०६७ उमयासहप्रतिष्ठापटलः

उमयासहप्रतिष्ठापटलप्रारम्भः
अथ वक्ष्ये महासेन उमयासहनायकम्
अरुणाभं त्रिणेत्रञ्च चन्द्रचूडाजटाधरम् ॥ १ ॥

टङ्ककृष्णमृगञ्चैव गौर्यनङ्गञ्च वामके
सव्ये चाभयमित्युक्तं प्रभामण्डलमण्डितम् ॥ २ ॥

सर्वाभरणसम्भूष्यं पद्मपीठोपरिस्थितम्
एवन्ध्यात्वा विशेषेण प्रतिष्ठाप्राग्वदाचरेत् ॥ ३ ॥

षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव वा
नवकुण्डं प्रकल्प्याथ तोरणादीनि कल्पयेत् ॥ ४ ॥

अङ्कुरार्पणपूर्वन्तु नयनोन्मीलनन्ततः
जलाधिवासनञ्चैव शयनारोपणन्तथा ॥ ५ ॥

कुम्भे सम्पूजयेत्पश्चात्पञ्चावरणमार्गतः
हुत्वा जप्त्वा स्तुतिं कृत्वा त्रिखण्डं परिहोमयेत् ॥ ६ ॥

न्यासकर्मसमाराद्ध्य सुमुहूर्ते सुलग्नके
अभिषेकं ततः कृत्वा हविर्दत्वा निवेदयेत् ॥ ७ ॥

ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं यः कुरुते मर्त्यस्सपुण्याङ्गतिमाप्नुयात् ॥ ८ ॥

इति उमयासहप्रतिष्ठापटलस्सप्तषष्टितमः