०७४ अश्वारूढस्थापनपटलः

अश्वारूढस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि अश्वारूढं महेश्वरम्
सर्वयुद्धजयार्त्थञ्च प्रतिष्ठां श्रुणु षण्मुख ॥ १ ॥

त्रिनेत्रं द्विभुजं भीमं जटामकुटमण्डितम्
पत्रन्तु वामकर्णे तु — क्षीरेण कुण्डलम् ॥ २ ॥

बालादित्य समप्रख्यं तुरङ्गारूढमव्ययम्
तुरङ्गं श्यामवर्णञ्च चतुष्पादसमन्वितम् ॥ ३ ॥

सव्यहस्ते भिण्डिपालं वारिरज्जुकरेन्यके
द्वात्रिंशल्लक्षणोपेतं सर्वाभरणभूषितम् ॥ ४ ॥

छत्रचक्रसमायुक्तं दिव्यवस्त्रैरलङ्कृतम्
एवं सङ्कल्पमात्रेण प्रतिष्ठां पूर्ववच्चरेत् ॥ ५ ॥

षोडशस्तम्भसंयुक्तं चतुर्द्वारसमायुतम्
मद्ध्ये वेदिं प्रकल्प्याथ नवकुण्डं प्रकीर्तितम् ॥ ६ ॥

पताकैस्तोरणैर्भूष्यं वितानद्ध्वजसंयुतम्
नयनोन्मीलनञ्चैव बिम्बशुद्धिमतः परम् ॥ ७ ॥

जलाधिवासनञ्चैव रत्नन्यासमतः परम्

|

शयनारोपणञ्चैव अङ्कुरार्पणपूर्वकम् ॥ ८ ॥

वेदिकामद्ध्यमे पूज्य प्रणवं पूर्वमुच्चरन्
प्रथमस्वरमुद्धृत्य शत्रुनाशन इत्यपि ॥ ९ ॥

चतुर्त्थ्यञ्चन्नमोन्तञ्च घटे सम्पूजयेत्ततः
पूर्वोक्तविधिना चैव होमं कृत्वा समाचरेत् ॥ १० ॥

त्रिखण्डं होमयेत्पश्चात् तोयं संयोजयेत् घटे
घटमुत्थाप्य देवेशं सुमुहूर्त्ते सुलग्नके ॥ ११ ॥

अभिषिच्य पदैर्म्मन्त्रैर्हविर्दत्वा निवेदयेत्
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः ॥ १२ ॥

एवं यः कुरुते मर्त्यः सराजाविजयी भवेत् ॥ १३ ॥

इति अश्वारूढस्थापनपटलश्चतुस्सप्ततितमः