०६८ दक्षिणामूर्तिस्थापनपटलः

दक्षिणामूर्तिस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वज्ञानप्रदायकम्
दक्षिणामूर्तिरूपन्तु वक्ष्येऽहं श्रुणु षण्मुख ॥ १ ॥

त्रिणेत्रं चतुर्भुजं शान्तं शुद्धस्फटिकसन्निभम्
जटामकुटकोपेतं नक्रकुण्डलमण्डितम् ॥ २ ॥

पत्रन्तु वामकर्णे तु सर्वावयवसुन्दरम्
नाभिं वह्निसमायुक्तं ज्ञानमुद्रान्तु दक्षिणे ॥ ३ ॥

दक्षिणे लम्बितं पादं वामाङ्घ्रिं कुञ्चितं पदम्
योगपट्टिकया वेष्ट्य वामजान्वोपरि तथा ॥ ४ ॥

वामबाहुकरञ्चास्य पर्वतोपरिसंस्थितम्
अपस्मारपरी देहे सव्यपादेन मण्डितम् ॥ ५ ॥

पृष्ठपार्श्वेऽथ न्यग्रोधं महोक्षं सव्यभागके
ज्ञानदाता मुनिगणैस्सेव्यमानं महेश्वरम् ॥ ६ ॥

भस्मव्यापाण्डराङ्गं शशिकलाधरं ज्ञानमुद्राक्षमालां
वीणापुस्तककरं धृतयोगपट्टाभिरामम् ।
व्याख्यापीठे निषण्णं मुनिवरगणैस्सेवितं सुप्रसन्नं
सव्यालं कृत्तिवस्त्रं द्रुतवचनं दक्षिणामूर्तिमीडे ॥ ७ ॥

एवं ध्यात्वा विशेषेण प्रतिष्ठां कारयेत्ततः
अङ्कुरं कारयेत्पश्चात् वास्तुयजनमारभेत् ॥ ८ ॥

नयनोन्मीलनं पश्चात् जलक्रीडां समाचरेत्
प्रदक्षिणक्रमेणैव बिम्बशुद्धिरुदाहृतम् ॥ ९ ॥

शयनं मण्टपे स्थाप्य रक्षाबन्धनपूर्वकम्
वेदिका मद्ध्यमे पूज्य आसनं मूर्तिमर्चयेत् ॥ १० ॥

प्रणवं पूर्वमुच्चार्य नमो कारं द्वितीयकम्
भगवते इत्युच्चार्य दक्षिणामूर्तयेऽपि च ॥ ११ ॥

प्रज्ञां यशश्च स्वाहाञ्च मूलेनावाहयेत्ततः
पञ्चावरणमार्गेण पूजयित्वा विशेषतः ॥ १२ ॥

अग्निकार्यं प्रकुर्वीत होमं कृत्वा समाचरेत्
तत्वे तत्वेश्वरं न्यस्य मूर्तौ मूर्तीश्वरान्न्यसेत् ॥ १३ ॥

व्याप्यव्यापकहोमैश्च प्रायश्चित्ताहुतिं हुनेत्
सुमुहूर्ते सुलग्ने च घटस्नानं समाचरेत् ॥ १४ ॥

महाहविर्निवेद्याथ स्नपनं कारयेत्ततः
त्रिपक्षपूजनं कृत्वा अन्ते स्नपनमाचरेत् ॥ १५ ॥

एवं कृत्वा विशेषेण राजराष्ट्रविवर्द्धनम्
सर्वपीडाप्रशमनं सर्वव्याधिनिवारणम् ॥ १६ ॥

सर्वविद्याप्रदं नॄणां सायुज्यपदमाप्नुयात् ॥ १७ ॥

इति दक्षिणामूर्तिस्थापनपटल अष्टषष्टितमः