दिव्यवृक्षप्रतिष्ठापटलप्रारम्भः
अथातस्समहेशान दिव्यवृक्षं पुरातनम्
दुर्न्निमित्ते च दुष्काले निर्जीविततरुस्तथा ॥ १ ॥
कथं पूजाविधिश्शम्भोः वक्ष्येऽहं श्रुणु षण्मुख
दिव्यवृक्षविहीने तु राजादुर्मरणं भवेत् ॥ २ ॥
म्लेच्छाक्रान्तं भवेद्राज्यं तद्दोषशमनाय च
शान्तिहोमन्ततः कृत्वा मूर्तिहोमं समाचरेत् ॥ ३ ॥
दिशाहोमन्ततः कृत्वा संहिताहोममिष्यते
अघोरं पाशुपदञ्चैव क्षुरिप्रत्यङ्गिरस्तथा ॥ ४ ॥
मृत्युञ्जयं शिवास्त्रञ्च लक्षं जप्त्वा पृथक्पृथक्
महाशाखा विहीने तु तस्यार्द्धं जपसङ्ख्यया ॥ ५ ॥
फलपुष्पविहीने तु दुर्भिक्षमपि जायते
तस्यार्द्धं वाजपं कृत्वा हुनेत् ब्राह्मणभोजनम् ॥ ६ ॥
महाशाखा विहीने तु अमात्यो मरणं भवेत्
तस्मात्सर्वप्रयत्नेन प्रतिष्ठां कारयेत्ततः ॥ ७ ॥
षोडशस्तम्भसंयुक्तं चतुस्तोरणभूषितम्
नवकुण्डं प्रकल्प्याथ पञ्चकुण्डमथापि वा ॥ ८ ॥
वेदिका मद्ध्यमे चैव दशकुम्भन्न्यसेत्ततः
सप्तविंशत् घटान्न्यस्य द्ध्वजशस्त्रैश्च मङ्गलान् ॥ ९ ॥
सर्वोपकरणांश्चैव यागद्रव्यान्समाहरेत्
नयनोन्मीलनञ्चैव जलाधिवासनं विना ॥ १० ॥
रत्नन्यासं विना चैव शेषं पूर्ववदाचरेत्
अण्डजं मुण्डजञ्चैव योनिजं दारुजं तथा ॥ ११ ॥
बीजजं शयनं स्थाप्य निद्राकुम्भान्न्यसेत्ततः
निद्राकुम्भं समादाय पृथिव्युपरिविन्यसेत् ॥ १२ ॥
पादभागे न्न्यसेच्चैव रक्षाबन्धनमाचरेत्
रक्षासूत्रं समादाय कुण्डबन्धनमाचरेत् ॥ १३ ॥
वेदिका मद्ध्यमे चैव दशकुम्भन्न्यसेत्ततः
कुम्भे सदाशिवं पूज्य वर्द्धन्यान्तु मनोन्मनीम् ॥ १४ ॥
मूलपूजाप्रकारेण कुर्यादावाहनादिकम्
प्रथमावरणं पूज्य ईशानादीनि पूजयेत् ॥ १५ ॥
द्वितीय्यावरणे पूज्य अनन्तादीन्प्रपूजयेत्
पञ्चावरणमार्गेण पूजयित्वा यथाविधि ॥ १६ ॥
नवदिनं सप्तदिनं वा पञ्चदिनं त्रिदिनं वा
सायम्प्रातः पृथक्पृथक् ——— ॥ १७ ॥
प्रधानकुण्डे साहस्रं होमयेत्तु ततः परम्
तद्दशांशं शतांशं वा अष्टकुण्डे हुनेत्ततः ॥ १८ ॥
अन्ते हुनेत्तु साहस्रं पञ्चास्त्रेण पृथक्पृथक्
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्ततः ॥ १९ ॥
त्रिखण्डं कल्पयेद्धोमं न्यासकर्मसमाचरेत्
वृक्षबीजं समादाय ईशानेन तु मन्त्रतः ॥ २० ॥
भूमौ तु खननं घोरैस्स क्षीरादिजलैरपि
करमानोन्नतं पश्चात् सुमुहूर्ते सुलग्नके ॥ २१ ॥
घटाभिषेचनं पश्चात् हविर्दत्वा समाचरेत्
उपचारान्समावाह्य त्रिपक्षं पूजयेत्ततः ॥ २२ ॥
विशेषपूजां कृत्वा तु दक्षिणान्दापयेत्ततः
ब्राह्मणान्भोजयेच्चैव आचार्यं पूजयेत्ततः ॥ २३ ॥
एवं यः कुरुते मर्त्यः सपुण्याङ्गतिमाप्नुयात् ॥ २४ ॥
इति दिव्यवृक्षप्रतिष्ठापटलष्षट्सप्ततितमः