अङ्कालस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि कङ्कालस्थापनं श्रुणु
गर्वनिर्वापणार्त्थं हि महेशो मूर्तिभेदकः ॥ १ ॥
त्रिणेत्रं चतुर्भुजं भीमं रक्तवर्णन्तथैव च
ब्रह्मकङ्कालवीणान्तु सव्यहस्तेन धारयेत् ॥ २ ॥
वामां सोपरिविन्न्यस्य तिर्यक्कूर्परदेशके
डमरुं वामहस्ते तु टङ्कं कृष्णमृगन्तथा ॥ ३ ॥
समपादस्थितं पीठपद्मोपरिनिषण्णकम्
प्रभयामद्ध्यमे चैव जटामकुटमण्डितम् ॥ ४ ॥
कङ्कालं रूपमाख्यातं प्रतिष्ठां पूर्ववच्चरेत्
षोडशस्तम्भसंयुक्तं यागमण्टपमुत्तमम् ॥ ५ ॥
नयनोन्मीलनं पूर्वं जलाधिवासनं परम्
रक्षाबन्धनमेवोक्तं शयनारोपणन्तथा ॥ ६ ॥
अङ्कुरं वास्तुयजनं मण्टपाराधनं परम्
वेदिकामद्ध्यमे चैव दशकुम्भन्यसेत्ततः ॥ ७ ॥
सप्तविंशत् घटान्न्यस्य पूर्ववद्वेदिकां यजेत्
प्रणवं पूर्वमुच्चार्य नमश्शिवाय तथैव च ॥ ८ ॥
कङ्कालाय नम इत्येते मूलेनावाहयेत्ततः
पञ्चावरणमार्गेण पूजयित्वा यथाविधि ॥ ९ ॥
पूर्वोक्तविधिना चैव होमं कृत्वा विशेषतः
सुमुहूर्ते सुलग्ने च घटस्नानं समाचरेत् ॥ १० ॥
हविर्दत्वा निवेद्याथ ब्राह्मणान्भोजयेत्ततः
आचार्यं पूजयेत्तत्र दक्षिणान्दापयेत्ततः ॥ ११ ॥
एवङ्कारयते विद्वान्सर्वकर्मजयी भवेत् ॥ १२ ॥
इति कङ्कालस्थापनपटल अष्टसप्ततितमः