शरभेश्वरस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि शरभेश्वरस्थापनम्
सर्वशत्रुविनाशार्त्थं कलौ सिद्धिप्रदायकम् ॥ १ ॥
सर्वयुद्धजयञ्चैव सर्वपीडानि वारणम्
नृसिह्महरिनाशार्त्थं वक्ष्येऽहं श्रुणु षण्मुख ॥ २ ॥
सिह्मास्यं स्फटिकाभञ्च सूर्यसोमाग्निदृष्टिभिः
जिह्वा च बडबाग्निस्स्यात्काली दुर्गा द्विपक्षकौ ॥ ३ ॥
शची पतिर्नखाश्चैव ———–
कालाग्निः कुक्षिरित्युक्तं कालमृत्यूरुरेव च ॥ ४ ॥
महावायुर्बलं विद्यात् शरभश्चण्डवेगतः
मृगादी च चतुष्पादं द्विपादं भूमिसंस्थितम् ॥ ५ ॥
हरमूर्ध्वकराभ्याञ्च पक्षं भित्वाजिनं धरम्
डमरुं परशुञ्चैव त्रिशूलं खड्गखेटकम् ॥ ६ ॥
|
शरं शार्ङ्गं भिण्डिपालं पार्श्वयोश्च प्रकल्पयेत्
जघने चोर्ध्वपुच्छं स्यात्पाददेशे नृसिह्मकम् ॥ ७ ॥
सिह्मचर्मधरं भीमं शत्रुसंहारकारणम्
साल्वपक्षिप्रराजाख्यम् एवं संहारताण्डवम् ॥ ८ ॥
एवं सङ्कल्प्य विधिवत्प्रतिष्ठां श्रुणु षण्मुख
अघोरं दक्षिणामूर्तिम् आपदुद्धारणन्तथा ॥ ९ ॥
भैरवं विषभेषञ्च नटेशं नारसिह्मकम्
चण्डेशं यक्षराजञ्च दक्षिणाभिमुखं यजेत् ॥ १० ॥
प्रथमावरणं पूज्य तदेवपरिकीर्तितम्
द्वितीयावरणादींश्च पूर्वादीशान्तमाचरेत् ॥ ११ ॥
तपनञ्चैव शास्तारं मेषमिन्दुन्तथैव च
लिङ्गोद्भवमिति ज्ञेयः प्रशस्तं पश्चिमामुखम् ॥ १२ ॥
धातारं चण्डिकाकारं दुर्गां ज्येष्ठाङ्गणस्तथा
उत्तराभिमुखञ्चैव पूजयेत्तु विशेषतः ॥ १३ ॥
गणेशं स्कन्दलक्ष्म्यौ च सोमास्कन्देशप्राङ्मुखम्
तदेवयागं सम्पूज्य प्रथमावरणं यजेत् ॥ १४ ॥
द्वितीय्यावरणञ्चैव तृतीय्यावरणन्तथा
चतुर्त्थावरणञ्चैव पञ्चमावरणन्तथा ॥ १५ ॥
पूर्वादिषु चाष्टदिक्षु तत्तत्स्थाने यजेत्तथा
षोडशस्तम्भसंयुक्तं यागशालां प्रकल्पयेत् ॥ १६ ॥
वेदिकाकुण्डमेवोक्तम् उत्तरक्षणमेव वा
मृत्सङ्ग्रहणमित्युक्तम् अङ्कुरार्पणमेव वा ॥ १७ ॥
वास्तुपूजां ततः कृत्वा नयनोन्मीलनं तथा
जलाधिवासनं पश्चात् शयनारोपणञ्चरेत् ॥ १८ ॥
घटे सम्पूजयेत्पश्चात् शक्त्याशक्त्यञ्च मर्चयेत्
विद्याङ्गं नेत्रमुद्राञ्च ततस्सम्पूजयेद्घटे ॥ १९ ॥
प्रणवं पूर्वमुच्चार्य मायाबीजमतः परम्
रामबीजमतः पश्चात् लक्ष्मीबीजमतः परम् ॥ २० ॥
स्कन्दबीजं ततः पश्चात्पशुबीजमतः परम्
|
खङ्खं विद्वेषणायाश्च शरभस्सालुवान्तथा ॥ २१ ॥
पक्षिराजाय इत्येते सर्वशत्रूपसंहर
संहरश्च चखाङ्खीञ्च मांरक्षच तथैव च ॥ २२ ॥
स्वाहान्तमुच्चरेत्पूज्य घटे सम्पूजयेत्ततः
प्रथमावरणं पूज्य द्वितीय्यावरणं यजेत् ॥ २३ ॥
पञ्चावरणमार्गेण पूजयित्वा यथा विधि
अग्निकार्यं समाराध्य पूर्वोक्तविधिनाहुनेत् ॥ २४ ॥
प्रायश्चित्ताहुतिं पश्चात् घटे संयोजयेत्ततः
सुमुहूर्ते सुलग्ने च अभिषेकं समाचरेत् ॥ २५ ॥
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं सङ्कल्प्य विधिवत्सपुण्यां गतिमाप्नुयात् ॥ २६ ॥
इति शरभेश्वरस्थापनपटलस्त्रिसप्ततितमः