लिङ्गोद्भवप्रतिष्ठापटलप्रारम्भः
अथ वक्ष्ये विशेषेण लिङ्गोद्भवमहेश्वरम्
शिवलिङ्गाकृतिञ्चैव चतुर्मानं प्रकीर्तितम् ॥ १ ॥
मद्ध्ये द्विभागं सङ्गृह्य अर्द्धचन्द्राकृतिञ्चरेत्
चतुर्भुजं त्रिणेत्रञ्च ललाटान्तं प्रदृश्यते ॥ २ ॥
जङ्घान्तं मद्ध्यमे रूपे टङ्कं कृष्णमृगन्तथा
अभयं वरदोपेतं टङ्कं तु कुण्डलन्तथा ॥ ३ ॥
हारकेयूरसंयुक्तं मणिमालाविभूषितम्
ऊर्ध्वेहंसाकृतिं सव्ये अधः कोलाकृतिञ्चरेत् ॥ ४ ॥
बाह्ये द्विपार्श्वयोश्चैव ब्रह्मविष्णूकृताञ्जलिम्
एवं प्रकल्प्य विधिवत्प्रतिष्ठां कारयेद्बुधः ॥ ५ ॥
षोडशस्तम्भसंयुक्तं यागशालां प्रकल्पयेत्
मद्ध्ये वेदिं प्रकल्प्याथ दर्पणोदरसन्निभम् ॥ ६ ॥
धान्यराशिं प्रकल्प्याथ अष्टद्रोणैश्च शालिभिः
मद्ध्ये पद्मञ्च संलिख्य दशकुम्भं न्यसेत्ततः ॥ ७ ॥
सप्तविंशत् घटान्न्यस्य सर्वोपकरणानि वै
नवकुण्डं प्रकल्प्याथ पञ्चकुण्डमथापि वा ॥ ८ ॥
मेखला त्रयसंयुक्तं सदा हि परिचेष्टितम्
अण्डजं मुण्डजञ्चैव रोमजन्दारुजन्तथा ॥ ९ ॥
योनिजं धान्यसहितं शयनारोपणन्तथा
स्वर्णे नरजतेनैव रक्षाबन्धनमुत्तमम् ॥ १० ॥
षोडशस्तम्भसंयुक्तं कीलैर्वा स्थाणुभिश्च वा
तृणेनोपरिचापूर्य जलमद्ध्ये प्रकल्पयेत् ॥ ११ ॥
तन्मद्ध्ये चैव पर्यङ्कं तस्योपरिन्यसेत्ततः
प्राक्शिरश्चोर्ध्ववक्त्रञ्च जलमद्ध्ये विनिक्षिपेत् ॥ १२ ॥
दशकुम्भान्न्यसेच्चैव तन्मद्ध्ये देवमर्चयेत्
इन्द्रादिलोकपालांश्च अर्चयेत्तु विशेषतः ॥ १३ ॥
द्विदिनं त्रिदिनं वापि दिनमेकन्तु यामकम्
यामार्द्धं वाहरेच्चैव वेदघोषैस्समन्वितम् ॥ १४ ॥
उत्थाप्यरथमारोप्य विसृजेत्कुम्भमाचरेत्
ग्रामप्रदक्षिणं कृत्वा मण्टपद्वारमाविशेत् ॥ १५ ॥
धान्यराशिमलङ्कृत्य त्रिकुम्भं विन्यसेत्ततः
सूर्यसोमाग्निमावाह्य पूजयेत् युगमार्गतः ॥ १६ ॥
उत्तराभिमुखो भूत्वा अग्निकार्यं समाचरेत्
रविं सोमञ्च शिखिनं प्रत्येकं दशसङ्ख्यया ॥ १७ ॥
तत्तन्मूलेन हुत्वा तु अग्निमुत्थाप्य योजयेत्
यद्वा च जपसङ्ख्यांश्च अष्टाविंशति सङ्ख्यया ॥ १८ ॥
तत्तन्मन्त्रं जपेच्चैव अग्निकार्यं विना गुरुः
आचार्यस्सव्यदिग्भागे वामे स्थपतिरेव च ॥ १९ ॥
आचार्यो मन्त्रमुच्चार्य तत्तन्मन्त्रसमन्वितः
पूर्णचन्द्रनिभाकारं टङ्केन नेत्रमद्ध्यमे ॥ २० ॥
कुविरं मन्दसन्ताड्य स्थपतिः क्रमयोगतः
स्थापको मन्त्रयोग्यश्च स्वर्णपत्रसमन्वितम् ॥ २१ ॥
|
तन्मद्ध्ये मधुनिक्षिप्य स्वर्णदूर्वां गृहेत्ततः
आचार्यो मधुसङ्गृह्य दूर्वया नेत्रमद्ध्यमे ॥ २२ ॥
उदीच्यमिति मन्त्रेण लेपयेत्साधकोत्तमः
आज्येन लेपनं कृत्वा शस्त्रदोषनिवारणम् ॥ २३ ॥
प्रच्छन्नपटमानीय पटमाकृष्य बुद्धिमान्
कुञ्चिकादर्शनं पूर्वं विप्रयुग्मेन दर्शनम् ॥ २४ ॥
गोदर्शनं ततः कृत्वा सन्यासीदर्शनं ततः
राजदर्शनमालोक्य जनैस्सन्दर्शनं ततः ॥ २५ ॥
बिम्बशुद्धिं ततः कृत्वा शयना रोपणं तथा
वेदिका मद्ध्यमे पूज्य पूर्ववच्चार्चयेत्ततः ॥ २६ ॥
प्रणवं पूर्वमुच्चार्य खकारञ्च द्वितीयकम्
स्तम्भरुद्राय इत्येते नमोन्तं चार्चयेत्ततः ॥ २७ ॥
आवाह्य मूलमन्त्रेण अञ्जलित्रयमाचरेत्
पञ्चावरणमार्गेण पूजयित्वा विशेषतः ॥ २८ ॥
अग्निकार्यं समाराद्ध्य पूर्वोक्तविधिनाहुनेत्
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्ततः ॥ २९ ॥
अग्निमुद्वास्य उत्थाप्य घटे संयोजयेत्ततः
सुमुहूर्ते सुलग्ने च अभिषिच्य हविर्ददेत् ॥ ३० ॥
स्नपनं कारयेत्पश्चात् आचार्यं पूजयेत्ततः
ब्राह्मणान्भोजयेत्तत्र देवसान्निद्ध्यकारणम् ॥ ३१ ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ३२ ॥
इति लिङ्गोद्भवप्रतिष्ठापटल एकोनसप्ततितमः