०७५ ज्वरदेवप्रतिष्ठापटलः

ज्वरदेवप्रतिष्ठापटलप्रारम्भः
वामे पत्रसमायुक्तं व्याघ्रचर्म्मोत्तरीय्यकम्
पद्मपीठोपरिस्थञ्च प्रभयायुतसंयुतम् ॥ १ ॥

एवं कल्प्य विशेषेण प्रतिष्ठां श्रुणु षण्मुख
षोडशस्तम्भसंयुक्तं यागमण्टपमुत्तमम् ॥ २ ॥

पूर्ववद्वेदिकां कृत्वा उपवेदिं प्रकल्प्य च
————— दशकुम्भान्न्यसेत्ततः ॥ ३ ॥

सप्तविंशत् घटान्न्यस्य तोरणान्मङ्गलांश्चरेत्
नवकुण्डं प्रकल्प्याथ पूर्ववत्परिकल्पयेत् ॥ ४ ॥

नयनोन्मीलनं कृत्वा जलाधिवासनं परम्
रक्षाबन्धनमेवोक्तं शयनारोपणं परम् ॥ ५ ॥

आवाह्य पूजयेत्पश्चात् आसनं मूर्तिमर्चयन्
प्रणवं पूर्वमुच्चार्य भान्तं समुच्चरेद्यजेत् ॥ ६ ॥

पञ्चावरणमार्गेण पूजयित्वा यथाविधि
कुण्डसंस्कारपूर्वञ्च होमकर्मसमाचरेत् ॥ ७ ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्ततः
अग्निस्थन्तु घटे योज्य घटमादाय साधकः ॥ ८ ॥

सुमुहूर्त्ते सुलग्ने च अभिषेकं समाचरेत्
हविर्दत्वा निवेद्याथ स्नपनं कारयेत्ततः ॥ ९ ॥

एवं कृत्वा विशेषेण सर्वपीडानि वारणम् ॥ १० ॥

इति ज्वरदेवप्रतिष्ठापटलः पञ्चसप्ततितमः