतितमः