भैरवक्षेत्रपालप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि भैरवं श्रुणु षण्मुख
भ्रुकुटितटमुखं दंष्ट्रिणं भीमनेत्रं ज्वालाकेशं त्रिणेत्रं त्रिशिखडमरुं
पाशहस्तं कपालम् । घण्टामालाभूषितं फणिघटिस्सूत्राकृतिं
किङ्किणिम् अर्द्धचन्द्रं हृवृश्चिकधरं महाकालं महाभैरवम् ॥ १ ॥
षोडशस्तम्भसंयुक्तं यागशालां प्रकल्पयेत् ॥ २ ॥
|
मद्ध्ये वेदिं प्रकल्प्याथ दर्पणोदरसन्निभम्
पूर्वाद्यष्टदिशि चैव पूर्ववत्कुण्डमुच्यते ॥ ३ ॥
इन्द्रईशानयोर्मद्ध्ये वृत्तकुण्डं प्रकीर्तितम्
अङ्कुरार्पणपूर्वन्तु द्वितीयं नयनमोक्षणम् ॥ ४ ॥
तृतीय्यं रत्नविन्यासं बिम्बशुद्धिमतः परम्
जलाधिवासनञ्चैव ग्रामप्रदक्षिणन्तथा ॥ ५ ॥
शयनारोपणं चैव पूर्ववत्परिकल्पयेत्
वेदिकामद्ध्यमे चैव दशकुम्भन्न्यसेत्ततः ॥ ६ ॥
ससूत्रं सापिधानैश्च सरत्नं स्वर्णपङ्कजम्
सकूर्चं नालिकेरञ्च चूतपल्लवसंयुतम् ॥ ७ ॥
सप्तधान्यस्थितं कुम्भं पश्चिमाभिमुखं भवेत्
दक्षिणाभिमुखं वापि बिम्बमावाहयेत् घटे ॥ ८ ॥
आसनं मूर्तिमभ्यर्च्य विद्यादेहं प्रकल्पयेत्
प्रणवं पूर्वमुच्चार्य श्रीबीजञ्च द्वितीय्यकम् ॥ ९ ॥
कुरुवाटिकायेति आपदुद्धारणाय च
क्षं क्षेत्रपाल इत्येते चतुर्त्थ्यन्तं समुच्चरन् ॥ १० ॥
नमोन्तमुच्चरेत्पश्चात् भाष्योच्चारन्तु पूर्ववत्
पश्चान्मन्त्रेण चावाह्य घटे सम्पूजयेत्ततः ॥ ११ ॥
पश्चिमाभिमुखं पूज्य दक्षिणाभिमुखन्तु वा
पुष्पाञ्जलित्रयं पूज्य प्रथमावरणं यजेत् ॥ १२ ॥
पश्चिमाद्दक्षिणान्तं वा दक्षिणात्पूर्वमेव वा
विश्वशूपादिमभ्यर्च्य द्वितीय्यावरणन्तथा ॥ १३ ॥
पञ्चमावरणञ्चैव पूर्ववत्परिकल्पयेत्
नन्द्यादींश्चैव इन्द्रादीन्वज्रादीन्हेतुकादि च ॥ १४ ॥
पूर्वादिषु चाष्टदिक्षु तत्तत्स्थानेषु पूजयेत्
अग्निसंस्कारपूर्वन्तु पूर्ववद्विधिनाहुनेत् ॥ १५ ॥
समिदाज्य चरून्लाजं नवधान्यं गुलन्तथा
अपूपान्कन्दकुसुमं होमयेत्तु विशेषतः ॥ १६ ॥
प्रायश्चित्ताहुतिञ्चैव अग्निमुत्थापयेत्ततः
|
घटे संयोजयेत्पश्चात्सुमुहूर्त्ते सुलग्नके ॥ १७ ॥
अभिषेकन्ततः कृत्वा ब्राह्मणान्भोजयेत्ततः
आचार्यं पूजयेच्चैव दक्षिणां दापयेत्ततः ॥ १८ ॥
एवं यः कुरुते चैव सराजा विजयी भवेत्
इति भैरवक्षेत्रपालप्रतिष्ठापटलस्सप्ततितमः