०७१ आपदुद्धारणेश्वरपटलः

आपदुद्धारणेश्वरपटलप्रारम्भः
अथ वक्ष्ये विशेषेण सर्वलोकहिताय च
सर्वशत्रुविनाशार्त्थम् आपदुद्धारणेश्वरम् ॥ १ ॥

द्विभुजञ्च द्विनेत्रञ्च वृत्तपिङ्गजटाधरम्
श्वेतवर्णसमायुक्तं कुण्डलं कर्णपत्रकम् ॥ २ ॥

अभयन्दण्डसंयुक्तं नागयज्ञोपवीतितम्
श्यामं कञ्चुकसंयुक्तं लम्बितं स्तनपार्श्वयोः ॥ ३ ॥

शूलान्तं लम्बितञ्चैव मणिमाला विभूषितम्
वृश्चिकाभरणोपेतं शिरोमालाभिभूषितम् ॥ ४ ॥

कटिसूत्राकृतिं नागराजयुग्मेन संयुतम्
पद्मपीठोपरिस्थञ्च ह्रस्वदेहसमन्वितम् ॥ ५ ॥

किञ्चिद्दंष्ट्रं महाभीमं विष्णु —- कशारिणम्
एवन्ध्यात्वा महादेवम् इष्टसिद्धिर्भविष्यति ॥ ६ ॥

इत्थं सङ्कल्प्य विधिवत् प्रतिष्ठां कारयेत्ततः
षोडशस्तम्भसंयुक्तं यागमण्टपमुत्तमम् ॥ ७ ॥

पूर्वादिषु चाष्टदिक्षु पूर्ववत्परिकल्पयेत्
इन्द्रईशानयोर्मद्ध्ये पञ्चाश्रं कुण्डमुच्यते ॥ ८ ॥

प्रधानमिति विज्ञेयं मेखलात्रयसंयुतम्
वेदिकामद्ध्यमे चैव दशकुम्भान्न्यसेत्ततः ॥ ९ ॥

अङ्कुरं वास्तुयजनं नयनोन्मीलनक्रियाम्
जलाधिवासनञ्चैव रत्नन्यासन्तथैव च ॥ १० ॥

शयनारोपणं कृत्वा आत्मशुद्धिमतः परम्
अन्तर्यागसमायुक्तं मन्त्रशुद्धिमतः परम् ॥ ११ ॥

|

शिवहस्तं प्रकल्प्याथ वेदिकामद्ध्यमे यजेत्
यजेदाधारशक्त्यादि कुटिलान्तं समर्चयेत् ॥ १२ ॥

दण्डभङ्ग्या च विन्यस्य नेत्रमुद्रां प्रदर्शयेत्
प्रणवं पूर्वमुच्चाय श्रीबीजमिति कथ्यते ॥ १३ ॥

मायाबीजन्ततः पश्चात्कुरुकुर्वटुकाय च
आपदुद्धारणायेति क्षम् इति मन्त्रमुच्चरन् ॥ १४ ॥

वटुकायनमोन्तञ्च मूर्तिमावाहयेत्ततः
आग्नेय्यादिक्रमेणैव हृदयादीन्यजेत्ततः ॥ १५ ॥

द्वितीय्यावरणे पूज्य विश्वरूपादिमर्चयेत्
दक्षिणाभिमुखं पूज्य द्वितीयावरणन्तथा ॥ १६ ॥

पूर्वादिषु चाष्टदिक्षु तृतीयावरणं यजेत्
चतुर्त्थावरणञ्चैव पञ्चमावरणं यजेत् ॥ १७ ॥

तत्तत्स्थानेषु सम्पूज्य पूर्ववद्ध्यानमाचरेत्
पूजितं वृषभस्थाने केसरिं सम्प्रपूजयेत् ॥ १८ ॥

शेषं पूर्वेव सम्पूज्य द्वारपूजान्ततः श्रुणु
गणेशं वाथ लक्ष्मीञ्च दक्षिणे वाममद्ध्यमे ॥ १९ ॥

नन्दिनं पिशिताशञ्च सव्यभागे प्रपूजयेत्
कुम्भोदरं कृशाङ्गीञ्च वामभागे प्रपूजयेत् ॥ २० ॥

देहलीमद्ध्यमे चैव सिह्मवक्त्रं प्रपूजयेत्
पूर्वे तु केसरिं पूज्य अस्त्रं सम्पूजयेत्ततः ॥ २१ ॥

वास्तुब्रह्माणमभर्च्य वेदिकां पूजयेत्ततः
पूर्ववद्धग्निमाराद्ध्य पूर्ववद्धोमयेत्ततः ॥ २२ ॥

प्रायश्चित्ताहुतिं कृत्वा अग्निमुद्वासयेत्ततः
अग्निन्तन्तुघटे —————— ॥ २३ ॥

अभिषिच्य महादेवं स्नपनं कारयेत्ततः
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः ॥ २४ ॥

एवं यः कुरुते मर्त्यः सर्वशत्रुविनाशनम् ॥ २५ ॥

इति आपदुद्धारणेश्वरपटल एकसप्ततितमः

|