गजारिस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि गजारिस्थापनं परम्
भगवान्लोकरक्षार्त्थं गर्वनिर्वापणं शिवः ॥ १ ॥
रक्तवर्णं त्रिणेत्रञ्च पूजाष्टकसमन्वितम्
दंष्ट्राकरालवदनं वृत्तपिङ्गजटाधरम् ॥ २ ॥
पार्श्वयोर्गजपादन्तु गजपुच्छन्तु मस्तके
वामपादन्न्यसेच्चैव गजदेवन्तु मस्तके ॥ ३ ॥
उद्धृत्य कुञ्चितं पादं पृष्ठपार्श्वे च विन्न्यसेत्
मुष्टिहस्तकराभ्याञ्च पार्श्वयोर्भिन्नवेष्टितम् ॥ ४ ॥
शूलं डमरुकं पाशं सव्यहस्ताम्बुजे न्यसेत्
कपालं खड्गखेटञ्च वामभागं –आम्बुजे ॥ ५ ॥
प्रभामण्डलमद्ध्यस्थं सर्वावयवसुन्दरम्
द्विभुजञ्च द्विनेत्रञ्च किरीटमकुटोज्वलम् ॥ ६ ॥
कटकं सव्यहस्ते तु वामहस्तेन धारयेत्
गुहं सर्वाङ्गसौन्दर्यं वामभागे प्रकल्पयेत् ॥ ७ ॥
एवं कल्प्य विशेषेण प्रतिष्ठां कारयेत्ततः
षोडशस्तम्भसंयुक्तां यागशालां प्रकल्पयेत् ॥ ८ ॥
नवकुण्डं प्रकल्प्याथ पञ्चकुण्डमथापि वा
तोरणान्मङ्गलांश्चैव शस्त्रध्वजवितानकान् ॥ ९ ॥
कदलीनारिकेलैश्च पूगस्तम्भैरलङ्कृताम्
चन्दनैश्चाप्यलङ्कृत्य वेदिकां पूर्ववच्चरेत् ॥ १० ॥
दशकुम्भन्न्यसेच्चैव सप्तविंशत् घटान्न्यसेत्
अङ्गुरार्पणपूर्वन्तु वास्तुपूजां ततः परम् ॥ ११ ॥
नयनोन्मीलनं कृत्वा बिम्बशुद्धिं यजेत्ततः
प्रायश्चित्ताहुतिं कृत्वा घटे संयोजयेत्ततः ॥ १२ ॥
सुमुहूर्ते सुलग्ने च अभिषेकं समाचरेत् ॥ १३ ॥
हविर्दत्वा निवेद्याथ ब्राह्मणान्भोजयेत्ततः
एवं कृत्वा विशेषेण सराजाविजयी भवेत् ॥ १४ ॥
इति गजारिस्थापनपटलस्सप्तसप्ततितमः