अघोरास्त्रमूर्तिप्रतिष्ठापटलप्रारम्भः
अथ वक्ष्ये विशेषेण सर्वलोकैकपावनम्
सर्वयुद्धजयञ्चैव ब्रह्महत्यादिनाशनम् ॥ १ ॥
महापातकदोषघ्नं गुरुद्रोहनिवारणम्
शिवद्रव्यापहारञ्च उपपातकनाशनम् ॥ २ ॥
सर्वैश्वर्याभिवृद्ध्यर्त्थं परमोक्षनिरासनम्
अघोरास्त्रेश्वरं भीमं स्थापनं वक्ष्यते श्रुणु ॥ ३ ॥
त्रिणेत्राष्टभुजं भीमम् उग्रदंष्ट्राकरालकम्
कालमेघसमं घोरं रक्तवस्त्रसमन्वितम् ॥ ४ ॥
ज्वालाकेशसमायुक्तं कृशानुनयनैर्युतम्
अर्द्धचन्द्राकृतिं भस्म ललाटोपरिशोभितम् ॥ ५ ॥
भुजाभ्यां त्रिशिखा तिर्यक् वेतालं खड्गमेव च
डमरुञ्च कपालञ्च खेटकं खड्गमेव च ॥ ६ ॥
रक्तवस्त्राम्बरोपेतं रक्तपुष्पसमन्वितम्
रक्ताभरणसंयुक्तं खड्गमालाविभूषितम् ॥ ७ ॥
शिरोमालाविभूष्यञ्च नागयज्ञोपवीतिनम्
वृश्चिकाभरणं कण्ठे कालाग्निसदृशप्रभम् ॥ ८ ॥
एवं द्ध्यात्वा महाघोरं द्वात्रिंशल्लक्षणान्वितम्
पद्मपीठोपरिस्थञ्च समीपे वृषभन्तथा ॥ ९ ॥
एवं सङ्कल्प्य विधिवत्प्रतिष्ठां कारयेत्ततः
षोडशस्तम्भसंयुक्तं नवभागं प्रकीर्तितम् ॥ १० ॥
मद्ध्ये वेदिं प्रकल्प्याथ दर्पणोदरसन्निभम्
वेदिका मद्ध्यमे चैव ———– ॥ ११ ॥
तस्यार्द्धं तण्डुलं प्रोक्तं तस्यार्द्धं माषसंयुतम्
तस्यार्द्धं मुद्गसंयुक्तं तत्समं तिलमुच्यते ॥ १२ ॥
तस्यार्द्धञ्चैव गोधूमाः निष्पावन्तु तदर्द्धकम्
दशकुम्भं न्यसेच्चैव कुम्भालङ्कृतमुच्यते ॥ १३ ॥
सप्तविंशत् घटान्न्यस्य पूर्ववत्परिकल्पयेत्
पूर्वादिषु चाष्टदिक्षु पूर्ववत्कुण्डमुच्यते ॥ १४ ॥
|
चतुरश्रार्द्धचन्द्रञ्च सुवृत्तं पद्मसंयुतम्
योनित्रिकोणषट्कोणं मङ्गलाश्रं प्रकीर्तितम् ॥ १५ ॥
इन्द्रईशानयोर्मद्ध्ये वृत्तकुण्डं प्रकीर्तितम्
कारयेदर्द्धचन्द्रं वा मेखलात्रयमुत्तमम् ॥ १६ ॥
तोरणान्मङ्गलान्शस्त्रान्यागोपकरणानि वै
अङ्कुरं वास्तुयजनं नयनोन्मीलनन्तथा ॥ १७ ॥
प्रतिमां शुद्धितां कृत्वा जले शयनमेव वा
शयनारोपणं कृत्वा रक्षाबन्धनमेव वा ॥ १८ ॥
मण्टपाराधनं कृत्वा वेदिकामद्ध्यमे यजेत्
क्षित्यादिकुटिलप्रान्तं मन्त्रसिह्मासनं यजेत् ॥ १९ ॥
विद्याङ्गं नेत्रमुद्राञ्च मूलेनावाहनन्तथा
प्रणवं पूर्वमुच्चार्य मायाबीजमतः परम् ॥ २० ॥
पुरः पुरस्समुच्चार्य प्रस्फुरत्प्रस्फुरत्तथा
घोरघोरतरश्चैव धनुरूपद्वयन्तथा ॥ २१ ॥
चटद्वयं समुच्चार्य प्रचटद्वयमेव च
अहद्वयं समुच्चार्य वं वं बन्धद्वयन्तथा ॥ २२ ॥
घातयो घातयश्चैव हुम्फट्कारं समुच्चरन्
अघोरास्त्रं चतुर्त्थ्यन्तं नमोन्तं परिकीर्तितम् ॥ २३ ॥
प्रासादं पूर्वमुच्चार्य कलाषोडशसङ्ख्यया
द्वादशान्तं समुच्चार्य लयान्तमुच्चरन्गुरुः ॥ २४ ॥
शिवाय नम इत्येते प्राणप्रवाहवर्त्मना
मूलाधारं तमाकृष्य पुनः प्रणवमुच्चरन् ॥ २५ ॥
अघोरास्त्रं महामन्त्रम् उच्चरेत्पूर्वमार्गतः
उद्धृत्य बिम्बपर्यन्तं खणिका द्वारमानयेत् ॥ २६ ॥
भ्रूमद्ध्यात्खण्डिकाद्वारम् आकृष्यावाहनं बुधः
हृदयेनैव नवमन्त्रेण समावाह्य घटे गुरुः ॥ २७ ॥
स्वागतार्घ्यं ददेत्पश्चात्पुष्पाञ्जलिमिहोच्यते
स्नपनाङ्गानि सम्भाव्य अर्घ्येणप्रोक्षयेत्ततः ॥ २८ ॥
चन्दनाक्षतदूर्वाश्रीपुष्पकौपीनकुण्डलम्
|
मेखलामुपवीतञ्च वस्त्रमाभरणानि वै ॥ २९ ॥
मनसाभावयेच्चैव तत्वत्रयं समर्चयेत्
प्रथमावरणं पूज्य द्वितीय्यावरणन्तथा ॥ ३० ॥
तृतीय्यावरणञ्चैव चतुर्त्थावरणं यजेत्
पञ्चमावरणं पूज्य नैवेद्यं धूपदीपकम् ॥ ३१ ॥
कुण्डसंस्कारपूर्वन्तु अग्निसंस्कारमेव वा
स्रुक्स्रुवयोश्च संस्कारम् आज्यसंस्कारमेव वा ॥ ३२ ॥
होमयेत्तु विशेषेण होमयेत्तु च सङ्ख्यया
तस्यार्द्धं वा तदर्द्धं वा आज्येन होमयेत्ततः ॥ ३३ ॥
प्रायश्चित्ताहुतिं कृत्वा घटे संयोजयेत्ततः
सुमुहूर्ते सुलग्ने च अभिषेकं विशेषतः ॥ ३४ ॥
हविर्दत्वा निवेद्याथ स्नपनं कारयेत्ततः
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः ॥ ३५ ॥
एवं कृत्वा विशेषेण सर्वकार्यसमन्वितः ॥ ३६ ॥
इति अघोरास्त्रमूर्तिप्रतिष्ठा पटलो द्विसप्ततितमः